एकादशः पाठः
अथ शिक्षां प्रवक्ष्यामि
वेदों का बोध, रक्षा एवं परंपरा को समृद्ध बनाए रखने के लिए वेदांगों का अत्यन्त महत्त्वपूर्ण स्थान है । वेदाङ्ग छ: हैं- शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द और ज्योतिष तथा इन सभी का ज्ञान वेदों के उत्तम बोध के लिए अत्यावश्यक है। इनमें से भी शिक्षा को सर्वप्रथम स्थान दिया गया है- 'शिक्षा घ्राणं तु वेदस्य' । सामान्यतः 'शिक्षा' शब्द शिक्ष् धातु से निष्पन्न माना जाता है- 'शिक्ष्यतेऽनया सा शिक्षा' । परन्तु यहाँ शिक्षा शब्द शक् धातु के सन्नन्त रूप 'शक्तुम् इच्छा इति' निष्पन्न माना जाए अर्थात् सामर्थ्यप्राप्ति की इच्छा के अर्थ में और इस वेदाङ्ग में प्रधानतया वर्णोच्चारणादि का ज्ञान दिया गया है, जिनको जानने के बाद ही वेदमन्त्रों के उच्चारण तथा उनके अध्ययन की प्रवृत्ति सम्भव है। अत: पाणिनि के व्याकरणशास्त्र का पूरक शिक्षाग्रन्थ सम्भवतः पिङ्गलाचार्य द्वारा रचित 'पाणिनीय शिक्षा' ही सर्वप्रामाणिक ग्रन्थ माना गया है, जिसका अध्ययन वेदपरम्परा को सुरक्षित रखने तथा आगे बढ़ाने के लिए समर्थ बनाता है।
त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥
अनुस्वारो विसर्गश्च क पौ चापि पराश्रितौ।
दुःस्पृष्टश्चापि विज्ञेयो लृकारः प्लुत एव सः ॥
आत्मा बुद्ध्या समेत्यर्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति सः प्रेरयति मारुतम्॥
सोदीर्णो मूर्ध्यभिहतो वक्त्रमापाद्य मारुतः ।
वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥
स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः ।
इति वर्णविदः प्राहुर्निपुणं तन्निबोधत ॥
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥
ओभावश्च विवृत्तिश्च शषसा रेफ एव च।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥
हकारं पञ्चमैर्युक्तमन्तः स्थाभिश्च संयुतम् ।
उरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम्॥
कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ।
स्युर्मूर्धन्या ऋटुरषा दन्त्या लृतुलसाः स्मृताः ॥
जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठयो वः स्मृतो बुधैः ।
एऐ तु कण्ठतालव्या ओओ कण्ठोष्ठजौ स्मृतौ ॥
अनुस्वारयमानां च नासिका स्थानमुच्यते ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥
व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न तु पीडयेत् ।
भीता पतनभेदाभ्यां तद्वद् वर्णान्प्रयोजयेत् ॥
गीती शीघ्री शिरः कम्पी तथा लिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।
धैर्य लयसमर्थ च षडेते पाठका गुणाः ॥
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥
येन धौता गिरः पुंसां विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः॥
अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥
शब्दार्थाः टिप्पण्यश्च
स्वयंभुवा - ब्रह्मणा - स्वयंभू - ब्रह्मा के द्वारा
यादयश्च - य+आदयः+च (य्, र्, ल्, व्, श्, ष् स् ह् और य् )
यमाः - युग्म शब्द - यथा - अग्निः- वैदिक प्रयोग प्रायश:
पराश्रितौ - पर + आश्रितौ- अन्य पर आश्रित अर्थात् जिन वर्णों का स्वतंत्र प्रयोग असंभव हो।
विवक्षया - वक्तुम् इच्छा, तया ( बोलने की इच्छा से)
जनयते - उत्पादयति- उत्पन्न करता है
वर्णविदः - वर्णवेत्तार:- वर्णों के ज्ञाता
अचि - स्वरेषु - अच् अर्थात् स्वरों में
ऊष्मणः - विसर्ग के / ऊष्मवर्ण के
विजानीयात् - अवगच्छेत्- जाने
बुधैः - विद्वद्भिः- विद्वानों के द्वारा
अनर्थज्ञः - यः अर्थं न जानाति - जिसे अर्थ का ज्ञान नहीं है
साङ्गम् - अङ्गैः सहितम् - सभी अंगों के साथ
अक्षरसमाम्नायम् - अक्षरों के संग्रह को
गिरः - वाणी - वचनानि - वचन
तमश्चाज्ञानजम् - तमः+च+अज्ञानजम्-अज्ञान से उत्पन्न अन्धकार
ज्ञानाञ्जनशलाकया - ज्ञानम् एव अञ्जनशलाका तया शलाकया, ज्ञान रूपी सुरमे की सलाई से |
अभ्यासः
1. अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अनुस्वारयमानाम् उच्चारणस्थानं किमुच्यते ?
