Skip to content
Screenshot 2026-05-08 151439

परिशिष्टम् ३

वाच्यम्

Screenshot 2026-05-12 123149

वाच्यम् (प्रयोगः)

कर्तरि प्रयोगः | कर्मणि प्रयोगः | भावे प्रयोगः

एतानि कर्तृवाच्यं, कर्मवाच्यं, भाववाच्यं च इत्यपि कथ्यन्ते |


कर्तृवाच्यम्

  • कर्तरि प्रयोगे कर्तृवाचकं पदं ‘प्रथमाविभक्तौ’ भवति |
  • कर्मवाचकं पदं ‘द्वितीयाविभक्तौ’ भवति |
  • क्रियापदं कर्तृपदानुगुणं भवति |

तन्नाम कर्तृपदं यद्वचनयुक्तं भवति क्रियापदमपि तद्वचनयुक्तमेव भवति | अर्थात् कर्तरि प्रयोगे क्रियापदं कर्तृपदमनुसृत्य एव भवति | कर्मपदेन सह तस्य कोऽपि सम्बन्धः न भवति |

कर्तृपदम् एकवचने चेत् क्रियापदमपि एकवचने, कर्तृपदं द्विवचने चेत् क्रियापदमपि द्विवचने, कर्तृपदं बहुवचने चेत् क्रियापदमपि बहुवचने च भवति |

यथा— बालः चित्रं पश्यति | बालौ चित्रं पश्यतः | बालाः चित्रं पश्यन्ति |

बालः फलं खादति | बालः फले खादति | बालः फलानि खादति |

अत्र सामान्यतया परिशीलयामः चेत् ‘बालः’ कर्ता, ‘फलं’ कर्म, ‘खादति’ क्रियापदम् अस्ति |

Screenshot 2026-05-12 163413

उपरि विद्यमानेषु वाक्येषु यत्र कर्तुः वचनपरिवर्तनम् अभवत् तत्र क्रियापदस्यापि वचनपरिवर्तनम् अभवत् | कर्मपदस्य वचनपरिवर्तनेन क्रियापदस्य वचनपरिवर्तनं न अभवत् | अतः अत्र कर्ता प्रधानः भवति | क्रियापदं कर्तृपदम् अनुसरति |

कर्तरि प्रयोगे पुरुषव्यवस्था — प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः च

मध्यमपुरुषः

कर्तृपदं यदि ‘त्वं/युवां/यूयं’ भवति तर्हि क्रियापदं सर्वदा मध्यमपुरुषस्य एकवचने/द्विवचने/बहुवचने भवति |

यथा— त्वं श्लोकं पठसि | युवां श्लोकं पठथः | यूयं श्लोकं पठथ |

उत्तमपुरुषः

कर्तृपदं यदि ‘अहम्/आवां/वयं’ भवति तर्हि क्रियापदं सर्वदा उत्तमपुरुषस्य एकवचने/द्विवचने/बहुवचने भवति |

यथा— अहं श्लोकं पठामि | आवां श्लोकं पठावः | वयं श्लोकं पठामः |

प्रथमपुरुषः

कर्तृपदं यदि ‘त्वं/युवा/यूयम्’ अथवा ‘अहम्/आवां/वयम्’ एतेभ्यः भिन्नं भवति तर्हि क्रियापदं सर्वदा प्रथमपुरुषस्य एकवचने/द्विवचने/बहुवचने भवति |

यथा—

सः श्लोकं पठति | तौ श्लोकं पठतः | ते श्लोकं पठन्ति |
सा श्लोकं पठति | ते श्लोकं पठतः | ताः श्लोकं पठन्ति |
युवकः श्लोकं पठति | युवकौ श्लोकं पठतः | युवकाः श्लोकं पठन्ति |
बालिका श्लोकं पठति | बालिके श्लोकं पठतः | बालिकाः श्लोकं पठन्ति |

कर्मवाच्यम् / कर्मणि प्रयोगः

  • कर्मणि प्रयोगे कर्तृपदं तृतीयाविभक्तौ भवति |
  • कर्मपदं प्रथमाविभक्तौ भवति |
  • क्रियापदं कर्मपदम् अनुसरति |

