Skip to content

RuchiraBhag1-001

द्वादश अध्‍याय

रचना प्रयोग

1. पत्रम्

i) रुग्‍णताया: कारणात् अवकाशप्राप्‍तये प्रधानाचार्यं प्रति पत्रम्—

सेवायाम्

          प्रधानाचार्य-महोदया:

        केन्‍द्रीय-विद्यालय:

       आर. के. पुरम्, सैक्‍टर:-द्वितीय:

         नवदेहली - 110022

          विषय:— अवकाशप्राप्‍तये निवेदनम्

मान्‍यवरा: / महोदया:,

सविनयं निवेदनमस्ति यत् अहं शिरोवेदनया पीडित: अस्मि। एतस्‍मात्कारणात् अद्य विद्यालयम् आगन्‍तुमसमर्थ: अस्मि। अत: प्रार्थये यत् दिनद्वयस्‍य अवकाशं प्रदाय अनुग्रहं कुर्वन्‍तु भवन्‍त:।

धन्‍यवादा:

भवतां विनीत: शिष्‍य:

नरेन्‍द्र:

कक्षा 10

वर्ग: 'ब'

दिनाङ्क : ..........................

ii) शुल्‍कक्षमापनार्थं प्रधानाचार्यं प्रति पत्रम्—

सेवायाम्

         प्रधानाचार्य-महोदया:

        केन्‍द्रीय-विद्यालय:

         आर. के. पुरम्, सैक्‍टर: चतुर्थ:

         नवदेहली - 110022

विषय:— शुल्‍कक्षमापनार्थं निवेदनम्

मान्‍यवरा: / महोदया:,

सविनयं निवेदनमस्ति यत् अहं भवत: विद्यालये दशमकक्षाया: 'स' वर्गस्‍य छात्र: अस्मि। मम पिता एकस्मिन् विद्यालये द्वारपाल: अस्ति। तस्‍य मासिकवेतनम् द्विसहस्ररूप्‍यकमात्रम् अस्ति। अस्‍माकं कुटुम्‍बे पञ्च सदस्‍या: सन्ति। अनेन वेतनेन कुटुम्‍बस्‍य निर्वाह: काठिन्‍येन भवति। अत: शुल्‍कक्षमापनार्थं प्रार्थये।

आशासे यत् मदीयाम् इमां प्रार्थनां स्‍वीकृत्‍य शुल्‍कक्षमापनद्वारा माम् उपकरिष्‍यन्ति श्रीमन्‍त:।

धन्‍यवादा:।

भवतां विनीत: शिष्‍य:

सुरेन्‍द्र:

कक्षा 10

वर्ग: 'ब'

दिनाङ्क: .................................

iii) पुस्‍तकानि प्रेषयितुं प्रकाशकं प्रति पत्रम्—

सेवायाम्

व्‍यवस्‍थापक-महोदया:

आर्य बुक डिपो

करोलबाग

नवदेहली

महोदय: / महोदया:,

सेवायाम् निवेदनमस्ति यत् अहम् अधोलिखितानि पुस्‍तकानि क्रेतुम् इच्‍छामि। अत: यत् समुचितमुन्‍मोकं (कमीशनं) निष्‍कास्‍य एतानि पुस्‍तकानि वी.पी. माध्‍यमेन प्रेषयन्‍तु भवन्‍त:। शीघ्रता प्रशंसनीया स्‍यात्।

पुस्‍तकानां नामानि लेखकानां नाम‍ानि प्रति

1. सरल संस्‍कृत व्‍याकरणम् डॉ. परमानंदगुप्‍त: 1

2. निबन्‍धसौरभम् डॉ. अरुणेशकुमार: 1

3. कथासागर: डॉ. वागीश: 1

धन्‍यवादा:

भावत्‍क:

अशोक:

61/जवाहरनगरम्

मण्‍डी

हिमाचल प्रदेश

दिनाङ्क: ...............................

iv) स्‍वभगिन्‍या: विवाहे आमन्‍त्र‍यितुं स्‍वमित्रं प्रति पत्रम्—

आर 688

न्‍यू राजेन्‍द्र नगरम्

दिल्‍लीत:

20.11.2012

प्रिय ि‍मत्र,

नमस्‍ते।

इदं ज्ञात्‍वा प्रसन्‍नो भविष्‍यसि यत् भगवत्‍कृपया मम भगिन्‍या: लताया: विवाहसंस्‍कार: अधोलिखितकार्यक्रमानुसारं सम्‍पत्‍स्यते। एतदर्थं सानुरोधं निमन्‍त्रयामि। आशासे यत् यथासमयं आगत्‍य अस्‍मान् प्रीणयिष्‍यसि।

कार्यक्रम:

मंगलवासरे 26.11.2012 प्रात: सप्‍तवादने यज्ञ: सायम् अष्‍टवादने वरयात्रीणां स्‍वागतम्

प्र‍ीतिभोजनम् च।

बुधवासरे 27.11.2012 प्रात: पञ्चवादने लताया: पतिगृहगमनम्।

स्‍वगृहे सर्वेभ्‍य: मम वन्‍दनं निवेदय।

दर्शनाभिलाषी

देवेन्‍द्र:

दिनाङ्क: ...............................

v) पितरौ प्रति परीक्षाया: परिणामसूचकं पत्रम्—

छात्रावास:

केन्‍द्रीय-विद्यालय:

देहलीछावनीत:

नवदेहली

वन्‍दनीया: पितृचरणा:

सादरं प्रणम्‍यते यदहम् अत्र सम्‍यक् निवसामि। मम परीक्षाफलम् अधुना प्रकाशितम्। नवमकक्षायाम् अहम् प्रथमश्रेण्‍याम् उत्तीर्ण:। सर्वेषु छात्रेषु
मम प्रथमं स्‍थानमस्ति। अधुना कानिचित् पुस्‍तकानि क्रेतव्‍यानि स
न्ति। विद्यालयस्‍य शुल्‍कमपि देयमस्ति। अत: पञ्चसहस्रं रूप्यकाणि शीघ्रतया प्रेषयन्‍तु भवन्‍त:। अहं प्रत्‍यहं मातु: स्‍मरणं करोमि। अनुज: रमेश: कथम् अस्ति। भगिनी श्‍वेता प्रत्‍यहं पठनाय विद्यालयं गच्‍छति न वा। अहम् अवकाशे गृहम् आगमिष्‍यामि।

भवदाशीर्वचसां प्रतीक्षायाम् भवत्‍पुत्र:

भवभूति:

कक्षा 10

वर्ग: 'ब'

केन्‍द्रीय-विद्यालय:, दिल्‍ली

दिनाङ्क: .........................................

2. दूरभाषवार्ता

(दूरभाषयन्‍त्रे ध्‍वनि: भवति)

पिता — (यन्‍त्रमुत्‍थाप्‍य) क: वदति ?

रमेश: — पित:! अहम् रमेश:! प्रणमामि।

पिता — चिरञ्जीव वत्‍स! अपि कुशली ?

रमेश: — आम् पित:! भवताम् आशीर्वचोभि: सर्वं कुशलम् अस्ति। एक: आवश्‍यक: प्रसङ्ग: समुपस्थित:। तदर्थम् अहम् भवन्‍तम् आकारितवान्।

पिता — वत्‍स! कथय कीदृशं ते प्रयोजनम् ?

रमेश: — मम विद्यालयेन छात्राणाम् आगरानगरस्‍य दर्शनाय एका आमोदयात्रा आयोज्‍यते। इयं यात्रा दिनद्वयाय भविष्‍यति। एतदर्थं कक्षाया: गुरुभ्‍य: एकसहस्ररुप्यकाणि देयानि सन्ति। कृपया एकसहस्ररुप्यकाणि शीघ्रं प्रेषयन्‍तु।

पिता — पुत्र! अहमद्यैव वित्तकोषं गत्‍वा एन.ई.एफ.टी द्वारा रुप्यकाणि प्रेषयिष्‍यामि। त्‍वया आमोदयात्रात: प्रत्‍यागत्‍य सूचना प्रेष्‍या।

रमेश: — अहम् आगरात: प्रत्‍यागत्‍य अवश्‍यमेवं सूचयिष्‍यामि। अधुना ध्‍वनियन्‍त्रं निदधानि।

पिता — आम् निधेहि ध्‍वनियन्‍त्रम्।

रमेश: — (पितरं प्रणम्‍य ध्‍वनियन्‍त्रम् आधारयन्‍त्रे निदधाति)

3. अपठित गद्यांश

1. उत्‍साह: उदासीनता, निराशा चेति तिस्र: मनस: अवस्‍था:। शिशव: सदा उत्‍साहशीला: इति विदितमेव। युवान: अपि प्रायेण उत्‍साहशीला:। अनेके वृद्धा: अपि तथैव। वयस: उत्‍साहस्‍य च नास्ति सम्‍बन्‍ध:। उत्‍साह: मानवस्‍य सहज: स्‍वभाव:। स: मनस: शरीरस्‍य च विकासाय भवति। शिशु: उत्‍साहेन सर्वं ग्रहीतुं, सर्वै: सह खादितुं सर्वै: सह खेलितुं च प्रवर्तते। प्रतिबन्‍धे कृते रोदिति। उपहासे कृते क्रोधं प्रकटयति किन्‍तु निराशो
न भवति।

उपरिलिखितम् अनुच्‍छेदं पठित्‍वा प्रश्‍नान् उत्तरत—

I. एकपदेन उत्तरत—

i) शिशु: उपहासे कृते किं करोति? 1

ii) मनस: कति अवस्‍था: सन्ति? 1

II. पूर्णवाक्‍येन उत्तरत—

i) के के उत्‍साहशीला: भवन्ति? 2

III. यथानिर्देशम् उत्तरत— ½×2 = 1

i) 'अनेके वृद्धा:' अत्र विशेषणपदम् किम्?

ii) 'ज्ञातमेव' इति अर्थे किं पदम् अनुच्‍छेदे प्रयुक्‍तम्?

