Skip to content

परिशिष्टम् २

समासः

समस्तेन समासः भवति। समस्तेन नाम सङ्क्षेपणम् इत्यर्थः। अर्थात् समासे अर्थयुक्तं पदद्वयं, पदत्रयम् अथवा अनेकपदं मिलित्वा एकं पदं भवति। यथा— ‘महत्’ तथा ‘पुरुष’ इति अर्थयुक्त पदद्वयम् अस्ति। तद् द्वयमपि मिलित्वा एकपदं भवति महापुरुषः इति।

समासः : सामान्यतः परस्परं सुबन्तानां मध्ये भवति। तत्रैव समासः युगपत् द्वयोः सुबन्तयोः मध्ये भवति। यथा— सीतायाः पतिः = सीतापतिः।

द्वन्द्वसमासे तु युगपत् बहूनां सुबन्तानां मध्ये समासः भवति। यथा— हरिश्च हरिश्च गुरुः = हरिहरगुरुः।

परस्परम् अन्वितयोः (सम्बद्धयोः) सुबन्तयोः एव समासः भवति। यदि पदानां मध्ये परस्परम् अन्वयः (सम्बन्धः) न भवति तर्हि समासः अपि न भवति।

परस्परम् अन्वयस्य उदाहरणम्— सः राजः पुत्रः (राजपुत्रः) गच्छति।

यत्र अन्वयः न भवति तत्र— भवति दर्शने राजः, पुत्रः कृषकस्य गच्छति।

अत्र राजः अन्वयः: दर्शनेम् इति पदेन सह भवति।

पुत्रः इत्यस्य अन्वयः: कृषकस्य इत्यनेन सह अस्ति।

समासे पूर्वपदम् उत्तरपदम् इति द्विविधं भवति। पूर्व प्रयुक्तं पदं पूर्वपदम् अनन्तरं प्रयुक्तं पदम् उत्तरपदमिति। यथा— सीतापतिः इत्यत्र सीता इति पूर्वपदम्।

प्रयुक्तं, ‘पतिः’ इति अनन्तरं प्रयुक्तम्। अतः अत्र ‘सीता’ इति पूर्वपदं, ‘पतिः’ इति उत्तरपदं च भवति।

समासे कृते पूर्वपदम् उत्तरपदं च प्रातिपदिकरूपेण स्थितं भवति। तदनन्तरं समस्तात् पदात् विभक्तिः योजनीया।

यथा — सीतायाः पतिः = सीता + डस् + पति + सु = सीतापति (डस् तथा सु एतयोः लोपः)

सीतापति + सु = सीतापतिः। अत्र ‘सीतापति’ इति प्रातिपदिक समस्तपदं च तस्मात् विभक्तिप्रत्ययः योजितः। तदा सीतापतिः इति रूपं भवति। एवमेव समासविषये सर्वत्र अवबोध्यम्।

विग्रहवाक्यम्— वस्तुतः अवबोधकं वाक्यं विग्रहः। वृत्तिः नाम समासादिः। समासादेः अर्थं बोधयितुं यद् वाक्यम् उच्यते तद् वाक्यं विग्रहः इति व्यवह्रियते।

यथा— ‘राष्ट्रनायकः’ इति समासः (समस्तपदम्)। ‘राष्ट्रस्य नायकः’ इति विग्रहवाक्यम्। अत्र ‘राष्ट्र’ इति पूर्वपदं, ‘नायकः’ इति उत्तरपदम्।

Screenshot 2026-05-13 105511

विग्रहः द्विधा

१. स्वपदविग्रहः:
२. अस्वपदविग्रहः:

१. स्वपदविग्रहः— यदि समासस्य अर्थः समासे नाम समस्तपदे विद्यमाने पदे एव वर्णितः भवति तर्हि सः स्वपदविग्रहः भवति। तथा च — ‘समासघटकपदसहित वाक्यं स्वपदविग्रहः’ इत्यर्थः।

यथा — सुदामा कृष्णसखा अस्ति। कृष्णस्य सखा कृष्णसखा इति स्वपदविग्रहः।

२. अस्वपदविग्रहः— यदि समासस्य अर्थः समासे नाम समस्तपदे विद्यमानानि पदानि विहाय अन्यैः पदैः वर्णितः भवति तर्हि सः अस्वपदविग्रहः भवति। सामान्यतः अत्र एकं पदं समासघटकमेव भवति।

यथा— बालः यथामति कार्यं करोति। मतिम् अतिक्रम्य यथामति इति अस्वपदविग्रहः। अत्र अतिक्रम्य इति समासे अविद्यमानं पदं वर्तते।

मुख्यतया समासः द्विविधः—

१. केवलसमासः
२. विशेषसमासः

१. केवलसमासः— तत्पुरुषादिदृष्टान्तैः विनिर्मुक्तः समाससंज्ञामात्रयुक्तः केवलसमासः।