तन्नाम कर्मपदम् एकवचने भवति चेत् क्रियापदमपि एकवचने भवति | कर्मपदं द्विवचने चेत् क्रियापदमपि द्विवचने भवति | अत्र कर्तुः सम्बन्धः क्रियापदेन सह न भवति | कर्मपदस्य सम्बन्धः क्रियापदेन सह भवति |

कर्मणि प्रयोगे धातुभ्यः ‘यक्’ (य) प्रत्ययः विधीयते | ततः आत्मनेपदप्रत्ययः भवति |

यथा — गम् + य + ते = गम्यते | पद् + य + ते = पद्यते | लिख् + य + ते = लिख्यते |

कर्मणि प्रयोगे क्रियापदानि आत्मनेपदिरूपाणि भवन्ति | वर्तमानकाले आख्यातप्रत्ययः ‘ति’ प्रत्ययस्य स्थाने ‘ते’ प्रत्ययः एव भवति |

कर्तरि कर्मणि कर्तरि कर्मणि
पठति पठ्यते पिबति पीयते
लिखति लिख्यते ददाति दीयते
खादति खाद्यते नयति नीयते
गच्छति गम्यते करोति क्रियते
त्यजति त्यज्यते शृणोति श्रूयते
पृच्छति पृच्छ्यते गायति गीयते
कर्तरि कर्मणि कर्तरि कर्मणि
जानाति ज्ञायते आरोहति आरुह्यते
स्मरति स्मर्यते पश्यति दृश्यते
वदति/वक्ति उद्यते/उच्यते परीक्षते परीक्ष्यते
क्षिपति क्षिप्यते सेवते सेव्यते
प्राप्नोति प्राप्यते वन्दते वन्द्यते
प्रणमति प्रणम्यते क्रीडति क्रीड्यते
कर्तरि कर्मणि कर्तरि कर्मणि
प्रक्षालयति प्रक्षाल्यते गण्यति गण्यते
चिन्तयति चिन्त्यते रचयति रच्यते
पालयति पाल्यते ताडयति ताड्यते
सूचयति सूच्यते कथयति कथ्यते
पूजयति पूज्यते पाठयति पाठ्यते
बोधयति बोध्यते पूजयति पूज्यते

अधः वर्तमानकाले कर्तरि कर्मणि च कतिचन वाक्यानि प्रदत्तानि सन्ति |

क्र.सं. कर्तरि प्रयोगः / कर्तृवाच्यम् कर्मणि प्रयोगः / कर्मवाच्यम्
१. बालकः श्लोकं पठति | बालकेन श्लोकः पठ्यते |
२. सा कवितां लिखति | तया कविता लिख्यते |
३. सुनीता फलानि खादति | सुनीतया फलानि खाद्यन्ते |
४. शिक्षकः ग्रन्थालयं गच्छति | शिक्षकेण ग्रन्थालयः गम्यते |
५. सः दुर्गुणान् त्यजति | तेन दुर्गुणाः त्यज्यन्ते |
६. अहम् इक्षुरसं पिबामि | मया इक्षुरसः पीयते |
७. सज्जयः लेखनीः ददाति | सज्जयेन लेखन्यः दीयन्ते |
८. आरक्षकाः चोरान् नयन्ति | आरक्षकैः चोराः नीयन्ते |
९. राधा पूजां करोति | राधया पूजा क्रियते |
१०. मित्राणि चलच्चित्रं पश्यन्ति | मित्रैः चलच्चित्रं दृश्यते |

. कर्तरि प्रयोगस्य कर्मणि प्रयोगस्य पूर्वोक्ताः नियमाः वर्तमानादिषु सर्वेषु कालेषु अन्वयं प्राप्नुवन्ति | क्रियापदानां रूपाणि तत्तत्काले (लकारानुगुणम्) भवन्ति |