2. कस्मिंश्चित् प्रदेशे काचित् नदी प्रव‍हति स्‍म। नदीतीरे कश्‍चन संन्यासी स्‍वशिष्‍यै: सह आश्रमं निर्माय वसति स्‍म। एकदा संन्यासी शिष्‍यै: सह नद्या: अपरं तीरं गन्‍तुम् एकां नौकाम् आरूढवान्। वेगेन प्रवहन्‍त्‍यां नद्याम् अकस्‍मात् एका अपरा नौका शिलाया: घट्टनेन निमग्‍ना अभवत्। तेन तस्‍यां नौकायां स्थिता: सर्वे जना: मरणं प्राप्‍तवन्‍त:। संन्यासी अकथयत्- तस्‍यां नौकायां स्थितेषु कश्चित् दुष्‍ट: आसीत् इति मन्‍ये। अ‍त: ते सर्वे मरणं प्राप्‍तवन्‍त:।

उपरिलिखितम् अनुच्‍छेदम् पठित्‍वा प्रश्‍नान् उत्तरत—

I. एकपदेन उत्तरत—

i) संन्यासी कुत्र वसति स्‍म? 1

ii) अपरा नौका कस्‍या: घट्टनेन नद्यां निमग्‍ना अभवत्? 1

II. पूर्णवाक्‍येन उत्तरत—

i) संन्यासी नौकादुर्घटनाया: किं कारणं कथितवान्? 2

III. यथानिर्देशम् उत्तरत— ½×2 = 1

i) 'सज्‍जन:' इति पदस्‍य विपरीतार्थकपदम् अनुच्‍छेदात् चित्‍वा लिखत।

ii) 'आरूढवान्' इति क्रियाया: कर्तृपदम् अनुच्‍छेदात् चित्‍वा लिखत।

3. प्रात:कालादारभ्‍य सायं पर्यन्‍तं मानव: अनेकानि कार्याणि करोति। एतेषु कार्येषु किं समीचीनं किं वा असमीचीनम् इति विषये शयनकाले अवश्‍यं चिन्‍तनीयम्। एतादृशेन आत्‍मावलोकनेन स्‍वकीये आचरणे अज्ञानेन अनवधानेन रागद्वेषाभ्‍यां वा यदि कश्‍चन प्रमाद: सञ्जात:, अपचार: द्रोहो वा निष्‍पन्‍न: तर्हि तेषां परिमार्जनोपाय: अवश्‍यम् आलोचनीय:। पश्‍चात्‍ताप: अनुभवितव्‍य:। श्‍व: प्रभृति एतादृशं प्रमादं न करिष्‍यामि इति दृढसङ्कल्‍प: करणीय:।

उपरिलिखितम् अनुच्‍छेदम् पठित्‍वा प्रश्‍नान् उत्तरत—

I. एकपदेन उत्तरत— 2

i) किं समीचीनम् किं वा असमीचीनम् इति विषये कदा आलोचनीयम्?

ii) यदि अपचार: द्रोह: वा निष्‍पन्‍न: तदा क: अवश्‍यम् आलोचनीय:?

II. पूर्णवाक्‍येन उत्तरत—

i) क: दृढस्कल्‍प: करणीय:? 2

III. यथानिर्देशम् उत्तरत—

i) अनुच्‍छेदे के पदे परस्‍परं विपरीतार्थे प्रयुक्‍ते? 1

4. य: स्‍वदोषाणां कृते अनुतपति तस्‍य सत्‍पथगमनस्‍य द्वारम् उद्घाटितं भवति। अनुतापानलेन पापानि भस्‍मीभवन्ति, ग्‍लानि: नश्‍यति, चित्‍तं निर्मलं प्रसन्‍नं च भवति, सद्विचार: समुदेति। इत्‍थम् आत्‍मानुशीलनस्‍य महत्त्वं जीवने अनुभूयते। तेन कृतेषु कार्येषु त्रुटय: न भवन्ति। अत: कृतदोष‍ोऽपि जन: अनुतप्‍य सत्‍कर्मसम्‍पादनेन जीवने महान् भवितुम् अर्हति।

उपरिलिखितम् अनुच्‍छेदम् पठित्‍वा प्रश्‍नान् उत्तरत—

I. एकपदेन उत्तरत—

i) जीवने कस्‍य महत्त्वम् अनुभूयते? 1

ii) कृतदोष: जन: केन महान् भवितुं शक्‍नोति? 1

II. पूर्णवाक्‍येन उत्तरत—

i) अनुतापानलेन किं किं भवति? 2

III. यथानिर्देशम् उत्तरत— ½×2 = 1

i) 'एवम्' इति अर्थे किं पदम् अनुच्‍छेदे प्रयुक्‍तम्?

ii) 'अनुभूयते' इति क्रियापदस्‍य कर्तृपदं किम्?

5. कस्मिंश्चित् अरण्‍ये अनेके पशव: वसन्ति स्‍म। एकदा पशूनां राजा सिंह: रोगपीि‍डत: अभवत्। एकं शृंगालं विहाय सर्वे पशव: रोगपीडितं नृपं द्रष्‍टुमागता:। एक: उष्‍ट्र: नृपाय एतत् न्‍यवेदयत् यत् अहंकारिणं शृंगालं विहाय सर्वे भवन्‍तं द्रष्‍टुमागता:। एतच्‍छ्रुत्‍वा सिंह: क्रोधितोऽभवत्। स्‍वमित्रै: एतज्‍ज्ञात्‍वा शृंगाल: शीघ्रमेव सिंहस्‍य समीपे प्राप्‍त:। क्रोधितेन सिंहेन विलम्‍बेन आगमनकारणं पृष्‍ट: शृंगालोऽवदत् यदहं तु सर्वप्रथममागन्‍तुम् ऐच्‍छम् परं चिकित्‍सकात् औषधमपि आनेयमिति विचिन्‍त्‍य तत्रागच्‍छम्। तच्‍छ्रुत्‍वा प्रसन्‍न: सिंह: औषधविषये पृष्‍टवान्। शृंगाल: अवदत् यत्तेन औषधं तु न दत्तं परं कृपापरो भूत्‍वा चिकित्‍साक्रमम् उक्‍तम् यत् उष्‍ट्रस्‍य रक्‍तपानेनैव रोगस्‍य शान्ति: भविष्‍यति। तदा सिंह: उष्‍ट्रमाहूतवान्। भक्‍त्‍या आगतं च तं मारयित्‍वा तस्‍य रक्‍तं पीतवान्। एवं स्‍वपिशुनताया: दुष्‍फलम् उष्‍ट्रेण स्‍वयमेव प्राप्‍तम्।

उपरिलिखितम् अनुच्‍छेदम् पठित्‍वा प्रश्‍नान् उत्तरत—

I. एकपदेन उत्तरं लिखत— ½ × 4 = 2

i) चिकित्‍सकेन किम् उक्‍तमासीत्?

ii) शृंगाल: शीघ्रमेव कस्‍य समीपे प्राप्‍त:?

iii) उष्‍ट्रेण कस्‍या: दुष्‍फलम् प्राप्‍तम्?

iv) अनेके पशव: कुत्र वसन्ति स्‍म?

II. पूर्णवाक्‍येन उत्तरं लिखत— 1× 4 = 4

i) क्रोधितेन सिंहेन किं पृष्‍टम्?

ii) चिकित्‍सकेन कीदृशं चिकित्‍साक्रमम् उक्‍तम्?

iii) कं विहाय सर्वे सिंहं द्रष्‍टुमागच्‍छन्?

iv) सिंह: उष्‍ट्रमाहूय किं कृतवान्?

