Skip to content
Screenshot 2026-05-11 140949

परिशिष्टम् ५

धातुरूपाणि

परस्मैपदिधातूनां लट् - लकारः णिच्-प्रत्ययान्तानां प्रयोगः (प्रेरणार्थे)

‘पठ्’- धातुः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषः पठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः

‘पठ्’ + णिच् = पठि

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पाठयति पाठयतः पाठयन्ति
मध्यमपुरुषः पाठयसि पाठयथः पाठयथ
उत्तमपुरुषः पाठयामि पाठयावः पाठयामः

एवमेव लेखयति, खादयति, हासयति, चालयति, स्मारयति, पाययति, क्रीडयति, नाययति, दर्शयति, गमयति, भोजयति, दापयति, श्रावयति, ज्ञापयति, गणयति, चेत्यादयः ।


परस्मैपदिधातूनां पञ्चसु लकारेषु प्रयोगाः

‘पठ्’- धातुः, लट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषः पठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः

‘पठ्’- धातुः, लृट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
मध्यमपुरुषः पठिष्यसि पठिष्यथः पठिष्यथ
उत्तमपुरुषः पठिष्यामि पठिष्यावः पठिष्यामः

‘पठ्’- धातुः, लङ्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठत् अपठताम् अपठन्
मध्यमपुरुषः अपठः अपठतम् अपठत
उत्तमपुरुषः अपठम् अपठाव अपठाम

‘पठ्’- धातुः, लोट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठतु / पठतात् पठताम् पठन्तु
मध्यमपुरुषः पठ / पठतात् पठतम् पठत
उत्तमपुरुषः पठानि पठाव पठाम

‘पठ्’- धातुः, विधिलिङ्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठेत् पठेताम् पठेयुः
मध्यमपुरुषः पठेः पठेतम् पठेत
उत्तमपुरुषः पठेयम् पठेव पठेम

आत्मनेपदीनां धातूनां पञ्चसु लकारेषु प्रयोगाः

‘वृध्’- धातुः, लट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धते वर्धेते वर्धन्ते
मध्यमपुरुषः वर्धसे वर्धेथे वर्धध्वे
उत्तमपुरुषः वर्धे वर्धावहे वर्धामहे

‘लभ्’- धातुः, लट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लभते लभेते लभन्ते
मध्यमपुरुषः लभसे लभेथे लभध्वे
उत्तमपुरुषः लभे लभावहे लभामहे

‘वृध्’- धातोः रूपाणां वाक्येषु प्रयोगः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वृक्षः वर्धते । वृक्षौ वर्धेते । वृक्षाः वर्धन्ते ।
मध्यमपुरुषः त्वं वर्धसे । युवां वर्धेथे । यूयं वर्धध्वे ।
उत्तमपुरुषः अहं वर्धे । आवां वर्धावहे । वयं वर्धामहे ।

एवमेव भाषते, वर्तते, कम्पते, स्पर्धते, लभते, सेवते, स्पन्दते, यतते, रोचते, एधते, मोदते, वन्दते, रमते, शोभते, सहते, ईक्षते, शिक्षते चेत्यादयः ।

‘वृध्’- धातुः, लृट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धिष्यते वर्धिष्येते वर्धिष्यन्ते
मध्यमपुरुषः वर्धिष्यसे वर्धिष्येथे वर्धिष्यध्वे
उत्तमपुरुषः वर्धिष्ये वर्धिष्यावहे वर्धिष्यामहे

‘लभ्’- धातुः, लृट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लप्स्यते लप्स्येते लप्स्यन्ते
मध्यमपुरुषः लप्स्यसे लप्स्येथे लप्स्यध्वे
उत्तमपुरुषः लप्स्ये लप्स्यावहे लप्स्यामहे

एवमेव भाषिष्यते, वर्तिष्यते, कम्पिष्यते, स्पर्धिष्यते, सेविष्यते, स्पन्दिष्यते, यतिष्यते, रोचिष्यते, एधिष्यते, मोदिष्यते, वन्दिष्यते, शोभिष्यते, सहिष्यते, ईक्षिष्यते, रंस्यते, शिक्षिष्यते चेत्यादयः ।

‘वृध्’- धातुः, लङ्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्धत अवर्धेताम् अवर्धन्त
मध्यमपुरुषः अवर्धथाः अवर्धेथाम् अवर्धध्वम्
उत्तमपुरुषः अवर्धे अवर्धावहि अवर्धामहि

‘लभ्’- धातुः, लङ्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलभत अलभेताम् अलभन्त
मध्यमपुरुषः अलभथाः अलभेथाम् अलभध्वम्
उत्तमपुरुषः अलभे अलभावहि अलभामहि

एवमेव अभाषत, अवर्तत, अकम्पत, अस्पर्धत, असेवत, अस्पन्दत, अयतत, अरोचत, ऐधत, अमोदत, अवन्दत, अरमत, अशोभत, असहत, ऐक्षत, अशिक्षत चेत्यादयः ।