. भूतकाले लङ्-लृट्-आदीनां लकाराणां प्रयोगः भवति | तथैव कृदन्तेषु भूतकाले कर्तरि 'क्तवतु' प्रत्ययस्य कर्मणि 'क्त' प्रत्ययान्तस्य च प्रयोगः भवति |

. विशेषतः भूतकाले कर्मणि क्त-प्रत्ययस्य प्रयोगे कर्मपदस्य लिङ्गं वचनं च स्पष्टं जानीयात् | यतः कर्मपदं यस्मिन् लिङ्गे, यस्मिन् वचने च भवति तस्मिन्नेव लिङ्गे, तस्मिन्नेव वचने च क्रियापदं भवति |


भूतकाले कर्तरि ‘क्तवतु’ प्रत्ययस्य कर्मणि ‘क्त’ प्रत्ययस्य च प्रयोगः

क्र.सं. कर्तरि प्रयोगः / कर्तृवाच्यम् कर्मणि प्रयोगः / कर्मवाच्यम्
१. बालकः श्लोकं पठितवान् | बालकेन श्लोकः पठितः |
२. सा कवितां लिखितवती | तया कविता लिखिता |
३. सुनीता फलानि खादितवती | सुनीतया फलानि खादितानि |
४. शिक्षकः ग्रन्थालयं गतवान् | शिक्षकेण ग्रन्थालयः गतः |
५. सः दुर्गुणान् त्यक्तवान् | तेन दुर्गुणाः त्यक्ताः |
६. अहम् इक्षुरसं पीतवान् | मया इक्षुरसः पीतः |
७. सञ्जयः लेखनीः दत्तवान् | सञ्जयेन लेखन्यः दत्ताः |
८. आरक्षकाः चोरान् नीतवन्तः | आरक्षकैः चोराः नीताः |
९. राधा पूजां कृतवती | राधया पूजा कृता |
१०. मित्राणि चलच्चित्रं दृष्टवन्तः | मित्रैः चलच्चित्रं दृष्टम् |

. विधिलिङ्-लकारस्य कर्तरि कर्मणि च प्रयोगाः भवन्ति | विधिलिङ्-लकारस्य अर्थेषु एव कृदन्तेषु कर्मणि 'तव्यत्' 'अनीयर्' इत्येतयोः प्रयोगः भवति | अत्रापि 'तव्यत्' 'अनीयर्' प्रत्ययौ कर्मपदस्य लिङ्ग वचनं च अनुसृत्य भवतः |

'तव्यत्' 'अनीयर्' इत्यनयोः प्रयोगः

क्र.सं. कर्तरि प्रयोगः / कर्तृवाच्यम् कर्मणि प्रयोगः / कर्मवाच्यम्
१. महेशः आपणं गच्छेत् | महेशेन आपणः गन्तव्यः / गमनीयः
२. ताः मधुरं खादेयुः | ताभिः मधुरं खादितव्यम् / खादनीयम्
३. बालिका वृक्षान् पश्येत् | बालिकया वृक्षाः द्रष्टव्यः / दर्शनीयाः
४. छात्राः स्वाध्यायं कुर्युः | छात्रैः स्वाध्यायः कर्तव्यः / करणीयः
५. सः भगवद्गीतां पठेत् | तेन भगवद्गीता पठितव्या / पठनीया

भावे प्रयोगः / भाववाच्यम्

भावप्रधानः प्रयोगः भावे प्रयोगः | ये अकर्मकधातवः सन्ति तेषां कर्तरि प्रयोगाः भावे प्रयोगाश्च भवन्ति | अकर्मकधातवः नाम येषां धातूनां प्रयोगे कर्मपदस्य प्रसक्तिः न भवति ते धातवः अकर्मकधातवः भवन्ति | अत एव अकर्मकधातूनां प्रयोगे कर्मपदस्य अभावात् कर्तरि प्रयोगः भावे प्रयोगश्च भवतः | कर्मणि प्रयोगः तु न भवति |