III. यथानिर्देशम् उत्तरत—

i) 'प्रसन्‍न: सिंह:' इति अत्र विशेष्‍यपदं किम्? 1

ii) 'त्‍यक्‍त्‍वा' इत्‍यर्थे किं पदम् अनुच्‍छेदे प्रयुक्‍तम्? 1

iii) अस्‍य अनुच्‍छेदस्‍य कृते समुचितं शीर्षकं लिखत। 2

6. अमर्त्यसेन: इति नाम एव संस्‍कृतमयम्। अमर्त्यसेनवर्यस्‍य जन्‍म शान्तिनिकेतने अभवत्। अस्‍य नाम गुरुदेवेन रवीन्‍द्रनाथवर्येण चितम्। अस्‍य नाम निर्दिशन् स: उक्‍तवान् आसीत्— ''अमर्त्यसेन:" इत्‍येष: शब्‍द: संस्कृतमूल: अत: एतस्‍य उच्‍चारणं स्‍पष्‍टं स्‍यात्, यत: अर्थपरिवर्तनं न भवेत्। शान्तिनिकेतने वसन् अमर्त्यसेन: बाल्‍ये संस्‍कृताभ्‍यासं कृतवान्। तस्‍य तीव्र: अभिलाष: अपि आसीत् यत् मातामह: क्षितीशमोहनसेन इव अहम् अपि प्रसिद्ध: संस्‍कृतविद्वान् भवेयम् इति।

उपरिलिखितम् अनुच्‍छेदम् पठित्‍वा प्रश्‍नान् उत्तरत—

I. एकपदेन उत्तरं लिखत— 1 × 4 = 4

i) अमर्त्यसेनस्‍य मातामहस्‍य नाम किम् आसीत्?

ii) कुत्र वसन् अमर्त्यसेन: संस्‍कृताभ्‍यासं कृतवान् आसीत्?

iii) अमर्त्यसेनस्‍य नाम केन चितम् ?

iv) किं भवितुम् अमर्त्यसेनस्‍य तीव्र: अभिलाष: आसीत्?

II. पूर्णवाक्‍येन उत्तरं लिखत—

i) अमर्त्यसेनस्‍य नामविषये निर्दिशन् रवीन्‍द्रनाथवर्य: किमुक्‍तवान्? 2

III. यथानिर्देशम् उत्तरत—

i) ' अस्‍य नाम' इत्‍यत्र 'अस्‍य' इति पदं कस्‍मै प्रयुक्‍तम्? 1

ii) 'स्‍यात्' इत्‍यर्थे किं क्रियापदम् अनुच्‍छेदे प्रयुक्‍तम्? 1

iii) अस्‍य अनुच्‍छेदस्‍य कृते समुचितं शीर्षकं लिखत। 2

7. कदाचित् देवराज: इन्‍द्र: भूलोकम् आगतवान्। भूलोके कमपि नगरं प्रविष्‍ट: स: मार्गे गच्‍छन् आसीत्। तत्र कश्‍चन विक्रेता बहूनां देवानां विग्रहान् संस्‍थाप्‍य विक्रयणं करोति स्‍म। देवेन्‍द्र: कुतूहलेन समीपं गत्‍वा दृष्‍टवान्। तत्र विष्‍णु:, शिव:, लक्ष्‍मी:, सरस्‍वती, गणेश: इत्‍यादीनां देवानां विग्रहा: आसन्। देवेन्‍द्रस्‍य विग्रह: अपि तत्र आसीत्। देवेन्‍द्र: एकैकस्‍यापि विग्रहस्‍य मूल्‍यं पृष्‍ट्वा-पृष्‍ट्वा ज्ञातवान्। अन्‍ते च कुतूहलेन तत्र स्थितस्‍य देवेन्‍द्रविग्रहस्‍य मूल्‍यं पृष्‍टवान्। स: विक्रेता उक्‍तवान्— य: कोऽपि कमपि विग्रहं क्रीणाति तस्‍मै एष: देवेन्‍द्र-विग्रह: नि:शुल्‍कं दीयते इति। तदा तु देवेन्‍द्रस्‍य स्थिति: शोचनीया एव आसीत्।

उपरिलिखितम् अनुच्‍छेदं पठित्‍वा प्रश्‍नान् उत्तरत—

I. एकपदेन उत्तरत—

i) देवराज: कुत्र आगतवान्? 1

ii) कस्‍य स्थिति: शोचनीया आसीत्? 1

II. पूर्णवाक्‍येन उत्तरत—

i) विक्रेता तत्र केषां देवानां विग्रहान् स्‍थापितवान्? 2

ii) देवेन्‍द्रविग्रहं कस्‍मै नि:शुल्‍कं दीयते? 2

III. यथानिर्देशम् उत्तरत—

i) 'स्थिति: शोचनीया' अत्र विशेष्‍यपदं किम्? 1

ii) 'अपश्‍यत्' इत्‍यर्थे किं क्रियापदम् अनुच्‍छेदे प्रयुक्‍तम्? 1

iii) अस्‍य अनुच्‍छेदस्‍य कृते समुचितं शीर्षकं लिखत। 2

8. हरियाणाराज्‍ये यमुनानगरमण्‍डले एक: संस्‍कृतपरिवार: अस्ति। तस्मिन गृहे सर्वे संस्‍कृते सम्‍भाषणं कुर्वन्ति। तत्र पशवोऽपि संस्‍कृतम् अवबोद्धुं समर्था: सन्ति। तस्मिन् गृहे अभिमन्‍यु: नाम एक: युवक: अस्ति। सोऽपि संस्‍कृतं वदति। एकदा तत्र एक: संस्‍कृतप्राध्‍यापक: आगतवान्। तेन सह अभिमन्‍यु: संस्‍कृतेन सम्‍भाषणं कृतवान्। तस्‍य युवकस्‍य प्रतिभां दृष्‍ट्वा प्राध्‍यापक: अभिमन्‍यवे शतं रूप्यकाणि दत्तवान्। तस्‍मात् दिनात् तस्‍य मनसि संस्‍कृतं प्रति महती अभिरुचि: समुत्‍पन्‍ना। स: प्रतिदिनं गीताया: श्‍लोकान् पठित्‍वा-पठित्‍वा सर्वान् श्‍लोकान् अस्‍मरत्।

उपरिलिखितम् अनुच्‍छेदं पठित्‍वा प्रश्‍नान् उत्तरत—

I. एकपदेन उत्तरत—

i) संस्‍कृतपरिवार: कुत्र अस्ति? 1

ii) प्राध्‍यापक: कस्‍मै शतं रूप्‍यकाणि दत्तवान्? 1

II. पूर्णवाक्‍येन उत्तरत—

i) प्राध्‍यापक: अभिमन्‍यवे शतं रूप्यकाणि किमर्थं दत्तवान्? 2

ii) युवक: कथं गीताया: श्‍लोकान् अस्‍मरत्? 2

III. यथानिर्देशम् उत्तरत—

i) 'अयच्‍छत्' इत्‍यर्थे किं क्रियापदम् अनुच्‍छेदे प्रयुक्‍तम्? 1

ii) 'कृतवान्' इति क्रियापदस्‍य कर्तृपदम् चित्‍वा लिखत। 1

iii) अस्‍य अनुच्‍छेदस्‍य कृते समुचितं शीर्षकं लिखत। 2

9. एकस्मिन् दिने बहव: जिज्ञासव: तत्त्वज्ञानं श्रोतुं महात्‍मन: सुकरातस्‍य गृहम् आगच्‍छन्। ज्ञानचर्चां शृंण्‍वतां तेषां भूयान् काल: व्‍यतियात:। सुकरातस्‍य पत्‍नी गृहेऽपेक्षितानां वस्‍तूनाम् अभावचर्चां चिकीर्षति स्‍म, ि‍कन्‍तु तत्र उपस्थिते जनसमवाये एतत् सुकरं नासीत्। तत: कोपविहितचेतना सा अपशब्‍दान् उच्‍चारयन्‍ती तत्र समायाता, आगन्‍तुकेषु च पय: पातयन्‍ती प्रतिनिवृत्ता। सुकरात: सर्वान् सम्‍बोधयन् सस्मितम् उवाच, श्रुतम् एव भवद्भिर्यत् ये मेघा: गर्जन्ति, ते न वर्षन्ति, किन्‍तु अद्य प्रकृत्‍यां विपर्यास: परिलक्षितो भवति, मेघा: गर्जन्ति वर्षन्ति च।

