
प्रथमः पाठः सुभाषितानि पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।। 1 ।। सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ।। 2 ।। दाने तपसि शौर्ये च विज्ञाने विनये नये । विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा ।। 3 ।। सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् । सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत् ।। 4 ।। धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।। 5 ।। क्षमावशीकृतिर्लोके क्षमया किं न साध्यते । शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः ।। 6 ।। शब्दार्थाः पृथिव्याम् सुभाषितम् मूढैःपाषाणखण्डेषु रत्नसंज्ञा विधीयते धार्यते तपते वाति वायुश्च (वायुः+च) प्रतिष्ठितम् तपसि शौर्ये नये विस्मयः बहुरत्ना वसुन्धरा सद्भिरेव (सद्भिः+एव) सहासीत (सह +आसीत) कुर्वीत सद्भिर्विवादम् (सद्भिः+विवादम्) क्षमावशीकृतिर्लोके (क्षमावशीकृतिः+लोके) नासद्भिः (न+असद्भिः) धनधान्यप्रयोगेषु संग्रहेषु त्यक्तलज्जः शान्तिखड्गः -धरती पर - सुन्दर वचन - मूर्खों के द्वारा - पत्थर के टुकड़ों में - रत्न का नाम - किया/समझा जाता है - धारण किया जाता है - जलता है - बहता है / बहती है - पवन भी - स्थित है - तपस्या में - बल में - नीति में - आश्चर्य - अनेक रत्नों वाली - पृथिवी - सज्जनों के साथ ही - साथ बैठना चाहिए - करना चाहिए - सज्जनों के साथ झगड़ा - संसार में क्षमा (सबसे बड़ा) वशीकरण है - असज्जन लोगों के साथ नहीं - धनधान्य के प्रयोग में - संग्रहों में, संचय करने में - संकोच या भीरुता को छोड़नेवाला - शान्ति की तलवार on the earth good sayings by fools in stone pieces name of precious stone to be done/given bears burns/heats blows air situated in penance in bravery in policy wonder possessing many jewells earth with gentlemen alone should sit together should do quarrel with gentlemen forgiveness is an enchantment in the world not with ungentlemanly people in the use of wealth in accumulation one who has given up shyness sword of peace 1. सर्वान् श्लोकान् सस्वरं गायत। 2. यथायोग्यं श्लोकांशान् मेलयत- क ख धनधान्य प्रयोगेषु नासद्भिः किञ्चिदाचरेत्। विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्। सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा। सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च। आहारे व्यवहा रे च सत्येन तपते रविः। 3. एकपदेन उत्तरत- (क) पृथिव्यां कति रत्नानि? (ख) मूढैः कुत्र रत्नसंज्ञा विधीयते? (ग) पृथिवी केन धार्यते? (घ) कैः सङ्गतिं कुर्वीत? (ङ) लोके वशीकृतिः का? 4. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- (क) सत् येन वाति वायुः। (ख) सद्भिः एव सहासीत। (ग) वसुन्धरा बहुरत्ना भवति। (घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्। (ङ) सद्भिः मैत्रीं कुर्वीत। 5. प्रश्नानामुत्तराणि लिखत- (क) कुत्र विस्मयः न कर्त्तव्यः? (ख) पृथिव्यां त्रीणि रत्नानि कानि? (ग) त्यक्तलज्जः कुत्र सुखी भवेत्? 6. मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत- रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम् पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम् .................... .................... .................... .................... .................... .................... .................... .................... .................... 7. अधोलिखितपदेषु धातवः के सन्ति? पदम् धातुः करोति .................... पश्य .................... भवेत् .................... तिष्ठति .................... सुभाषितानि