RuchiraBhag1-001



द्वादशः पाठः

दशमः त्वम् असि

एकदा दश बालकाः स्नानाय नदीम् अगच्छन्। ते नदीजले चिरं स्नानम् अकुर्वन्। ततः ते तीर्त्वा पारं गताः। तदा तेषां नायकः अपृच्छत्-अपि सर्वे बालकाः नदीम् उत्तीर्णाः?

41.tif

तदा कश्चित् बालकः अगणयत्-एकः, द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्टौ, नव इति। सः स्वं न अगणयत्। अतः सः अवदत्-नव एव सन्ति। दशमः न अस्ति। अपरः अपि बालकः पुनः अन्यान् बालकान् अगणयत्। तदा अपि नव एव आसन्। अतः ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः। ते दुःखिताः तूष्णीम् अतिष्ठन्।

तदा कश्चित् पथिकः तत्र आगच्छत्। सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत्-बालकाः! युष्माकं दुःखस्य कारणं किम्? बालकानां नायकः अकथयत्-‘वयं दश बालकाः स्नातुम् आगताः। इदानीं नव एव स्मः। एकः नद्यां मग्नः’ इति।

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

तत् श्रुत्वा प्रहृष्टाः भूत्वा सर्वे गृहम् अगच्छन्।

शब्दार्थाः

480.png

इदानीम् - अब now

एकदा - एक बार once

स्नानाय - नहाने के लिए for bathing

निर्मलम् - साफ clean

शीतलम् - ठण्डा cold

तीर्त्वा - तैरकर after swimming

नायकः - नेता leader

चिरम् - देर तक for a long time

उत्तीर्णाः - पार कर लिया crossed over

तदा - तब then

अगणयत् - गिना counted

स्नात्वा - नहाकर after bathing

अपरः - दूसरा another

पुनः - फिर, दोबारा again

आसन् - थे/थीं were

नद्याम् - नदी में in the river

तूष्णीम् - मौन silent

पथिकः - राहगीर traveller

स्नातुम् - स्नान के लिए to take bath

मग्नः - डूब गया sank

प्रहृष्टाः - आनन्दित/प्रसन्न happy

श्रुत्वा - सुनकर after listening

इति - उद्धरण की समाप्ति to end a sentence/ का सूचक अव्यय context

अभ्यासः

524.png

1. उच्चारणं कुरुत-

पुँल्लिङे्ग
स्त्रीलिङे्ग
नपुंसकलिङे्ग
एकः
एका
एकम्
द्वौ
द्वे
द्वे
त्रयः
तिस्रः
त्रीणि
चत्वारः
चतस्रः
चत्वारि
पञ्च
पञ्च
पञ्च
षट्
षट्
षट्
सप्त
सप्त
सप्त
अष्ट
अष्ट
अष्ट
नव
नव
नव
दश
दश
दश

2. प्रश्नानाम् उत्तराणि लिखत-

(क) कति बालकाः स्नानाय अगच्छन्?

(ख) ते स्नानाय कुत्र अगच्छन्?

(ग) ते कं निश्चयम् अकुर्वन्?

(घ) मार्गे कः आगच्छत्?

(ङ) पथिकः किम् अवदत्?

3. शुद्धकथनानां समक्षम् () इति अशुद्धकथनानां समक्षं (×) कुरुत-

(क) दशबालकाः स्नानाय अगच्छन्। 730.jpg

(ख) सर्वे वाटिकायाम् अभ्रमन्। 732.jpg

(ग) ते वस्तुतः नव बालकाः एव आसन्। 734.jpg

(घ) बालकः स्वं न अगणयत्। 736.jpg

(ङ) एकः बालकः नद्यां मग्नः। 738.jpg

(च) ते सुखिताः तूष्णीम् अतिष्ठन्। 740.jpg

(छ) कोऽपि पथिकः न आगच्छत्। 742.jpg

(ज) नायकः अवदत्- दशमः त्वम् असि इति। 744.jpg

(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्। 746.jpg

4. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

गणयित्वा             श्रुत्वा           दृष्ट्वा          कृत्वा            गृहीत्वा          तीर्त्वा

(क) ते बालकाः ............. नद्याः उत्तीर्णाः।

(ख) पथिकः बालकान् दुःखितान् ............. अपृच्छत्।

(ग) पुस्तकानि ............. विद्यालयं गच्छ।

(घ) पथिकस्य वचनं ............. सर्वे प्रमुदिताः गृहम् अगच्छन्।

(ङ) पथिकः बालकान् ............. अकथयत् दशमः त्वम् असि।

(च) मोहनः कार्यं ............. गृहं गच्छति।

5. चित्राणि दृष्ट्वा संख्यां लिखत-

img1

............. कन्दुकानि।

 

 img2

    ............. चटकाः

 

img3 

 

............. पुस्तकम्।

img4

............. मयूरौ।


img5

............. बालिके।


img6

............. तालाः।
img7
............. कपोताः।


img8
............. पत्राणि।
721.png