उपरिलिखितम् अनुच्‍छेदं पठित्‍वा प्रश्‍नान् उत्तरत—

I. एकपदेन उत्तरत— 2

i) के महात्‍म-सुकरातस्‍य गृहम् आगच्‍छन्? 1

ii) सुकरातस्‍य पत्‍नी आगन्‍तुकेषु किं पातयन्‍ती प्रतिनिवृत्ता? 1

II. पूर्णवाक्‍येन उत्तरत—

i) सुकरातस्‍य पत्‍नी ि‍कं चिकीर्षति स्‍म? 2

ii) सुकरातस्‍य मते प्रकृत्‍यां क: विपर्यास: परिलक्षित:? 2

III. यथानिर्देशम् उत्तरत—

i) 'कोपविहितचेतना सा' इति पदे अनुच्‍छेदे कस्‍यै प्रयुक्‍ते?1

ii) 'अनेके' इत्‍यर्थे किं पदम् अनुच्‍छेदे प्रयुक्‍तम्? 1

iii) अस्‍य गद्यांशस्‍य समुचितं शीर्षकं लिखत। 2

4. अनुच्‍छेदलेखनम्

किसी विषय के एक बिन्‍दु पर विचारों या भावों को एक स्‍थान पर क्रमबद्ध रूप से लिखना अनुच्‍छेद कहलाता है।

नैतिकशिक्षाया: महत्त्वम्

'शिक्ष्' 'विद्योपादाने' इति व्‍युत्‍पत्त्या शिक्षाशब्‍दस्‍य अर्थ: विद्यार्जनम् एव किन्‍तु केवलानि पुस्‍तकानि कण्‍ठस्‍थीकृत्‍य उपाधिं प्राप्‍य जीविकोपार्जनम् एव शिक्षा नास्ति। जीवने सत्‍यम्, अहिंसा, विनम्रतानियमसाहसप्रभृतीनाम् उच्‍चादर्शाणाम् सम्‍यक् समावेशनम् एव शिक्षाया: उद्देश्‍यं भ‍वति। यया शिक्षया एतादृशाणां सद्गुणानां विकास: भवति सा नैतिकशिक्षेति उच्‍यते। नैतिकशिक्षामाध्‍यमेन मानवानां मूलप्रवृत्तय: संशोध्‍यन्‍ते। नैतिकशिक्षया सङ्कीर्णानां विचाराणाम् अपनयनं भवति। उचितानुचितनिर्णयक्षमताया: विकासोऽपि भवति। सम्‍प्रति लोके चौर्यहिंसाबलात्‍कार—घृणाद्वेषादिघृणितप्रवृत्‍तय: अनियंत्रणीया: सञ्जाता:। अत: अस्‍माभि: मूलप्रवृत्तीनां संयमनम् अवश्‍यं कर्त्तव्‍यम्। नैतिकशिक्षाबलेन एव वयं गतगौरवं पुन: प्राप्‍तुं शक्‍नुम:।

महामना मदनमोहनमालवीय:

महामनामदनमोहनमालवीयमहोदय: वैदिकधर्मस्‍य उद्धारकेषु अन्‍यतम:। 1869 तमे वर्षे प्रयागसमीपवर्तिनि ग्रामे ब्राह्मणकुले मदनमोहनमालवीयमहोदयानां जन्‍म अभवत्। स: प्रयागस्‍थ-म्‍योर-सेंट्रल-महाविद्यालये शिक्षां प्राप्‍तवान्। 1884 वर्षात् आरभ्‍य 1887 वर्षपर्यन्‍तं स उच्‍चविद्यालये अध्‍यापकरूपेण कार्यं कृतवान्। तदनन्‍तरं स: अनेकानां पत्रपत्रिकाणां सम्‍पादकरूपेण कार्यं कृतवान्। 1899 तमें वर्षे स: विधिशास्‍त्रस्‍य परीक्षाम् उत्तीर्य अधिवक्‍तृरूपेण अपि कार्यं कृतवान्। राष्‍ट्रीयताप्रसारणाय, प्राचीनसंस्‍कृते: गौरववर्धनाय उत्तमशिक्षया च श्रेष्‍ठसन्‍ततिनिर्माणाय च स: 1916 तमे वर्षे काश्‍यां हिन्‍दूविश्‍वविद्यालयस्‍य स्‍थापनाम् अकरोत्। यद्यपि 1916 तमे वर्षे मालवीयमहोदया: दिवंगता: परं तेषाम् नाम हिन्‍दूविश्‍वविद्यालयमाध्‍यमेन अद्यापि श्रद्धया स्‍मर्यते।

सत्‍सङ्गति:

सताम् सङ्गति: इति सत्‍सङ्गति: कथ्‍यते। मनुष्‍य: स्‍वसंगत्‍या एव सज्‍जन: दुर्जनो वा भवति। यो जन: दुर्जनानाम् संसर्गे अधिकं कालं यापयति, सोऽपि दुर्जन: भवति। सुमन: सङ्गात् कीट: अपि सतां शिरसि आरोहति, परं यदि कोऽपि सज्‍जन: अपि चौराणाम् संसर्गे कालं यापयति तदा आरक्षिभि: सोऽपि चौर: एव कथ्‍यते। अत एव अस्‍माभि: सर्वदा सत्‍सङ्गति: एव करणीया।

परोपकार:

परेषाम् उपकार: परोपकार: अस्ति। परोपकारप्रवृत्त्या एव मनुष्‍य: पशुभ्‍य: पृथक् भवति। आहारादिप्रवृत्तय: तु पशुषु अपि तथैव भवन्ति यथा मानवेषु। परं मानव: स्‍वविवेकेन उचितानुचितज्ञानेन एव आत्‍मानम् उच्‍चासने उच्‍चपदे च स्‍थापयति। वृक्षा: स्‍वयं फलं न खादन्ति, ते परेषां कृते एव फलानि छाया: च ददति। नद्य: परोपकाराय एव वहन्ति, गाव: अन्‍येभ्‍य: एव दुग्‍धं यच्‍छन्ति। एवमेव अनेके प्रात:स्‍मरणीया: महापुरुषा: अपि अभवन् ये स्‍वप्राणान् उत्‍सृज्‍य देशस्‍य समाजस्‍य च रक्षाम् अकुर्वन्। राजा शिवि: शरणागतस्‍य कपोतस्‍य रक्षायै स्‍वशरीरस्‍य मांसं कर्तयित्‍वा श्‍येनाय दत्तवान्। ऋषि: दधीचि: अपि वृत्रासुरवधाय स्‍वास्‍थीनि सहर्षम् अयच्‍छत्। अद्यापि लोके अनेके समाजसुधारका: सन्ति ये स्‍वार्थं परित्‍यज्‍य लोककल्‍याणं कुर्वन्ति। अत: सत्‍यमेव कथितम्—

अष्‍टादशपुराणेषु व्‍यासस्‍य वचनद्वयम्।

परोपकार: पुण्‍याय पापाय परपीडनम्।।

छात्रजीवनम्

य: विद्यार्जनं कर्तुम् इच्‍छति विद्यार्जने च संलग्‍न: भवति स: विद्यार्थी उच्‍यते। विद्याध्‍ययनाय छात्र: विद्यालयं गच्‍छति। स: सर्वविधं सुखं परित्‍यज्‍य अहर्निशं विद्याध्‍ययनं करोति। विद्यार्थी अल्‍पाहारी गृहत्‍यागी काकचेष्‍टावान् बकध्‍यानयुक्‍त: अल्‍पनिद्रालुश्‍च भवेत्। यथोक्‍तं केनापि कविना—

काकचेष्‍टा बकध्‍यानं शुनो निद्रा तथैव च।

अल्‍पाहार: गृहत्‍याग: विद्यार्थिपञ्चलक्षणम्।।

प्रमादं विहाय अध्‍ययनेन परिप्रश्‍नेन च विद्यार्थी विद्यार्थी भवितुं शक्‍नोति। तेन तपोमयजीवनम् अनुकरणीयम् इति।

5. निबन्‍धावली

पर्यावरणम्

अद्यत्‍वे हि विज्ञानमयं युगं वर्तते। जनै: सौविध्‍यार्थं नानोपकरणानि प्रयुज्‍यन्‍ते। तेषामुत्‍पादनं कार्यशालासु यन्‍त्रै: क्रियते। यातायातव्‍यवस्‍थाया: कृते विविधानि यानान‍ि प्रयुज्‍यन्‍ते। यद्यपि एतैरस्‍माकं जीवनं सुखमयं भवति, परम् एभि: प्रसारित: धूम: वायुमण्‍डलम् अत्‍यन्‍तं दूषयति। एवमेव वनानां विनाशेन ऋतुचक्रं प्रभावितं भवति। वायुमण्‍डलस्‍य दुष्‍प्रभावितत्‍वात अस्‍माकं शरीरमपि श्‍वासादिरोगै:
रुग्णं भवति।

