RuchiraBhag1-001

प्रथमः पाठः

शब्दपरिचयः-I

1.1.tif

एषः कः?

एषः चषकः।

किम् एषः बृहत्?

न, एषः लघुः।

1.2.tif

 

सः कः?

सः सौचिकः।

सौचिकः किं करोति?

किं सः खेलति?

न, सः वस्त्रं सीव्यति।

1.3.tif

 

एतौ कौ?

एतौ शुनकौ स्तः।

किम् एतौ गर्जतः?

न, एतौ उच्चैः बुक्कतः।

1.4.tif

तौ कौ?

तौ बलीवर्दौ स्तः।

किं तौ धावतः?

न, तौ क्षेत्रं कर्षतः।

img1

एते के?

एते स्यूताः सन्ति।

किम् एते हरितवर्णाः?

नहि, एते नीलवर्णाः सन्ति।

 

ते के?

ते वृद्धाः सन्ति।

किं ते गायन्ति?

नहि ते हसन्ति।

1.6.tif

 

 


 

शब्दार्थाः

600.png

चषकः – गिलास glass

बृहत् – बड़ा large

सौचिकः – दर्जी tailor

खेलति – खेलता है play

सीव्यति – सिलाई करता है sews

शुनकौ – दो कुत्ते two dogs

गर्जतः – गरजते हैं roar

उच्चैः – जोर से loudly

एतौ – ये दोनों these two

बुक्कतः – भौंकते हैं bark

बलीवर्दौ – दो बैल two oxen

धावतः – दौड़ते हैं run

कर्षतः – जोतते हैं, जोत रहे हैं plough

वृद्धाः – बूढ़े old men

गायन्ति – गाते हैं, गायन करते हैं sing

हसन्ति – हँसते हैं laugh

स्यूताः – थैले bags

हरितवर्णाः – हरे रंग के of green colour

नीलवर्णाः – नीले रंग के of blue clour

अभ्यासः

585.png

1. (क) उच्चारणं कुरुत।

छात्रः            गजः              घटः

शिक्षकः        मकरः           दीपकः

मयूरः             बिडालः          अश्वः

शुकः               मूषकः            चन्द्रः

बालकः           चालकः        गायकः

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत

img4

2. (क) वर्णसंयोजनेन पदं लिखत-

यथा- च् + अ + ष् + अ + क् + अः =img2

स् + औ + च् + इ + क् + अः = 948.jpg

श् + उ + न् + अ + क् + औ = 950.jpg

ध् + आ + व् + अ + त् + अः = 952.jpg

व् + ऋ + द् + ध् + आः = 954.jpg

ग् + आ + य् + अ + न् + त् + इ = 956.jpg

(ख) पदानां वर्णविच्छेदं प्रदर्शयत-

img3

सीव्यति = ........................................................

वर्णाः = ........................................................

कुक्कुरौ = ........................................................

मयूराः = ........................................................

बालकः = ........................................................

3. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-

यथा- चषकः     चषकौ      चषकाः

................    बलीवर्दौ     ................

शुनकः        ................ .   ...............

................  ................      मृगाः

................   सौचिकौ       ................

मयूरः             ................ ................

4. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

img5img6

 

5. चित्रं दृष्ट्वा उत्तरं लिखत-

यथा- बालकः किं करोेति?

          बालकः पठति।

1.20.tif

 

अश्वौ किं कुरुतः?

...................................

 1.21.tif

 

 

कुक्कुराः किं कुर्वन्ति?

...................................

1.22.tif



छात्रौ किं कुरुतः?

...................................

1.23.tif

कृषकः किं करोति?

...................................

1.24.tif

 

गजौ किं कुरुतः?

...................................

1.25.tif

6. पदानि संयोज्य वाक्यानि रचयत-

गजाः                नृत्यन्ति

सिंहौ                  गायति

गायकः                पठतः

बालकौ               चलन्ति

मयूराः                  गर्जतः

7. मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

नृत्यन्ति   गर्जतः   धावति  चलतः  फलन्ति    खादति

(क) मयूराः ..............। (घ) सिंहौ ..............।

(ख) गजौ ..............। (ङ) वानरः ..............।

(ग) वृक्षाः ..............। (च) अश्वः ..............।

8. सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

यथा- अश्वः धावति - सः धावति।

(क) गजाः चलन्ति। - .............. चलन्ति।

(ख) छात्रौ पठतः। - .............. पठतः।

(ग) वानराः क्रीडन्ति। - .............. क्रीडन्ति।

(घ) गायकः गायति। - .............. गायति।

(ङ) मयूराः नृत्यन्ति। - .............. नृत्यन्ति।


ध्यातव्यम्

(क) संस्कृते त्रीणि लिङ्गानि भवन्ति- पुँल्लिङ्ंग, स्त्रीलिङ्ंग, नपुंसकलिङ्गञ्च।

(ख) संस्कृते त्रयः पुरुषाः भवन्ति- प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषश्च।

(ग) संस्कृते त्रीणि वचनानि भवन्ति- एकवचनं, द्विवचनं, बहुवचनञ्च।

936.png