‘वृध्’- धातुः, लोट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धताम् वर्धेताम् वर्धन्ताम्
मध्यमपुरुषः वर्धस्व वर्धेथाम् वर्धध्वम्
उत्तमपुरुषः वर्धै वर्धावहै वर्धामहै

‘लभ्’- धातुः, लोट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लभताम् लभेताम् लभन्ताम्
मध्यमपुरुषः लभस्व लभेथाम् लभध्वम्
उत्तमपुरुषः लभै लभावहै लभामहै

एवमेव भाषताम्, वर्तताम्, कम्पताम्, स्पर्धताम्, सेवताम्, स्पन्दताम्, यतताम्, रोचताम्, एधताम्, मोदताम्, वन्दताम्, रमताम्, शोभताम्, सहताम्, ईक्षताम्, शिक्षताम् इत्यादयः च ।

‘वृध्’- धातुः, विधिलिङ्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धेत वर्धेयाताम् वर्धेरन्
मध्यमपुरुषः वर्धेथाः वर्धेयाथाम् वर्धेध्वम्
उत्तमपुरुषः वर्धेय वर्धेवहि वर्धेमहि

‘लभ्’- धातुः, विधिलिङ्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लभेत लभेयाताम् लभेरन्
मध्यमपुरुषः लभेथाः लभेयाथाम् लभेध्वम्
उत्तमपुरुषः लभेय लभेवहि लभेमहि

एवमेव भाषेत, वर्तेत, कम्पेत, स्पर्धेत, सेवेत, स्पन्देत, यतेत, रोचेत, एधेत, मोदेत, वन्देत, रमेत, शोभेत, सहेत, ईक्षेत, शिक्षेत चेत्यादयः ।


विशिष्टधातवः (आत्मनेपदिनः)

‘शीङ्’- धातुः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शेते शयाते शेरते
मध्यमपुरुषः शेषे शयाथे शेध्वे
उत्तमपुरुषः शये शेवहे शेमहे
‘शीङ्’- धातु:, लृट् - लकार:
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शयिष्यते शयिष्येते शयिष्यन्ते
मध्यमपुरुषः शयिष्यसे शयिष्येथे शयिष्यध्वे
उत्तमपुरुषः शयिष्ये शयिष्यावहे शयिष्यामहे
‘शीङ्’- धातु:, लङ् - लकार:
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशेत अशयाताम् अशेरत
मध्यमपुरुषः अशेथाः अशयाथाम् अशेध्वम्
उत्तमपुरुषः अशयि अशेवहि अशेमहि
‘शीङ्’- धातु:, लोट् - लकार:
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शेताम् शयाताम् शेरताम्
मध्यमपुरुषः शेष्व शयाथाम् शेध्वम्
उत्तमपुरुषः शये शयावहे शयामहे
‘शीङ्’- धातु:, विधिलिङ् - लकार:
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शयीत शयीयाताम् शयीरन्
मध्यमपुरुषः शयीथाः शयीयाथाम् शयीध्वम्
उत्तमपुरुषः शयीय शयीवहि शयीमहि

‘भुज्’- धातु: रूपाणि

‘भुज्’- धातु:, लट् - लकार:
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भुङ्क्ते भुञ्जाते भुञ्जते
मध्यमपुरुषः भुङ्क्षे भुञ्जाथे भुङ्क्ष्वे
उत्तमपुरुषः भुञ्जे भुञ्जवहे भुञ्जमहे
‘भुज्’- धातु:, लृट् - लकार:
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भोक्ष्यते भोक्ष्येते भोक्ष्यन्ते
मध्यमपुरुषः भोक्ष्यसे भोक्ष्येथे भोक्ष्यध्वे
उत्तमपुरुषः भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे
‘भुज्’- धातु:, लङ् - लकार:
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभुङ्क्त अभुञ्जाताम् अभुञ्जत
मध्यमपुरुषः अभुङ्क्षथाः अभुञ्जाथाम् अभुङ्क्षध्वम्
उत्तमपुरुषः अभुञ्जि अभुञ्जवहि अभुञ्जमहि
‘भुज्’- धातु:, लोट् - लकार:
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भुङ्क्ताम् भुञ्जाताम् भुञ्जताम्
मध्यमपुरुषः भुङ्क्ष्व भुञ्जाथाम् भुङ्क्ष्वम्
उत्तमपुरुषः भुनजै भुनजावहै भुनजामहै
‘भुज्’- धातु:, विधिलिङ् - लकार:
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भुञ्जीत भुञ्जीयाताम् भुञ्जीरन्
मध्यमपुरुषः भुञ्जीथाः भुञ्जीयाथाम् भुञ्जीध्वम्
उत्तमपुरुषः भुञ्जीय भुञ्जीवहि भुञ्जीमहि