महानगराणां मलिनजलं नानाप्रवाहिकामाध्‍यमेन नदीं प्रविशति। अस्‍मात् कारणात् नदीनां स्‍वच्‍छमपि जलं मलिनम् अपेयं च भवति। साम्‍प्रतं पाश्‍चात्‍यदेशेषु पर्यावरणं प्रति जागरुकता समुत्‍पन्‍ना। तत्‍प्रेरिता भारतीयैरपि पर्यावरणदूषणस्‍य सङ्कटम् अवगत्‍य साम्‍प्रतं गंगा-यमुनािद-नदीनां कृते शुद्धीकरणकार्यक्रमा: प्रचाल्‍यन्‍ते। अस्‍माभिरपि आवश्‍यकेऽस्मिन् पर्यावरणरक्षाकार्यक्रमे वृक्षा-रोपणमाध्‍यमेन, स्‍वच्‍छतादिनियमानां पालनेन च योगदानं विधेयम्।

दूरदर्शनम्

कालोऽयं विज्ञानमय:। विज्ञानस्‍य विभिन्‍नोपकरणै: मानवजीवनम् अतितरां सौविध्‍यमनुभवति। विज्ञानक्षेत्रे ये आविष्‍कारा: संजाता: तेषु दूरदर्शनं सर्वान् अतिशेते।

अद्यत्‍वे एकत्र स्थित: मानव: एतदुपकरणमाध्‍यमेन दूरस्थिता: घटना: वीक्षितुं शक्‍नोति। अमेरिकादेशेन ईराकदेशे यद् आक्रमणम् कृतम् तस्‍य साक्षात्‍प्रसारणं दूरदर्शनयन्‍त्रमाध्‍यमेन तद्वत् प्रत्‍यक्षीकृतं, यथा हि पुरा महाभारतस्‍य युद्धं सञ्जयेन धृतराष्ट्र  प्रति वर्णितमासीत्।

दूरदर्शनेन न केवलं मनोरञ्जनमेव भवति, अपितु दैनिकघटनानां ज्ञानम् अपि एतेन भवति। विभिन्‍नाभि: प्रणालिकाभि: (चैनलै:) प्रतिक्षणं नूतन-नूतनवार्ताणां प्रसारणं क्रियते। साम्‍प्रतं तु शिक्षाक्षेत्रेऽपि अस्‍य महान् उपयोगो वि‍धीयते। 'ज्ञानदर्शन' इति कार्यक्रममाध्‍यमेन देशस्‍य सुदूरस्‍थक्षेत्रवास्‍तव्‍या: छात्रा: अपि विद्यार्जनं कर्तुं पारयन्ति। दूरदर्शनेन तु साम्‍प्रतं प्रतिदिनं संस्‍कृतवार्ता: अपि प्रसार्यन्‍ते, एतत्‍प्रसारणं निशम्‍य लोका: शुद्धं संस्‍कृतोच्‍चारणं कर्तुं पारयन्ति।

यद्यपि दूरदर्शनस्‍य नैके गुणा: सन्ति, परमत्र केचन अवगुणा: अपि सन्ति। अत्र प्रसार्यमाणानां कार्यक्रमाणाम् अधिकदर्शनेन नेत्रहानि: सम्‍भवति। बाल्‍यावस्‍थायामेव बालका: उपनेत्राणि संधारयितुं विवशीभवन्ति।

एकोऽपरोऽतिदोष: वर्तते यत् प्रायश: ये मनोरञ्जककार्यक्रमा: प्रसार्यन्‍ते, तेषु सदाचारशिक्षाया: अभावो वर्तते। नैके कार्यक्रमा: केवलम् अनैतिकताम् मूल्यहानिं च प्रदर्शयन्ति। अत: अस्‍माभि: दूरदर्शनेन केवलम् गुणार्जनमेव विधेयम्।

संस्‍कृतभाषाया: महत्त्वम्

भारतवर्षे आदिकालादेव मानवानां व्‍यवहारे संस्‍कृतभाषाया: प्रयोगो भवति स्‍म। संस्‍कृतं विश्‍वस्‍य प्राचीनतमा भाषास्ति। श्रद्धावशादियं जनै: देववाणी सुरभारतीत्यपि कथ्‍यते। इयं भाषा भारतीयाया: सभ्‍यताया: संस्‍कृते: चिन्‍तनस्‍य च संवाहिकास्ति। संस्‍कृतं धर्मस्‍य, दर्शनस्‍य, राजनीते:, इतिहासस्‍य, अर्थशास्‍त्रस्‍य नीतिशास्‍त्रस्‍य च मूलमस्ति।

अस्‍यां भाषायां भारतीयचिन्‍तनस्‍य सर्वे प्रमुखा: ग्रन्‍था: उपनिबद्धा: सन्ति। विश्‍वसाहित्‍यस्‍य प्राचीनतमानां ग्रन्‍थानां वेदानामपि भाषा संस्‍कृतमेवास्ति। सम्‍पूर्णं वैदिकं वा्मयं ज्ञानविज्ञानदृष्‍ट्या समस्‍ते जगति निरुपमं विद्यते। अस्‍यां भाषायां दर्शनग्रन्‍था: साहित्‍यग्रन्‍थास्‍तु उपनिबद्धा: सन्‍त्‍येव सहैव भौतिकविज्ञानस्‍य रसायनविज्ञानस्‍य, चिकित्‍साविज्ञानस्‍य, वनस्‍पतिविज्ञानस्‍य, भाषाविज्ञानस्‍य, वास्‍तुविज्ञानस्‍यापि अनेके मौलिका: ग्रन्‍था: विद्यन्‍ते।

संस्‍कृतभाषायाम् उपनिबद्धे साहित्‍ये सत्‍यस्‍य, अहिंसाया: राष्‍ट्रभक्‍ते:, परस्‍परं सहयोगस्‍य, त्‍यागस्‍य, विश्‍वबन्‍धुत्‍वस्‍य, शान्‍तेश्‍च भावनानाम् अजस्रं स्रोत: प्रवहत् विद्यते। लोककल्‍याणाय अस्‍यां भाषायां बहव: आदर्शा: प्रस्‍तुता: सन्ति, यथा— 'वसुधैव कुटुम्‍बकम्', 'सर्वे भवन्‍तु सुखिन:', 'तेन त्‍यक्‍तेन भुञ्जीथा: मा गृध: कस्‍यस्विद्धनम्' इत्‍यादय:। एतेषामादर्शानामनुकरणं कृत्‍वा य: कोऽपि मानव: स्वजीवनम् उन्‍नतं कर्तुं शक्‍नोति।

विषयदृष्‍ट्या भाषासौष्‍ठवदृष्‍ट्या च इयं भाषा अन्‍यासु सर्वासु विश्‍वभाषासु अतिशेते। आधुनिका: प्रायश: सर्वा: भारतीया: भाषा: संस्‍कृतभाषाया: एव निर्गता: सन्ति।

संस्‍कृतसाहित्‍यमाश्रित्‍यैव आधुनिकं साहित्‍यमपि विकसितम्। अत एव इयं भाषा भारतीयभाषाणां जननी सम्‍पोषिका च कथ्‍यते। विश्‍वबन्‍धुत्‍वभावनां पोषयितुम्, भारतीयां संस्‍कृतिमवगन्‍तुम्, राष्‍ट्रि‍यताया: भावनां वर्धयितुम् भारतीयभाषाणां विकासाय च संस्‍कृतभाषाया: परमोपयोगिता विद्यते।

भारतीया संस्‍कृति:

संस्‍कृति: नाम संस्‍कारेण संस्‍करणं परिष्‍करणम् इति। यया संस्‍कृत्या सभ्‍यतया च भारतीया: जना: संस्‍कारं परिष्‍कारं च लभन्‍ते सा एव भारतीया संस्‍कृति:। इयम् 'आर्यसंस्‍कृति:' अपि उच्‍यते। एषा संस्‍कृति: जनानां हृदयेभ्‍य: दुर्गुणान्, दुर्व्यसनानि, पापानि च निस्‍सार्य दूरीकरोति। सदाचार-शिक्षणेन च सा मानवमनांस‍ि निर्मलानि सात्त्विकानि च करोति। 'समन्‍वय-भावना' अस्‍माकं भारतीयानां संस्‍कृ‍ते: प्रमुखा विशेषता अस्ति। संस्‍कृतिरियं विश्‍वस्‍य सर्वेभ्‍य: मानवेभ्‍य: सौख्‍यम् उपदिशति।

