Table of Contents
प्रथमः पाठः
सुभाषितानि
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।। 1 ।।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ।। 2 ।।
दाने तपसि शौर्ये च विज्ञाने विनये नये ।
विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा ।। 3 ।।
सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत् ।। 4 ।।
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च ।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।। 5 ।।
क्षमावशीकृतिर्लोके क्षमया किं न साध्यते ।
शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः ।। 6 ।।
शब्दार्थाः
अभ्यासः
1. सर्वान् श्लोकान् सस्वरं गायत।
2. यथायोग्यं श्लोकांशान् मेलयत-
क ख
धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।
3. एकपदेन उत्तरत-
(क) पृथिव्यां कति रत्नानि?
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ग) पृथिवी केन धार्यते?
(घ) कैः सङ्गतिं कुर्वीत?
(ङ) लोके वशीकृतिः का?
4. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
(ख) सद्भिः एव सहासीत।
(ग) वसुन्धरा बहुरत्ना भवति।
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
(ङ) सद्भिः मैत्रीं कुर्वीत।
5. प्रश्नानामुत्तराणि लिखत-
(क) कुत्र विस्मयः न कर्त्तव्यः?
(ख) पृथिव्यां त्रीणि रत्नानि कानि?
(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
6. मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम्
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
.................... .................... ....................
.................... .................... ....................
.................... .................... ....................
7. अधोलिखितपदेषु धातवः के सन्ति?
पदम् धातुः
करोति ....................
पश्य ....................
भवेत् ....................
तिष्ठति ....................