RuchiraBhag1-001


अष्टमः पाठः

सूक्तिस्तबकः

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।1।।

 

पुस्तके पठितः पाठः जीवने नैव साधितः।

किं भवेत् तेन पाठेन जीवने यो न सार्थकः ।।2।।

 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता ।।3।।

 

गच्छन् पिपीलको याति योजनानां शतान्यपि।

अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ।।4।।

 

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।

वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ।।5।।


शब्दार्थाः


506.png

उद्यमेन परिश्रम से by hard wor

मनोरथै मन की इच्छा से desire/only by desiring 

सिंहः शेर lion

मृगाः हिरण/पशु deers/animals

दरिद्रता दीनता/कृपणता poverty

प्रियवाक्यप्रदानेन प्रिय वचन बोलने से by using sweet words 

तुष्यन्ति सन्तुष्ट/प्रसन्न होते हैं get satisfied

मानवाः मनुष्य human beings

तस्मात् इसलिये therefore

वक्तव्यम् बोलना चाहिए should be spoken

वचने बोलने में in speaking

साधितः उपयोग किया used

भवेत् होगा/होना चाहिए should be

सार्थकः अर्थपूर्ण/प्रयोजन युक्त meaningful

काकः कौआ crow

कृष्णः काला black

पिकः कोयल cuckoo

पिककाकयोः कोयल और कौए में between cuckoo and crow

प्राप्ते आने पर after getting

गच्छन् जाता हुआ while going

पिपीलकः नर चींटी ant (he)

याति जाता है goes

योजनानाम् 4 कोसों का a measure of distance

                      (लगभग 12 कि.मी.) equal to 12 kms.

शतानि सौ hundreds

अगच्छन् न चलते हुए without movement

वैनतेयः गरुड़ garuda

अभ्यासः

555.png

1. सर्वान् श्लोकान् सस्वरं गायत।

2. श्लोकांशान् योजयत-

 ख
तस्मात् प्रियं हि वक्तव्यं  सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति  जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन  को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन
योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः  वचने का दरिद्रता।

3. प्रश्नानाम् उत्तराणि लिखत-

(क) सर्वे जन्तवः केन तुष्यन्ति?

(ख) पिककाकयोः भेदः कदा भवति?

(ग) कः गच्छन् योजनानां शतान्यपि याति?

(घ) अस्माभिः किं वक्तव्यम्?

4. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत-

(क) काकः कृष्णः न भवति। 596.jpg

(ख) अस्माभिः प्रियं वक्तव्यम्। 598.jpg

(ग) वसन्तसमये पिककाकयोः भेदः भवति। 600.jpg

(घ) वैनतेयः पशुः अस्ति। 602.jpg

(ङ) वचने दरिद्रता न कर्त्तव्या। 604.jpg

5. मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

ग्रन्थे    कोकिलः     गरुडः     परिश्रमेण     कथने

वचने ..............

वैनतेयः ..............

पुस्तके ..............

उद्यमेन ..............

पिकः ..............

6. विलोमपदानि योजयत-

 ख
सार्थकः आगच्छति
कृष्णः
 श्वेतः
अनुक्तम्
सुप्तस्य
गच्छति
उक्तम्
जागृतस्य
निरर्थकः