(ख) ऊष्मणः गतिः कतिविधा ?
(ग) वेदस्य मुखं किं स्मृतम् ?
(घ) अज्ञानान्धस्य लोकस्य चक्षुः पाणिनिना कया उन्मीलितम् ?
(ङ) निरुक्तं वेदस्य किमुच्यते ?
(च) पुत्रान् हरन्ती व्याघ्री तान् काभ्यां न पीडयेत् ?
2. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) वर्णविदः किं प्राहु: ?
(ख) कौ वर्णौ पराश्रितौ ?
(ग) वर्णानाम् कति स्थानानि? तानि च कानि इत्यपि स्पष्टं लिखत ।
(घ) कीदृशाः पाठकाः अधमाः मता: ?
(ङ) पाठकानां गुणाः के मता : ?
(च) किं प्रोक्तवते पाणिनये नमः ?
3. अधोलिखितकथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) चत्वाश्च यमाः स्मृताः ।
(ख) मनः कायाग्निमाहन्ति सः मारुतं प्रेरयति ।
(ग) सोदीर्णो मूर्त्यभिहतो मारुतः वक्त्रमापद्य वर्णान् जनयते ।
(घ) ओ औ कण्ठोष्ठजौ स्मृतौ ।
(ङ) पाणिनिना अज्ञानजं तमः विमलैः शब्दवारिभिः भिन्नम्।
(च) साड्गं वेदमधीत्य ब्रह्मलोके महीयते ।
4. श्लोकान्वयं समुचितपदैः
(क) त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ।।
अन्वयः - शम्भुमते प्राकृते......................चापि त्रिषष्टिः......................वा वर्णाः
स्वयंभुवा...................... प्रोक्ता: (च) ।
(ख) येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।।
अन्वयः - येन महेश्वरात्......................अधिगम्य कृत्स्नं...................... प्रोक्तं...................... पाणिनये......................।
5. अधोलिखितश्लोकयोः भावं समुचितपदैः पूरयत-
कथितम्, अस्त्रस्वरूपाः, दंष्ट्राभ्याम्, विचाराभिव्यक्तये अतिध्यानेन, परमावश्यकम्
(क) व्याघ्री यथा हरेत्पुत्रान्द्रंष्ट्राभ्यां न तु पीडयेत् ।
भीता पतनभेदाभ्यां तद्वद् वर्णान् प्रयोजयेत् ॥
भाव:- कस्यापि भाषायाः यदि उच्चारणं लेखनं वा सम्यक् न क्रियते तदा श्रोता, पाठकः वा सम्यगर्थमवगन्तुं न पारयति । । अतः सम्यगुच्चारणं सम्यक् लेखनं च...............इदं भावमेवाधिकृत्य पाणिनिशिक्षायाः अस्मिन् श्लोके...............यत् यथा व्याघ्री पतनभेदाभ्यां भीता पुत्रान्...............हरति परम् एतावद्ध्यानेन येन शावकेषु दन्ताभ्याम् क्षतं सर्वथा न भवति यद्यपि व्याघ्रयाः दन्ताः एव तस्याः...............। एवमेव वर्णानां प्रयोगकर्त्रा अपि वर्णप्रयोगः ...........एव कर्तव्यः ।
नेत्रहीनस्य, वर्णोच्चारणम्, पाणिनये, ज्ञानरूपिण्या, पाणिनीय - शिक्षायाः, सूत्ररचनाऽपि, उद्घाटितम् ।
(ख) अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ||
भाव :- प्राचीनकाले गुरुशिष्यपरम्परया एव सर्वं ज्ञानं प्रदीयते स्म । शनैः शनैः पुस्तकानि स्वरूपं प्रानुवन्ति, येन जनाः स्वाध्यायेन अपि ज्ञानं प्राप्तुं समर्थाः अभवन्। पश्चात् ...............प्रारब्धा। वेदमन्त्राणाम् उच्चारणेन सह एव...............'अपि शिक्षायाः रूपे प्रसिद्धमभवत् । अस्मिन् प्रसङ्गे एव...............अपि विशिष्टं स्थानम् । अत एव कविः अत्र कथयति यत् अज्ञानेन ...............लोकस्य पाणिनीयशिक्षायाः...............अञ्जनशलाकया नेत्रम् येन..............."तस्मै"..............."वयं हृदा नमस्कारं कुर्मः।
6. यथायोग्यं योजयत-
(क) स्वरा विंशतिरेकश्च कालतो नियमा अचि ।
(ख) आत्मा बुद्ध्या समेत्यार्थान् हस्तौ कल्पोऽथ पठ्यते ।
(ग) ह्रस्वो दीर्घः प्लुत इति उरः कण्ठः शिरस्तथा ।
(घ) छन्दः पादौ तु वेदस्य मनो युङ्क्ते विवक्षया ।
(ङ) यादयश्च स्मृता ह्यष्टौ स्पर्शानां पञ्चविंशतिः ।
(च) अष्टौ स्थानानि वर्णानाम् चत्वारश्च यमाः स्मृताः ।
7. मञ्जूषातः पदानि चित्वा समुचिते स्तम्भद्वये लिखत-
शिरःकम्पी, लयसमर्थम्, अल्पकण्ठः, गीती, माधुर्यम्, सुस्वर:, अनर्थज्ञः, पदच्छेदः
पाठकाधमाः पाठकगुणाः
................ ................