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामया:।

सर्वे भद्राणि पश्‍यन्‍तु मा कश्चिद्दु:खभाग्‍भवेत्।।

अस्‍माकं भारते पूर्वम् आर्यजना: पापेभ्‍य: बिभ्‍यति स्‍म, सत्‍यं वदन्ति स्‍म, अहिंसाम् आचरन्ति स्‍म। ते दया-परोपकार-धैर्य-त्‍यागशीलता-सहानुभूत्‍यादि-नियमान् पालयन्ति स्‍म। अत एव ते विश्‍ववन्‍द्या: आसन्। भारतीया: जना: शास्‍त्रोक्‍तानां धर्मनियमानां पालने मनसा वाचा कर्मणा संनद्धा: भवन्ति स्‍म। सत्‍यमिदं यत् संसारे य: कोऽपि स्‍वसंस्‍कृतिं त्‍य‍जति स: कदापि सुखी समृद्धश्‍च न भवति। अत: यदि वयं सुखं सम्‍मानं, समृद्धिं च इच्‍छाम: तर्हि स्‍वभारतीयसंस्‍कृते: सद्गुणा: अस्‍माभि: ग्रहणीया: पालनीया: एव।

कवि: कालिदास:

संस्‍कृतसाहित्‍यम् अतिविस्‍तृतं वर्तते। अत्र नैके कवय: अनेकान् ग्रन्‍थान् विरचितवन्‍त: परं न हि तैर्लिखितं सर्वं साहित्‍यम् इदानीं प्राप्‍यते। केवलं अङ्गुलिगण्‍या एव कवय: एतादृशा: सन्ति, येषां नाम अद्यापि आदरपूर्वकं गृह्यते, मुहुर्मुहुश्‍च तेषां साहित्‍यं पठ्यते। एतादृश एव कवि: कालिदासोऽस्ति, यो हि आलोचकै: कविकुलगुरु: इत्‍युपाधिना समलङ्क्रियते।

कालिदास: भारतवर्षस्‍य कस्मिन् प्रदेशे कस्मिंश्‍च काले जन्‍म लेभे इत्‍यादिप्रश्‍ना: अद्यावधि: असमाहिता: एव। विद्वांस: ख्रैस्‍तीयप्रथमशताब्‍दीत: आरभ्‍य षष्‍ठशतकं यावत् कुत्रापि कालिदासस्‍य स्थितिं स्‍थापयन्ति। एवमेव तस्‍य जन्‍मस्‍थान-विषयेऽपि विवदन्‍ते। कालिदासस्‍य लोकप्रियतां वीक्ष्‍य कश्‍मीरवासिनस्‍तं कश्‍मीरप्रदेशे समुत्‍पन्‍नम्, बंगालवासिनश्‍च तं बंगप्रान्‍ते समुद्भूतम्, उज्‍जयिनीवासिनश्‍च कालिदासम् उज्‍जयिन्‍यां लब्‍धजन्‍मानं कथयन्ति।

महाकविना कालिदासेन सप्‍तग्रन्‍था: विरचिता:, एतेषु रघुवंश
कुमारसम्‍भव-नामके द्वे महाकाव्‍ये, ऋतुसंहार-मेघदूतनामके द्वे खण्‍डकाव्‍ये, अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रञ्चेति त्रीणि नाटकािन सन्ति।

एतेषु सर्वेषु अभिज्ञानशाकुन्‍तलं नाम नाटकं तस्‍य सर्वस्‍वम् अभिधीयते। एतन्‍नाटकम् अधीत्‍यैव पाश्‍चात्त्या: संस्‍कृताध्‍ययनं प्रति समुत्‍सुका अभूवन्। कालिदासस्‍य साहित्‍ये सर्वत्र प्रकृतेश्चित्रणं वर्तते। मानव: यदा-यदा स्‍वकर्तव्‍यस्‍य अवहेलनां विदधाति तदा स शापं दण्‍डं च प्राप्‍नोति। प्रकृतिशरणं गत्‍वैव तस्‍य निष्‍कृतिर्भवति। शाकुन्‍तले दुर्वासस: शापमाध्‍यमेन, मेघदूते च यक्षकथामाध्‍यमेन कविरिदमेव मुहुर्मुहुरुपदिशति। कालिदासस्‍य रस भावसमन्विता वाणी कस्‍य मनो न हरति? कालिदासस्‍य अद्वितीयत्‍वमेव केनापि कविनोक्‍तम्—

पुरा कवीनां गणनाप्रसङ्गे

कनिष्ठिकाधिष्ठितकालिदास:।

अद्यापि तत्तुल्‍यकवेरभावाद्

अनामिका सार्थवती बभूव।।

आदिकवि: वाल्‍मीकि:

महर्षि: वाल्‍मीकि: संस्‍कृतसाहित्‍यस्‍य आदिकविरस्ति। अयं मर्यादापुरुषोत्तमस्‍य रामस्‍य चरितवर्णनाय 'रामायणम्' नाम आर्षकाव्‍यम् अरचयत्। रामायणस्‍य फलश्रुत्‍यध्‍याये रामायणस्‍य कर्तृत्‍वेन वाल्‍मीके: उल्‍लेख: प्राप्‍यते। क्रौञ्चद्वन्‍द्वस्‍य एकं व्‍याधेन व्‍यापादितं दृष्‍ट्वा अस्‍य कवे: मनसि समुत्थित: शोक: एव श्‍लोकरूपेण आविर्भूत:। उक्‍तञ्च—

क्रौञ्चद्वन्‍द्ववियोगोत्‍थ: शोक: श्‍लोकत्‍वमागत:।

आदिकविरयम् ऋषे: प्रचेतस: दशम: पुत्र आसीत्। अयं जात्‍या ब्राह्मण: राज्ञो दशरथस्‍य च मित्रमासीत्। मुनेर्वाल्‍मीके: आश्रमे दशसहस्रसंख्‍याका: छात्रा: उषित्‍वा शिक्षामगृह्णन्। अस्‍याश्रम: गङ्गाया: तमसानद्याश्‍च तीरे आसीत्। वाल्‍मीके: आश्रमविषये इदमपि मतं प्राप्‍यते यत् अस्‍याश्रम: यमुनायास्‍तटे चित्रकूटस्‍य समीपे आसीत्। तत्रैव उषित्‍वा वाल्‍मीकि: रामायणस्‍य रचनामकरोत्।

वाल्‍मीकिना विरचितं 'रामायणम्' लोकेऽस्मिन् सर्वतो मधुरम्, लोक‍प्रियम्, सर्वतश्‍चाधिकं हृदयस्‍पर्शि ऐतिहासिकं काव्‍यमस्ति। अस्मिन् रामस्‍य, कथां वर्णयित्‍वा कविना लोकसमक्षम् एक: आदर्श: प्रस्‍तुतीकृत: यत् 'रामादिवद् प्र‍वर्तितव्‍यं न रावणादिवत्'।

रावण: सीताया: अपहरणम् अकरोत् अत: तस्‍य समूलं नाशोऽभवत्। राम: रामायणस्‍य सर्वगुणसम्‍पन्‍न: आदर्शनायकोऽस्ति। रामस्‍य चरितानि पठित्‍वा जना: स्‍वकर्तव्‍यस्‍य, लोकव्‍यवहारस्‍य शौर्यस्‍य च शिक्षां गृह्णन्ति।

इयं रामायणी कथा इयती रुचिपूर्णा अस्ति यत् जावा-सुमात्रा-बोर्नियो-बाली-चम्‍पा-थाईलैंडप्रभृतिदेशेषु सर्वत्र प्रचारमलभत।

परवर्तिभिरनेकै: महाकविभि: अस्‍य कथामवलम्‍ब्‍य अनेकानि काव्‍यानि नाटकानि च विरचितानि। अत एव इदं महाकाव्‍यं चिरस्‍थायिनीं कीर्तिमलभत। अत एवोच्‍यते—

यावत् स्‍थास्‍यन्ति गिरय: सरितश्‍च महीतले।

तावद् रामायणी कथा लोकेषु प्रचलिष्‍यति।।

भगवद्गीता

अयं ग्रन्‍थ: महर्षिणा वेदव्‍यासेन रचितस्‍य महाग्रन्‍थस्‍य महाभारतस्‍य अङ्गभूत: अस्ति। महाभारतयुद्धकाले यदा अर्जुन: मोहग्रस्‍त: युद्धविरत: च अभवत् तदा श्रीकृष्‍णेन यत्कि‍िञ्चदुपदिष्‍टं तत् गीता-ग्रन्‍थरूपेण प्रसिद्धम्। अस्मिन् कर्म-ज्ञान-सांख्‍य-योगानां विषये उपदेश: विद्यते। कर्मयोग: गीताया: प्रमुख: उपदेश: अस्ति। अत एव अस्‍य ग्रन्‍थस्‍य अपरं नाम 'कर्मयोगशास्‍त्रम्' अपि अस्ति। अस्‍य मननं कृत्‍वा मनुष्‍य: कर्मयोगी भवति। स: मनसा इन्द्रियै: शरीरेण च क्रियमाणेषु कर्मसु कर्तृत्‍वाभिमानं त्‍यजति। अयं ग्रन्‍थ: संन्‍यासं नोपदिशति अपितु योग: कर्मसु कौशलम्'' इत्‍युपदिशति। गीतायां निष्‍कामकर्मण: विशिष्‍टं
महत्त्वम् अस्ति —

