Table of Contents
नवमः पाठः
क्रीडास्पर्धा
हुमा - यूयं कुत्र गच्छथ?
इन्दरः - वयं विद्यालयं गच्छामः।
फेकनः - तत्र क्रीडास्पर्धाः सन्ति। वयं खेलिष्यामः।
रामचरणः - किं स्पर्धाः केवलं बालकेभ्यः एव सन्ति?
प्रसन्ना - नहि, बालिकाः अपि खेलिष्यन्ति।
रामचरणः - किं यूयं सर्वे एकस्मिन् दले स्थ? अथवा पृथक्-पृथक् दले?
प्रसन्ना - तत्र बालिकाः बालकाः च मिलित्वा खेलिष्यन्ति।
फेकनः - आम्, बैडमिंटन-क्रीडायां मम सहभागिनी जूली अस्ति।
प्रसन्ना - एतद् अतिरिक्तं कबड्डी, नियुद्धं, क्रिकेटं, पादकन्दुकं, हस्तकन्दुकं, चतुरङ्गः इत्यादयः स्पर्धाः भविष्यन्ति।
इन्दरः - हुमे! किं त्वं न क्रीडसि? तव भगिनी तु मम पक्षे क्रीडति।
हुमा - नहि, मह्यं चलचित्रं रोचते। परम् अत्र अहं दर्शकरूपेण स्थास्यामि।
फेकनः - अहो! पूरनः कुत्र अस्ति? किं सः कस्यामपि स्पर्धायां प्रतिभागी नास्ति?
रामचरणः - सः द्रष्टुं न शक्नोति। तस्मै अस्माकं विद्यालये पठनाय तु विशेषव्यवस्था वर्तते। परं क्रीडायै प्रबन्धः नास्ति।
हुमा - अयं कथमपि न न्यायसङ्गतः। पूरनः सक्षमः, परं प्रबन्धस्य अभावात् क्रीडितुं न शक्नोति।
इन्दरः - अस्माकं तादृशानि अनेकानि मित्राणि सन्ति। वस्तुतः तानि अन्यथासमर्थानि।
फेकनः - अतः वयं सर्वे प्राचार्यं मिलामः। तं कथयामः। शीघ्रमेव तेषां कृते व्यवस्था भविष्यति।
शब्दार्थाः
स्पर्धाः - प्रतियोगिताएँ competitions
यूयम् - तुम सब you all
वयम् - हम सब we all
खेलिष्यामः - खेलेंगे shall play
मिलित्वा - मिलकर together
नियुद्धम् - जूडो judo
पादकन्दुकम् - फुटबाल football
हस्तकन्दुकम् - वॉलीबाल volleyball
चतुरङ्गः - चेस chess
चलचित्रम् - सिनेमा cinema
स्थास्यामि - रहूँगी/रहूँगा shall stay
द्रष्टुम् - देखने के लिए to see
न्यायसङ्गतः - उचित lawful, proper
तादृशानि - वैसे similar
अन्यथासमर्थानि - भिन्न तरीके से योग्य differently able
अन्यथासमर्थः-यह शब्द वस्तुतः अंग्रे.जी के differently able का बोधक है।
जो प्रायशः विकलांग के लिये प्रयोग में लाया जा रहा है।
अभ्यासः
1. उच्चारणं कुरुत-
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम | आवयोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
2. निर्देशानुसारं परिवर्तनं कुरुत-
यथा- अहं क्रीडामि। - (बहुवचने) - वयं क्रीडामः।
(क) अहं नृत्यामि। - (बहुवचने) - ................................
(ख) त्वं पठसि। - (बहुवचने) - ................................
(ग) युवां गच्छथः। - (एकवचने) - ................................
(घ) अस्माकं पुस्तकानि। - (एकवचने) - ................................
(ङ) तव गृहम्। - (द्विवचने) - ................................
3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-
(क) .................... पठामि। (वयम्/अहम्)
(ख) .................... गच्छथः। (युवाम्/यूयम्)
(ग) एतत् .................... पुस्तकम्। (माम्/मम)
(घ) .................... क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) .................... छात्रे स्वः। (वयम्/आवाम्)
4. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
यूयम् | लेखं | पश्यामि |
वयम् | शिक्षिकां | रचयामः |
युवाम् | दूरदर्शनं | कथयिष्यथः |
अहम् | कथां | पठिष्यावः |
त्वम् | पुस्तकं | लेखिष्यसि |
आवाम् | चित्राणि | नंस्यथ |
5. उचितपदैः वाक्यनिर्माणं कुरुत-
मम तव आवयोः युवयोः अस्माकम् युष्माकम्
यथा- एषा मम पुस्तिका।
(क) एतत् ........................ पुस्तकम्।
(ख) ........................ बुद्धिस्थिरा।
(ग) एषः ........................ देवालयः।
(घ) एषा ........................ शिक्षिका।
(ङ) संस्कृतम् ........................ भाषा।
(च) एतानि ........................ चित्राणि।
6. वाक्यानि रचयत-
एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि। .......................................। ..........................।
(ख) ..............................। आवाम् वस्त्रे धारयिष्यावः। ..........................।
(ग) अहं पुस्तकं पठिष्यामि। ........................................। ..........................।
(घ) ...............................। ते फले खादिष्यथः। ..........................।
(ङ) मम गृहं सुन्दरम्। ........................................। .........................।
(च) ...............................। ........................................। यूयं गमिष्यथ।
7. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
यथा- एषः एते
सः ..............
ताः ..............
त्वम् ..............
एता: ..............
तव ..............
अस्माकम् ..............
तानि ..............