RuchiraBhag1-001


चतुर्थः पाठः

विद्यालयः

एषः विद्यालयः।

अत्र छात्राः शिक्षकाः,

शिक्षिकाः च सन्ति।

Image526.TIF

 

Image548.TIF

एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।

एतानि सङ्गणकयन्त्राणि सन्ति।

 

 Image539.TIF

एतत् अस्माकं विद्यालयस्य

उद्यानम् अस्ति।

उद्याने पुष्पाणि सन्ति।

वयम् अत्र क्रीडामः पठामः च।

 Image633.TIF

ऋचा - तव नाम किम्?

प्रणवः - मम नाम प्रणवः। तव नाम किम्?

ऋचा - मम नाम ऋचा। त्वं कुत्र पठसि?

प्रणवः - अहम् अत्र एव पठामि।

ऋचा - अहम् अपि अत्र एव पठामि।

इदानीम् आवां मित्रे स्वः।


Image613.TIF



शिक्षिका - छात्राः! यूयं किं कुरुथ?

छात्राः - आचार्ये! वयं गच्छामः।

Image623.TIF

शिक्षिका - यूयं कुत्र गच्छथ।

छात्राः - वयं सभागारं गच्छामः।

शिक्षिका - युष्माकं पुस्तकानि कुत्र सन्ति?

छात्राः - अस्माकं पुस्तकानि अत्र सन्ति।


शिक्षकः - छात्रौ! युवां किं कुरुथः?

छात्रौ - आचार्य! आवां श्लोकं गायावः।

शिक्षकः - शोभनम्, किं युवां श्लोकं न लिखथः?

छात्रौ - आवां लिखावः, पठावः, गायावः, चित्राणि अपि रचयावः।

शिक्षकः - बहुशोभनम्?


शब्दार्थाः

सङ्गणकयन्त्राणि - (अनेक) कम्प्यूटर computer

अस्माकम् - हमारा/हम लोगों का our

वयम् (सर्वनाम) - हम सwe

तव - तेरा your

मम् - मेरा my/mine

त्वम् (सर्वनाम) - तुyou

अहम(सर्वनाम) - मैं I/my self

एव (अव्यय) - ही only

अपि (अव्यय) - भी also

इदानीम् (अव्यय) - अब/इस समय now

आवाम् (सर्वनाम)- हम दोनों we two

मित्रे (नपुं) - (दो) मित्र two friends

स्वः - (हम दोनों) हैं (we two) are

यूयम् (सर्वनाम) - तुम सब you (all)

आचार्ये! - शिक्षिका (सम्बोधन) oh teacher!

युष्माकम् - तुम्हारा/तुम लोगों का your/of you (all)

कुत्र - कहाँ where

ृृ सभागारम् - सभागार को to the assembly/auditorium

युवाम् (सर्वनाम) - तुम दोनों you two

आचार्य! - गुरु/शिक्षक (सम्बोधन) oh teachre!

शोभनम् - अच्छा good/fine

गायावः - (हम दो) गाते हैं/गाती हैं we two sing/are singing

रचयावः - (हम दो) बनाते हैं/बनाती है we two make/are making

अभ्यासः

1. उच्चारणं कुरुत।

अहम् आवाम् वयम्

ाम् आवाम् अस्मान्

मम आवयोः अस्माकम्

त्वम् युवाम् यूयम्

त्वाम् युवाम् युष्मान्

तव युवयोः युष्माकम्

2. निर्देशानुसारं परिवर्तनं कुरुत-

यथा- अहं पठामि। - (बहुवचने) - वयं पठामः।

(क) अहं नृत्यामि। - (बहुवचने) - ..............................

(ख) त्वं पठसि। - (बहुवचने) - ..............................

(ग) युवां क्रीडथः। - (एकवचनेे) - ..............................

(घ) आवां गच्छावः। - (बहुवचने) - ..............................

(ङ) अस्माकं पुस्तकानि। - (एकवचने) - ..............................

(च) तव गृहम्। - (द्विवचने) - ..............................

3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-

(क) .............................. पठामि। (वयम्/अहम्)

(ख) .............................. गच्छथः। (युवाम्/यूयम्)

(ग) एतत् .............................. पुस्तकम्। (माम्/मम)

(घ) .............................. क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) .............................. छात्रे स्वः। (वयम्/आवाम्)

(च) एषा.............................. लेखनी। (तव/त्वाम्)

4. क्रियापदैः वाक्यानि पूरयत-

 पठसि   धावामः    गच्छावः     क्रीडथः    लिखामि    पश्यथ

यथा- अहं पठामि।

(क) त्वं ..............................

(ख) आवां ..............................

(ग) यूयं ..............................

(घ) अहं ..............................

(ङ) युवां ..............................

(च) वयं .............................

 

5. उचितपदैः वाक्यनिर्माणं कुरुत-

मम     तव      आवयोः    युवयोः       अस्माकम्         युष्माकम्


यथा- एषा मम पुस्तिका।

(क) एतत् .............................. गृहम्।

(ख) .............................. मैत्री दृढा।

(ग) एषः .............................. विद्यालयः

(घ) एषा .............................. अध्यापिका।

(ङ) भारतम् .............................. देशः।

(च) एतानि .............................. पुस्तकानि।

6. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

यथा- एषः - एते

(क) सः - ......................

(ख) ताः - ......................

(ग) एताः - ......................

(घ) त्वम् - ......................

(ङ) अस्माकम् - ......................

(च) तव - ......................

(छ) एतानि - ......................

7. (क) वार्तालापे रिक्तस्थानानि पूरयत-

यथा- प्रियंवदा - शकुन्तले! त्वं किं करोषि?

शकुन्तला - प्रियंवदे! ............... नृत्यामि, ............... किं करोषि?

प्रियंवदा - शकुन्तले! ............... गायामि। किं ...............न गायसि?

शकुन्तला - प्रियंवदे! ............... न गायामि। ............... तु नृत्यामि।

प्रियंवदा - शकुन्तले! किं .............. माता नृत्यति।

शकुन्तला - आम्, .............. माता अपि नृत्यति।

प्रियंवदा - साधु, .............. चलावः।

(ख) उपयुक्तेन अर्थेन सह योजयत-

शब्दः
अर्थ
सा
तुम दोनों का
तानि
तुम सब
अस्माकम्
मेरा
यूयम्
वह (स्त्रीलिङ्ग)
आवाम्
तुम्हारा
मम
वे (नपुंसकलिङ्ग)
युवयोः
हम दोनों
तव
हमारा