यथा— पूर्वं भूतः = भूतपूर्वः

२. विशेषसमासः चतुर्धा—

१. तत्पुरुषसमासः
२. द्वन्द्वसमासः
३. बहुव्रीहिसमासः
४. अव्ययीभावसमासः

समासस्य निर्णयः

पदेषु कः समासः अस्ति इति ज्ञातुं पूर्वपदस्य उत्तरपदस्य च ज्ञाने सम्यक् भवेत्। तदनन्तरं कस्य पदस्य प्राधान्यमिति ज्ञातव्यम्। तदर्थं समासघटितपदस्य श्रवणानन्तरं तेन सह किंचन क्रियापदं योजयेत्। ततः क्रियापदेन सह पूर्वपदस्य सम्बन्धः अस्ति वा उत्तरपदस्य वा इति दृष्टव्यम्। यस्य पदस्य सम्बन्धः क्रियापदेन सह भवति तत् पदं प्रधानं भवति।

उदाहरणम्— (१)

रामदूतः गच्छति। अत्र रामस्य दूतः गच्छति इति विग्रहवाक्ये कः गच्छति?

रामस्य दूतः गच्छति। अतः अत्र रामः न गच्छति अपितु दूतः गच्छति इति स्पष्टम्।

तर्हि ‘राम’ इति पूर्वपदेन सह क्रियापदस्य साक्षात् सम्बन्धः नास्ति। परं ‘दूत’ इति उत्तरपदेन सह क्रियापदस्य साक्षात् सम्बन्धः अस्ति। अतः अत्र उत्तरपदार्थः प्रधानः इति निश्चितुं शक्यते।

उदाहरणम्— (२)

राजेशसुरेशौ फलं खादतः। राजेशः सुरेशश्च फलं खादतः। इति वाक्ये कस्य पदस्य प्राधान्यम् अस्ति? क्रियापदेन सह कस्य सम्बन्धः अस्ति?

राजेशः खादति, सुरेशः अपि खादति। तर्हि अस्मिन् विग्रहवाक्ये पूर्वपदम् उत्तरपदे चोभौ द्वौ अपि साक्षात् सम्बन्धः क्रियापदेन सह अस्ति। अतः उभयपदार्थः प्रधानः इति निर्णयः।

उदाहरणम्— (३)

पीताम्बरः पश्यति। पीतम् अम्बरं यस्य सः पीताम्बरः (विष्णुः)। इति वाक्ये कस्य प्राधान्यम्?

यः पीतम् अम्बरं (वस्त्रं) धरति सः इति अर्थः। तर्हि क्रियापदेन सह कस्य पदस्य अन्वयः अत्र?

पीतम् अम्बरं यस्य सः (विष्णुः) तिष्ठति। तर्हि पूर्वपदं पीतं न तिष्ठति। उत्तरपदम् अम्बरं अपि न तिष्ठति। एवं तर्हि अस्मिन् वाक्ये पूर्वपदस्यापि प्राधान्यं नास्ति उत्तरपदस्यापि प्राधान्यं नास्ति।

समासवाक्ये अन्यपदस्य विष्णुः इति पदस्य प्राधान्यम् अस्ति। यः पीतम् अम्बरं धरति सः (विष्णुः) इत्यर्थः।

उदाहरणम्— (४)

उपनगरं नदी प्रवहति। अत्र विग्रहवाक्यं भवति नगरस्य समीपे इति। नदी नगरस्य प्रवहति इति साक्षात् अन्वयः न भवति। नदी समीपे प्रवहति इति अन्वयः भवति।

एवं तर्हि सामीप्यार्थसूचकं ‘उप’ इति पदं पूर्वपदम् अस्ति। तथा च पूर्वपदेन सह अपि क्रियापदस्य अन्वयः भवति। एवं समासे पूर्वपदस्य प्राधान्यमिति ज्ञातव्यम्।

तत्पुरुषसमासः

प्रायः उत्तरपदार्थप्रधानः तत्पुरुषसमासः।

उदाहरणम्— रामस्य दूतः = रामदूतः। रामदूतः गच्छति।

द्वन्द्वसमासः

प्रायः उभयपदार्थप्रधानः द्वन्द्वसमासः।

उदाहरणम्— राजेशश्च सुरेशश्च = राजेशसुरेशौ (राजेशसुरेशौ ग्रामं गच्छतः)

बहुव्रीहिसमासः

प्रायः अन्यपदार्थप्रधानः बहुव्रीहिसमासः।

उदाहरणम्— पुस्तके हस्ते यस्य सः = पुस्तकहस्तः (बालकः)। कः सः पुस्तकहस्तः?