Screenshot 2026-05-12 163850

भावे प्रयोगे क्रियापदं सर्वदा प्रथमपुरुषस्य एकवचने एव भवति |

हस् + यक् + ते = हस्यते |

भावे प्रयोगे क्रियापदं सर्वदा प्रथमपुरुषस्य एकवचने एव भवति |

कृदन्तेषु यदा भावे प्रयोगः क्रियते तदा क्त-तव्यत्-अनीयर्-प्रत्ययान्तानि रूपाणि सर्वदा नपुंसकलिङ्गे प्रथमाविभक्तेः एकवचने एव भवन्ति |

लट्-लकारे (वर्तमानकाले) भावे प्रयोगः

क्र.सं. कर्तरि प्रयोगः / कर्तृवाच्यम् भावे प्रयोगः / भाववाच्यम्
१. ते हसन्ति | तैः हस्यते |
२. बालाः उद्याने क्रीडन्ति | बालैः उद्याने क्रीड्यते |
३. फलानि भूमौ पतन्ति | फलैः भूमौ पत्यते |
४. वाहनानि मार्गे तिष्ठन्ति | वाहनैः मार्गे स्थीयते |
५. सा उत्तिष्ठति | तया उत्थीयते |
६. वृद्धः आसने उपविशति | वृद्धेन आसने उपविश्यते |
७. नर्तकाः नृत्यन्ति | नर्तकैः नृत्यते |
८. बालिकाः प्रयतन्ते | बालिकाभिः प्रयत्यते |
९. शुनकः धावति | शुनकेन धाव्यते |
१०. वृक्षः वर्धते | वृक्षेण वृध्यते |
११. शिशुः शेते | शिशुना शय्यते |
१२. रुग्णः कासते | रुग्णेन कास्यते |

अध्ययनाय अकर्मकधातूनां कानिचन क्रियापदानि अत्र प्रदत्तानि सन्ति |

क्रीडति भषति स्फुरति रोदिति भवति
शोभते मोदते वर्तते कम्पते स्पर्धते

विकसति उपविशति विश्वसिति नश्यति गर्जति
लज्जते प्लवते स्पन्दते वर्धते त्वरते

भूतकाले कर्तरि क्तवतुप्रत्ययान्ताः प्रयोगाः, भावे क्तप्रत्ययान्ताः प्रयोगाश्च

क्र.सं. कर्तरि प्रयोगः / कर्तृवाच्यम् भावे प्रयोगः / भाववाच्यम्
१. ते हसितवन्तः | तैः हसितम् |
२. बालाः उद्याने क्रीडितवन्तः | बालैः उद्याने क्रीडितम् |
३. फलानि भूमौ पतितवन्ति | फलैः भूमौ पतितम् |
४. वाहनानि मार्गे स्थितवन्ति | वाहनैः मार्गे स्थितम् |
५. सा उत्थितवती | तया उत्थितम् |
६. शिशुः शयितवान् | शिशुना शयितम् |

कर्तरि विधिलिङ्-लकारस्य भावे ‘तव्यत्-अनीयर्’ प्रत्ययान्तयोः च प्रयोगाः

क्र.सं. कर्तरि प्रयोगः / कर्तृवाच्यम् भावे प्रयोगः / भाववाच्यम्
१. नर्तकाः नृत्येयुः | नर्तकैः नर्तितव्यम् / नर्तनीयम्
२. बालिकाः प्रयतेयुः | बालिकाभिः प्रयतितव्यम् / प्रयतनीयम्
३. शुनकः धावेत् | शुनकेन धावितव्यम् / धावनीयम्
४. वृक्षः वर्धेत् | वृक्षेण वर्धितव्यम् / वर्धनीयम्
५. वृद्धः आसने उपविशेत् | वृद्धेन आसने उपवेष्टव्यम् / उपवेशनीयम्
६. रुग्णः कासेत् | रुग्णेन कासितव्यम् / कासनीयम्

(अस्मिन् परिशिष्टत्रये श्लोकानाम् अन्वयक्रमाः समासाः प्रयोगाश्च इत्येते विचाराः सामान्यतया प्रदर्शिताः सन्ति | छात्राः विस्तृताध्ययनार्थम् अन्यान् ग्रन्थान् परिशीलयेयुः |)