RuchiraBhag1-001


दशमः पाठः

कृषिकाः कर्मवीराः

सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम्।

कृषिका कृषिको नित्यं शीतकालेऽपि कर्मठौ ।।1।।

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।

हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः ।।2।।

पादयोर्न पदत्राणे शरीरे वसनानि नो।

निर्धनं जीवनं कष्टं सुखं दूरे हि तिष्ठति ।।3।।

गृहं जीर्णं न वर्षासु वृष्टिं वारयितुं क्षमम्।

तथापि कर्मवीरत्वं कृषिकाणां न नश्यति ।।4।।

तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा।

धरित्री सरसा जाता या शुष्का कण्टकावृता ।।5।।

शाकमन्नं फलं दुग्धं दत्त्वा सर्वेभ्य एव तौ।

क्षुधा-तृषाकुलौ नित्यं विचित्रौ जन-पालकौ ।।6।।

 

शब्दार्थाः

526.png

तपतु - तपाये, जलाये may burn

विपुलम् - अत्यधिक in large amount

कर्मठौ - निरन्तर क्रियाशील active

सस्वेदम् - पसीने से युक्त full of sweat

पदत्राणे - जूते shoes

वसनानि - कपड़े clothes

जीर्णम् - पुराना old

वारयितुम् - दूर करने में in removing

क्षमम् - समर्थ able

सस्यपूर्णानि - फसल से युक्त full of crops

धरित्री - पृथ्वी earth

कण्टकावृता - काँटों से परिपूर्ण full of thorns

क्षुधातृषाकुलौ -भूख प्यास से बेचैन distressed with hunger and thirst

 अभ्यासः

488.png

1. उच्चारणं कुरुत-

सूर्यस्तपतु
जीर्णम्
शीतकालेऽपि
वारयितुम्
ग्रीष्मे
सस्यपूर्णानि
पदत्राणे
कण्टकावृता
क्षुधा-तृषाकुलौ

2. श्लोकांशान् योजयत-



गृहं जीर्णं न वर्षासु  तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन  या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे  सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता   वृष्टिं वारयितुं क्षमम्।

3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। img1

कृषका: हलेन क्षेत्राणि न कर्षन्ति। img2

(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। 603.jpg

(ख) कृषकाणां जीवनं कष्टप्रदं न भवति। 605.jpg

(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। 607.jpg

(घ) शीते शरीरे कम्पनं न भवति। 609.jpg

(ङ) श्रमेण धरित्री सरसा भवति। 611.jpg

4. मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

रविः      वस्त्राणि          जर्जरम्        अधिकम्        पृथ्वी            पिपासा

वसनानि .....................

सूर्यः .....................

तृषा .....................

विपुलम् .....................

जीर्णम् .....................

धरित्री .....................

5. मञ्जूषातः विलोमपदानि चित्वा लिखत-

धनिकम्      नीरसा      अक्षमम्       दुःखम्     शीते      पार्श्वे

सुखम् .....................

दूरे .....................

निर्धनम् .....................

क्षमम् .....................

ग्रीष्मे .....................

सरसा .....................

6. ्रश्नानाम् उत्तराणि लिखत-

(क) कृषकाः केन क्षेत्राणि कर्षन्ति?

(ख) केषां कर्मवीरत्वं न नश्यति?

(ग) श्रमेण का सरसा भवति?

(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

(ङ) कृषकात् दूरे किं तिष्ठति?


589.png