................ ................
................ ................
................ ................
`8. उदाहरणानुसारं प्रदत्तपदेभ्यः उपसर्गं चित्वा उपसर्गसहायतया नवीनपदं रचयत-
उपसर्गः नवीनपदम्
उदाहरणम्- प्रोक्ता: प्र प्रारम्भः
(क) अनुस्वारः ................ ................
(ख) विसर्गः ................ ................
(ग) दुःस्पृष्टः ................ ................
(घ) संयुतम् ................ ................
(ङ) सुस्वर: ................ ................
(च) अधिगम्य ................ ................
9. समुचितपदेन रिक्तस्थानानि पूरयत-
(क) लृकारः................एव सः । (अनुस्वारः प्लुतः/विसर्गः)
(ख) वर्णानां विभागः ................स्मृतः । ( शतधा / द्विधा / पञ्चधा)
(ग) दन्त्योष्ठ्यो................स्मृतो बुधैः । (व:/कु/तु)
(घ)................विज्ञेया आश्रयस्थानभागिन: । (नासिक्याः / अयोगवाहा:/अनुस्वारयमाः)
(ङ) छन्दः................तु वेदस्य | ( पादौ / हस्त: चक्षुः)
(च) शिक्षा................तु वेदस्य। (मुखम्/श्रोत्रम्/घ्राणम्)
योग्यताविस्तारः
अस्मिन् पाठे अस्माभिः पाणिनीयशिक्षा इति ग्रन्थाधारितं किञ्चिद् ज्ञानं प्राप्तम्। अत्र पठितानां वर्णोच्चारणस्थानानां तुलनां लघुसिद्धान्तकौमुद्यां प्रदत्तैः उच्चारणस्थानैः सह अपि कुरुत । तद्यथा-
अकुहविसर्जनीयानां कण्ठः ।
इचुयशानां तालु।
ऋटुरषाणां मूर्धा ।
लृतुलसानां दन्ताः।
उपूपध्मानीयानामोष्ठौ ।
एदैतोः कण्ठतालु।
ओदौतोः कण्ठोष्ठम्।
वकारस्य दन्तोष्ठम्।
जिह्वामूलीयस्य जिह्वामूलम् ।
नासिकाऽनुस्वारस्य ।
'शिक्षा' इति वेदाङ्गविषये तु भवद्भिः प्रायशः परिचय: प्राप्त / द्रदानीम् अन्याङ्गानामपि विषये भवतः जिज्ञासा स्यादेव । अत्र प्राप्नुमः अधुना संक्षिप्तपरिचयम् अन्येषां पञ्चाङ्गानाम्।
कल्प:- वेदानां कस्य मन्त्रस्य प्रयोगः कस्मिन् कर्मणि कर्तव्यः इत्यस्य वर्णनं कल्पशास्त्रे कृतम्। अस्य तिस्रः शाखाः सन्ति - श्रौतसूत्रम् गृह्यसूत्रम्, धर्मसूत्रं च ।
व्याकरणम्- व्याकरणे प्रकृतिप्रत्ययादियोगेन शब्दसिद्धिः उदात्तानुदात्तस्वरितस्वराणां स्थिते: बोधः भवति ।
निरुक्तम् - वेदेषु प्रयुक्तशब्दानां निर्वचनमाध्यमेन स्पष्टीकरणं कृतं यस्य माध्यमेन शब्दार्थानामवबोधः निश्चयेन भवति यथा गच्छतीति जगत् संसरति इति संसार: इत्यादिप्रकारेण |
ज्योतिषम् - अनेन वैदिकयज्ञानाम् अनुष्ठानादीनाञ्च मुहूर्तसमयेत्यादीनां ज्ञानं भवति । वेदेषु प्रयुक्तानां गायत्री - उष्णिगादि - छन्दसां रचनाज्ञानं छन्द: शास्त्रेण भवति ।
