RuchiraBhag1-001



पञ्चदशः पाठः

मातुलचन्द्र!

कुत आगच्छसि मातुलचन्द्र!

कुत्र गमिष्यसि मातुलचन्द्र!

तिशयविस्तृतनीलाकाशः

नैव दृश्यते क्वचिदवकाशः

कथं प्रयास्यसि मातुलचन्द्र!

कुत आगच्छसि मातुलचन्द्र!

कथमायासि न भो! मम गेहम्

मातुल! किरसि कथं न स्नेहम्

कदाऽऽगमिष्यसि मातुलचन्द्र!

कुत आगच्छसि मातुलचन्द्र!

धवलं तव चन्द्रिकावितानम्

तारकखचितं सितपरिधानम्

मह्यं दास्यसि मातुलचन्द्र!

कुत आगच्छसि मातुलचन्द्र!

त्वरितमेहि मां श्रावय गीतिम्

प्रिय मातुल! वर्धय मे प्रीतिम्

किन्नायास्यसि मातुलचन्द्र!

कुत आगच्छसि मातुलचन्द्र!

 

शब्दार्थाः

499.png

मातुलचन्द्र! - चन्दामामा! Uncle moon

कुतः (अव्यय) - कहाँ से from where

अतिशयविस्तृतः - अति विशाल very stretched, extended

दृश्यते - दिखता है/दिखती है it looks

क्वचित् (अव्यय) - कहीं भी anywhere

प्रयास्यसि - जाओगे/जाओगी will go

गेहम् - घर को home

किरसि - विखेरते हो/विखेरती हो scatter

धवलम् - सफेद white

चन्द्रिकावितानम् - फैली हुई चाँदनी extensive moonlight

तारकखचितं - तारों से शोभित adorned with stars

सितपरिधानम् - सफेद वस्त्र white clothes

मह्यम् - मुझे to me

त्वरितम् - शीघ्र fast, as soon as

एहि - आओ come

श्रावय - सुनाओ make me listen

वर्धय - बढ़ाओ increase

अभ्यासः

514.png

1. बालगीतं साभिनयं सस्वरं गायत।

2. पद्यांशान् योजयत-

मातुल! किरसि  सितपरिधानम् ................................
तारकखचितं  श्रावय गीतिम् ................................।
त्वरितमेहि मां
चन्द्रिकावितानम् ................................ ।
अतिशयविस्तृत  कथं न स्नेहम् ................................।
धवलं तव   नीलाकाशः ................................।

3. पद्यांशेषु रिक्तस्थानानि पूरयत-

(क) प्रिय मातुल! ................................ प्रीतिम्।

(ख) कथं प्रयास्यसि ................................

(ग) ................................ क्वचिदवकाशः।

(घ) ................................ दास्यसि मातुलचन्द्र!।

(ङ) कथमायासि न ................................ गेहम्।

4. प्रश्नानाम् उत्तराणि लिखत-

(क) अस्मिन् पाठे कः मातुलः?

(ख) नीलाकाशः कीदृशः अस्ति?

(ग) मातुलचन्द्रः किं न किरति?

(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?

(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?

5. उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

(क) शिष्यः - ........................

(ख) गोपालः - ........................

यथा- बालिका - बालिके!

(क) प्रियंवदा - ........................

(ख) लता - ........................

यथा- फलम् - फल!

(क) मित्रम् - ........................

(ख) पुस्तकम् - ........................

यथा- रविः - रवेे!

(क) मुनिः - ........................

(ख) कविः - ........................

यथा- साधुः - साधो!

(क) भानुः - ........................

(ख) पशुः - ........................

यथा- नदी - नदि!

(क) देवी - ........................

(ख) मानिनी - ........................

6. मञ्जूषातः उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

कुतः कदा कुत्र कथं किम्

(क) जगन्नाथपुरी ................ अस्ति?

(ख) त्वं ................ पुरीं गमिष्यसि?

(ग) गङ्गानदी ................ प्रवहति?

(घ) तव स्वास्थ्यं ................ अस्ति?

(ङ) वर्षाकाले मयूराः ................ कुर्वन्ति?

7. तत्समशब्दान् लिखत-

मामा ........................

मोर ........................

तारा ........................

कोयल ........................

कबूतर ........................

 

13%20%20(New).tif