''कर्मण्‍येवाधिकारस्‍ते मा फलेषु कदाचन''।

अस्मिन् ग्रन्‍थे भगवता श्रीकृष्‍णेन उपदिष्‍टम् यत्— आत्‍मा नित्‍य: शरीराणि च अनित्‍यानि। अत: मरणात् न भेतव्‍यम्। नर: वीरो भूत्‍वा अन्‍यायस्‍य प्रतीकारं कुर्यात्। एवं प्रकारेण गीता सर्वान् मनुष्‍यान् सर्वेषु लौकिककर्मसु कौशलम् शिक्षयति। अर्जुन: उपदेशेन नष्‍टमोहो भूत्‍वा कृष्‍णस्‍य धर्मयुद्धे प्रवृत्त: अभवत्। गीताया: उपदेशसारं प्राप्‍य मनुष्‍य: आसुरीं सम्‍पदं परित्‍यज्‍य दैवीं सम्‍पदम् अर्जितुम् प्रवृत्‍तो भवति। अत: सर्वै: लोकै: गीतोपदेशम् अनुकृत्‍य जीवनम् सफलं कर्त्तव्‍यम्। गीताविषये केनापि कविना सत्‍यमुक्‍तम्—

गीता सुगीता कर्त्तव्‍या किमन्‍यै: शास्‍त्रविस्‍तरै:।

हिमालय:

भारतभूखण्‍डोपरि प्रकृते: महती अनुकम्‍पा वर्तते। नाना पर्वतमाला: विभिन्‍ना: सरित: नैकानि वनानि, द्वे सागरे, मरुस्‍थली च अत्र राजन्‍ते। एकस्मिन्‍नेव समये नैके ऋतव: अपि द्रष्‍टुं शक्‍यन्‍ते। यद्येकत्र ग्रीष्‍मातपप्रचण्‍डता दृश्‍यते, तदा अन्‍यत्र हिमाच्‍छादितत्‍वात् शैत्‍यप्रकोपोऽप्‍यनुभूयते। अस्मिन् भारतवर्षे ये प्राकृतिक-सीमान: सन्ति तेषु उत्तरस्‍यां दिशि हिमालयस्‍य प्रामुख्‍यं वर्तते।

भारतवर्षस्‍य उत्तरे दिग्विभागे अवस्थितेयं विशाला पर्वतमाला। कश्‍मीरादाभ्‍य अरुणाचलप्रदेशं यावद् अतिविस्‍तृतेयं पर्वत शृंङ्खला अनादिकालात् भारतं रक्षितवती। न कोऽपि शत्रु: इमाम् उल्‍लङ्घ्‍य भारतं प्राविशत्, केवलं विगते शताब्‍दे चीनदेश एव एतादृशं दु:साहसं कर्तुम् अपारयत्।

हिमालय एव उत्तरभारतस्‍य पिपासां शमयति विशालं कृषिक्षेत्रं च सिञ्चति। अस्‍य हिमाच्‍छादितत्‍वाद् गङ्गा-यमुना-शतद्रु-व्‍यास-वितस्‍तादय: सरित: सततं निस्‍सरन्ति। अस्‍माकं देश: 'हिन्‍दुस्‍तान' इति नाम्‍नापि व्‍यवह्रियते, अत्र यत् हिन्‍दू इति पदं वर्तते तत् सिन्‍धु इति शब्‍दान्निष्‍पन्‍नम्। सिन्‍धुनदी अपि हिमालयादेव प्रभवति।

चिरात् नाना कवय: स्‍वीयरचनासु हिमालयं वर्णितवन्‍त:। कालिदासेन तु स्‍वीये कुमारसम्‍भवे अयं हिमालय: देवभूमिरूपेण इत्‍थं वर्णित:—

अस्‍त्‍युत्तरस्‍यां दिशि देवतात्‍मा हिमालयो नाम नगाधिराज:।

पूर्वापरौ तोयनिधीवगाह्य स्थित: पृथिव्‍यामिव मानदण्‍ड:।।

हिमालयप्रदेशे एव अस्‍माकं पुरातनतीर्थादीनि सन्ति। अत्रैव शङ्कराचार्येण स्‍थापितम् 'केदारनाथ इति तीर्थस्‍थानं वर्तते'। यमुनोत्री-गंगोत्री-बदरीनाथ-प्रभृतीनि पवित्राणि स्‍थानान्‍यपि अत्रैव वर्तन्‍ते।

नैकखनिजानाम् इयम् जन्‍मभूमि:। अत्रैवासीत् कण्‍वस्‍य तपोवनम्। आयुर्वेदस्‍य उपयोगाय औषधजातानि वनस्‍पतयश्‍च अस्‍मादेव प्राप्‍यन्‍ते। योगिन: अपि तप: साधनां कर्तुम् अत्रैव गच्‍छ‍न्ति।

भारते भावनात्‍मकम् ऐक्‍यं स्‍थापयितुं हिमालयस्‍य महत्त्वपूर्णं योगदानं वर्तते।

जननी जन्‍मभूमिश्‍च स्‍वर्गादपि गरीयसी

संसारेऽस्मिन् जननी अस्‍मभ्‍यं यानि यानि सुखानि प्रयच्‍छति, जन्‍मभूमिश्‍च तथैव सौविध्‍यानि ददाति।

जन्मदात्री माता जन्मभूमिश्‍च स्‍वर्गाद् अपि श्रेष्‍ठा वरिष्‍ठा च वर्तते। माता कुमाता कदापि न भवति। सा जन्‍मन प्रभृति अतीव निश्‍छलप्रेम्‍णा पुत्रं पुत्रीं च लालयति, पालयति, स्‍वदुग्‍धं पाययित्‍वा शिशुं वर्धयति स्‍वयं च महत्‍कष्‍टानि अनुभूय तं सुखयति, महद्भयाच्‍च रक्षति।

शीतर्तौ रात्रिकालेषु बालस्‍य मूत्रेण आद्रीभूताऽपि विष्‍टरे स्‍वयं स्‍वपिति, परन्‍तु बालं च शुष्‍कस्‍थाने शय्यायां स्‍वापयति। किमधिकं माता स्‍वसन्‍ततिसुखाय रक्षणाय च स्‍वदुर्लभप्राणानपि दातुम् उद्यता भवति। अत: सत्‍यमिदं कथितं यत् जननी स्‍वर्गादपि अधिकं सुखं प्रयच्‍छति।

भासस्‍य कथनानुसारेण माता किल मनुष्‍याणां देवतानाम् च दैवतम्।

वस्‍तुत: जन्‍मभूमि: जननीवत् अस्‍मान् सर्वान् नानाविधानि अन्‍नानि, फलानि च दत्त्वा यावज्‍जीवनं पालयति पोषयति संवर्धयति च। भूमि: अस्‍मभ्‍यं धनं, धातून्, रत्‍नानि च प्रयच्‍छति। जन्‍मदात्री कतिचिद्वर्षानन्‍तरं स्‍वकर्त्तव्‍यं पूरयित्त्वा निवृत्ता भवति; किन्‍तु जन्‍मभूमि: अस्‍माकं जीवनस्‍य अन्तिमं क्षणं यावत् स्‍वान्‍नजलफलादिभि: अस्‍मान् पोषयति। वयं च अन्तिमं श्‍वासम् अत्रैव नयाम:। पशुपक्षिषु अपि स्‍वमातृभूमिं प्रति स्‍नेहभाव: दृश्‍यते। मानव: तु विशेषरूपेण विवेकशील: मनस्‍वी च वर्तते। अत: मातृभूम्‍यै तस्‍य स्‍नेह: स्‍वाभाविक:। सुष्‍ठूक्‍तम् अथर्ववेदेऽपि ''माता भूमि: पुत्रोऽहम् पृथिव्‍या:''। खगा: अपि स्‍वदेशभूमिं बहु स्निह्यन्ति—

अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम्।

रमते न मरालस्‍य मानसं मानसं विना।।

चन्‍द्रशेखर-भगतसिंह राजगुर्वादय: देशभक्‍ता: जन्‍मभूमिस्‍वतन्‍त्रतायै स्‍वकीयान् प्राणान् दत्त्वा अमरा: जाता:। मातृभूमे: सीमां परिरक्ष्‍य सैनिका: जन्‍मभूम्‍या: ऋणात् मुक्‍ता: भवन्ति। स्‍वर्णमयीं लङ्कां विजित्‍य राम:
लक्ष्‍मणम् अवदत्—