अव्ययीभावसमासः

प्रायः पूर्वपदार्थप्रधानः अव्ययीभावसमासः।

उदाहरणम्— नगरस्य समीपम् = उपनगरम् (उपनगरं नदी प्रवहति)

तत्पुरुषसमासः

प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषसमासः।

१. विभक्तितत्पुरुषः षड्विधः

क्र.सं तत्पुरुषसमासः विग्रहवाक्यम् समासः (समस्तपदम्)
द्वितीयातत्पुरुषः गृहं गतः गृहगतः
तृतीयातत्पुरुषः नखैः भिन्नः नखभिन्नः
चतुर्थीतत्पुरुषः गवे हितम् गोहितम्
पञ्चमीतत्पुरुषः चोरात् भयम् चोरभयम्
षष्ठीतत्पुरुषः वृक्षस्य मूलम् वृक्षमूलम्
सप्तमीतत्पुरुषः कार्ये कुशलः कार्यकुशलः

२. कर्मधारयसमासः

कर्मधारयसमासः अपि तत्पुरुषसमासान्तर्गतः भवति। कर्मधारयसमासः नवधा।

क्र.सं कर्मधारयसमासः विग्रहवाक्यम् समासः (समस्तपदम्)
विशेषणपूर्वपदः नीलः मेघः नीलमेघः
विशेषणोत्तरपदः वैयाकरणः खसूचिः वैयाकरणखसूचिः
विशेषणोभयपदः शीतम् उष्णम् शीतोष्णम्
उपमानपूर्वपदः मेघ इव श्यामः मेघश्यामः
उपमानोत्तरपदः नरः व्याघ्रः इव नरव्याघ्रः
अवधारणापूर्वपदः विद्या एव धनम् विद्याधनम्
सम्भावनापूर्वपदः आगः इति वृक्षः आगवृक्षः
मध्यपदलोपः शाकप्रियः पार्थिवः शाकपार्थिवः
मयूरव्यंसकादिः अन्यो देशः देशान्तरम्

३. द्विगु समासः

द्विगुसमासः अपि तत्पुरुषस्येव भेदः। एषः त्रिविधः।

क्र.सं समासः विग्रहवाक्यम् समस्तपदम्
समाहारद्विगुः त्रयाणां लोकानां समाहारः त्रिलोकी
तद्धितार्थद्विगुः षण्णां मातृणाम् अपत्यम् षाण्मातुरः
उत्तरपदद्विगुः पञ्च गावः धनं यस्य सः पञ्चगवधनः

४. नञ्-प्रभृति तत्पुरुषसमासः

नञ्-समासः अपि तत्पुरुषस्येव भेदः। एषः पञ्चविधः।

क्र.सं समासः विग्रहवाक्यम् समस्तपदम्
नञ्-तत्पुरुषः न धर्मः अधर्मः
कुत्सिततत्पुरुषः कुत्सितः पुत्रः कुपुत्रः
गतितत्पुरुषः अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य
प्रादितत्पुरुषः १. प्रगतः आचार्यः
२. अतिक्रान्तः देवम्
३. निष्क्रान्तः वाराणस्याः
प्राचार्यः
अतीदेवः
निर्वाराणसिः
उपपदतत्पुरुषः कुम्भं करोति इति कुम्भकारः
एकदेशीतत्पुरुषः १. अर्धं ग्रामस्य
२. अहः पूर्वम्
अर्धग्रामः
पूर्वाह्नः

द्वन्द्वसमासः

प्रायः उभयपदार्थप्रधानः द्वन्द्वसमासः। द्वन्द्वसमासस्य भेदद्वयम्।

द्वन्द्वसमासः

१. इतरेतरद्वन्द्वसमासः
क. द्विपदद्वन्द्वसमासः
ख. बहुपदद्वन्द्वसमासः
२. समाहारद्वन्द्वसमासः
क. समाहारद्वन्द्वसमासः
ख. नित्यसमाहारद्वन्द्वसमासः
Screenshot 2026-05-13 113528

१. इतरेतरद्वन्द्वसमासः

क्र.सं. समासस्य नाम विग्रहः समासः (समस्तपदम्)
क. द्विपदद्वन्द्वसमासः रामश्च कृष्णश्च रामकृष्णौ
ख. बहुपदद्वन्द्वसमासः रामश्च कृष्णश्च
सुरेशश्च गिरीशश्च
रामकृष्णसुरेशगिरीशाः

२. समाहारद्वन्द्वसमासः

क्र.सं. समासस्य नाम विग्रहः समासः (समस्तपदम्)
क. समाहारद्वन्द्वसमासः संज्ञा च परिभाषा च संज्ञापरिभाषम्
ख. नित्यसमाहारद्वन्द्वसमासः पाणी च पादौ च पाणिपादम्