अपि स्‍वर्णमयी लङ्का, न मे लक्ष्‍मण रोचते।

जननी जनमभूमिश्‍च स्‍वर्गादपि गरीयसी।।

प्रियं मे भारतम्

अस्‍माकं प्रियं भारतम् 'आर्यावर्त: ''भारतवर्षम्'' हिन्‍दुस्‍तान' 'इण्डिया' इति चतुर्भि: नामभि: प्रसिद्धम् परन्‍तु सम्‍प्रति जनै: अस्‍य नाम 'भारतम्' इत्‍येव स्‍वीकृतम्।

भारतं कश्‍मीरात् कन्‍याकुमारीपर्यन्‍तं सुविस्‍तृतं राजते। अस्‍य मुकुट इव नगाधिराज: हिमालय: उत्तरस्‍यां दिशि शोभते। दक्षिणे चास्‍य हिन्‍दमहासागर: विद्यते।

अद्यत्‍वे भारते अष्‍टाविंशति: राज्‍यानि सन्ति, तानि सर्वाण्‍यपि प्रादेशिक-विधानसभाभि: सञ्चाल्‍यन्‍ते। दिल्‍लीनगरं भारतस्‍य राजधानी केन्‍द्रं चास्ति। केन्‍द्रीयं शासनं सांसदै: संचाल्‍यते। सांसदबहुसंख्‍याकदलेन मन्त्रिमण्‍डलं निर्मीयते। सर्वोपरि राष्‍ट्रपति: देशस्‍य शासनं करोति। किं बहुना भारतं सर्वोच्‍चसत्तासम्‍पन्‍नं प्रजातन्‍त्रात्‍मकं गणराज्‍यमस्ति।

भारते विविधा: जातय: सम्‍प्रदाया:, धर्मा: भाषाश्‍च। परं सर्वे भारतीया: परस्‍परं प्रेम्‍णा व्‍यवहरन्ति। अत्रत्‍या: गङ्गादिनद्य: सकलं जगत् पुनन्ति। अत्रैव अवतीर्णा: श्रीराम:, श्रीकृष्‍ण:, महात्‍माबुद्ध:, महावीर:, शङ्करादिमहामानवा:। अत्रैव रघु:, चन्‍द्रगुप्‍त:, अशोक:, विक्रमादित्‍य:, प्रभृतय: महान्‍त: शासका: अभवन्। आधुनिककाले गान्धि:, जवाहरलाल:, सुभाष:, चन्‍द्रशेखर:, मालवीयादय: महापुरुषा: अजायन्‍त। स्‍वकार्यैश्‍च भारतस्य महत्‍त्वं वर्धितवन्‍त:। राष्‍ट्रभक्ति: अस्‍माकं प्रथमं कर्त्तव्‍यम् अस्ति। अस्‍माभि: सर्वैरपि भारतस्‍य सेवा मनसा, वाचा कर्मणा च करणीया। सम्प्रदाय-जाति-भाषा-प्रदेशादिभेदकतत्त्वानि विस्‍मृत्‍य ऐक्‍यं विधाय भारतस्‍य रक्षा, उन्‍नति: च कर्त्तव्‍या। भारतस्‍य वैशिष्‍ट्यं प्रतिपादयन् केनापि सत्‍यमेवोक्‍तम्—

गायन्ति देवा: किल गीतकानि

धन्‍यास्‍तु ते भारतभूमिभागे।

स्‍वर्गापवर्गास्‍पदमार्गभूते

भवन्ति भूय: पुरुषा: सुरत्‍वात्।।

मैट्रो-रेलसेवा

अतिविस्‍तृतानि महानगराणि असंख्‍यनिवासिभि: सङ्कुलानि भवन्ति। महान-गरेषु जना: स्‍वकार्यं कर्तुं दूरं गन्‍तुं विवशा भवन्ति। यद्यपि महानगरेषु नैके राजमार्गा भवन्ति, परं यथा-यथा जनसंख्‍या वर्धते, वाहनानामपि संख्‍या प्रवर्धते, तथा तथा गमनागमने कष्‍टं भवति, वाहनानां च आधिक्‍येन पर्यावरणमपि
दूषितं भवति।

अत: एतत्‍समाधानाय यूरोप-देशेषु मैट्रोनामधारिणी उपनगरगामिनी तीव्र-गतिका रेलसेवा प्र‍वर्तिता। मूलत: सा रेलसेवा 'मैट्रो' नाम्‍ना अभिधीयते। भूमौ खननं विधाय विशालभवनानाम् अध: सुरंगेषु रेलपट्टिका: स्‍थाप्‍यन्‍ते, तदुपरि द्रुतगत्‍या रेलकक्षा: धावन्ति।

दिल्‍लीनगर्यां प्रचलिताया: मैट्रोरेलसेवाया: द्वे स्‍वरूपे स्‍त:। मैट्रो-मार्गस्‍य
प्रथमं स्‍वरूपं तु भूमेरुपरि, अपरञ्च भूम्यन्‍त:। इदानीं तु दिल्‍लीनगरम् प्रतिवेशिनगरेषु यथा नोएडानगरं प्रति, गुरुग्रामं प्रति, गाजि़याबादनगरं प्रति, फरीदाबादनगरं प्रति अपि मैट्रोरेलयानेन जना: सुगमतया गमनागमनं कुर्वन्ति। वायुयानस्‍थानकं प्रति गम्‍यमानाया: तीव्रगामीमैट्रोसेवाया: प्रयोगं दैशिका:, वैदेशिका: च सानन्‍दं कुर्वन्ति।

साम्‍प्रतं सहस्रशो जना: अल्‍पेनैव कालेन एकस्‍मात् स्‍थानाद् अपरत्र यान्ति। द्रुतगत्‍या प्रधावत: वातानुकूलितकक्षान् वीक्ष्‍य को जन: मैट्रोद्वारा यात्रां
कर्तुं नेच्‍छति।

स्‍वतन्‍त्रता-दिवस:

अस्‍माकं भारतदेश: सप्‍तचत्‍वारिंशदुत्तरनवशतैकसहस्रतमे (1947) वर्षे अगस्‍तमासस्‍य पञ्चदशदिनाङ्के स्‍वतन्‍त्र: अभवत्। दिनेऽस्मिन् प्रतिवर्षं सम्पूर्णे भारतवर्षे स्‍वतन्‍त्रतादिवसोत्‍सव: मन्‍यते। अयं दिवस: भारतीयेतिहासे स्‍वर्णाक्षरै: लिखितमस्ति यत: अस्मिन् एव दिवसे भारतवर्ष: मुक्‍तो भूत्‍वा स्‍वातन्‍त्र्यम् अलभत। भारतस्‍य राजधान्‍यां दिल्‍लीनगरे स्‍वतन्‍त्रतादिवसोत्‍सव: विशेषरूपेण दर्शनीय: भवति। प्रात:काले सप्‍तवादनसमये अपारजनसमूह: रक्‍तदुर्गस्‍य मुख्‍यद्वारे एकत्रितो भवति। महान्‍तो नेतार: वैदेशिका: अतिथयश्‍च मञ्चे उपविशन्ति। भारतस्‍य प्रधानमन्‍त्री त्रिवर्णात्मिकां राष्‍ट्रपताकाम् आरोहयति, तत: 'जन-गण-मन' इति राष्‍ट्रगीतं गीयते, पश्‍चाच्च प्रधानमन्‍त्री देशवासिन: सन्दिशति। दूरदर्शनेन एतेषां कार्यक्रमाणाम् प्रसारणं भवति येन दूरस्‍था: अपि जना: सोल्‍लासम् कार्यक्रमान् पश्‍यन्ति।

दिवसेऽस्मिन् न केवलं राजधान्‍यामेव अपितु सर्वेषु प्रदेशेष्‍वपि विविधानि कार्यक्रमा: आयोज्‍यन्‍ते, यथा कविभि: देशभक्तिपरा: कविता: पठ्यन्‍ते, वीररसमयानि गीतानि गीयन्‍ते, स्‍वतन्‍त्रता-संग्रामसेनानिन: स्‍मर्यन्‍ते, क्रीडा-भाषण-प्रतियोगिता: समायोज्‍यन्‍ते, अन्‍ते च मिष्‍टान्‍नानि वितीर्यन्‍ते। राष्‍ट्रपर्व इदं सर्वेषु भारतीयेषु नवोत्‍साहं, नवां कल्‍पनाञ्च जनयति। अत एव अवसरेऽस्मिन् अस्‍माभि: सर्वैरपि प्रतिज्ञा कर्त्तव्‍या यद् शरीरेण, मनसा, धनेन, प्राणार्पणेनापि भारतमातु: सेवां सदा करिष्‍याम:।