द्वितीयः पाठः

दुर्बुद्धि: विनश्यति

0755CH02.tif

अस्ति मगधदेशे फुल्लोत्पलनाम सरः। तत्र संकटविकटौ हंसौ निवसतः। कम्बुग्रीवनामकः तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।

अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन् -"वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।" एतत् श्रुत्वा कूर्मः अवदत्-‘‘मित्रे! किं युवाभ्यां धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि?’’ हंसौ अवदताम् - ‘‘प्रातः यद् उचितं त्कर्त्तव्यम्।’’ कूर्मः अवदत्- ‘‘मैवम्। तद् यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।’’ हंसौ अवदताम्-‘‘आवां किं करवाव?’’ कूर्मः अवदत्-‘‘अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।’’

हंसौ अवदताम्-‘‘अत्र कः उपायः?’’ कच्छपः वदति-‘‘युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।’’ हंसौ अकथयताम्- ‘‘सम्भवति एषः उपायः। किन्तु अत्र एकः अपायोऽपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जनाः किञ्चिद् वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अतः त्वम् अत्रैव वस।’’ तत् श्रुत्वा क्रुद्धः कूर्मः अवदत्- ‘‘किमहं मूर्खः? उत्तरं न दास्यामि। किञ्चिदपि न वदिष्यामि।’’ अतः अहं यथा वदामि तथा युवां कुरुतम्।

Chap-2(p).tif

एवं काष्ठदण्डे लम्बमानं कूर्मं पौराः अपश्यन्। पश्चाद् अधावन् अवदन् च- ‘‘हंहो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।’’ कश्चिद् वदति- ‘‘यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि।’’ अपरः अवदत्- ‘‘सरस्तीरे दग्ध्वा खादिष्यामि’’। अन्यः अकथयत्- ‘‘गृहं नीत्वा भक्षयिष्यामि’’ इति। तेषां तद् वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। मित्राभ्यां दत्तं वचनं विस्मृत्य सः अवदत्-‘‘यूयं भस्म खादत।’’ तत्क्षणमेव कूर्मः दण्डात् भूमौ पतितः। पौरैः सः मारितः। अत एवोक्तम्-

Chap-2a(p).tif

सुहृदां हितकामानां वाक्यं यो नाभिनन्दति।

कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति।।

34

35

अभ्यासः

1. उच्चारणं कुरुत-

फुल्लोत्पलम् अवलम्ब्य पक्त्वा

कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि

क्तवान् ह्रदम् सुहृदाम्

भवद्भ्याम् उड्डीयते भ्रष्टः


2. एकपदेन उत्तरत-

(क) कूर्मस्य किं नाम आसीत्?

(ख) सरस्तीरे के आगच्छन्?

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?


3. अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

कः कथयति कं प्रति कथयति

यथा- प्रातः यद् उचितं तत्कर्त्तव्यम् हंसौ कूर्मं प्रति

(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि। .................... ....................

(ख) अत्र कः उपायः? .................... ....................

(ग) अहम् उत्तरं न दास्यामि। .................... ....................

(घ) यूयं भस्म खादत। .................... ....................


4. मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

अभिनन्दति भक्षयिष्यामः इच्छामि  वदिष्यामि उड्डीयते प्रतिवसति स्म

(क) हंसाभ्यां सह कूर्मोऽपि ....................

(ख) अहं किञ्चिदपि न ....................

(ग) यः हितकामानां सुहृदां वाक्यं....................

(घ) एकः कूर्मः अपि तत्रैव ....................

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् ....................

(च) वयं गृहं नीत्वा कूर्मं ....................


5. पूर्णवाक्येन उत्तरत-

(क) कच्छपः कुत्र गन्तुम् इच्छति?

(ख) कच्छपः कम् उपायं वदति?

(ग) लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्?

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?


6. घटनाक्रमानुसारं वाक्यानि लिखत-

(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।

(ख) पौराः अकथयन्-वयं पतितं कूर्मं खादिष्यामः।

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(घ) केचित् धीवराः सरस्तीरे आगच्छन्।

(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

(छ) कूर्मः आकाशात् पतितः पौरैः मारितश्च।

(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।


7. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जलाशयम् अचिन्तयत् वृद्धः दुःखिताः कोटरे  वृक्षस्य सर्पः आदाय समीपे

एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य ................... एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ................... काकानां शिशून् खादति स्म। काकाः ................... आसन्। तेषु एकः ................... काकः उपायम् ...................। वृक्षस्य .................. जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ................ आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् ................... एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य ................... समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्। अतः एवोक्तम्-उपायेन सर्वं सिद्ध्यति।

 

girl%20thinking.psdध्यातव्यम्

इयं कथा ‘पञ्चतन्त्रम्’ इति ग्रन्थात् सम्पादितं कृत्वा उद्धृता। पञ्चतन्त्रस्य लेखकः विष्णुशर्मा। पञ्चानां तन्त्राणां समाहारः पञ्चतन्त्रम् इति। अतः पञ्चतन्त्रस्य पञ्च भागाः सन्ति-मित्रभेदः, मित्रलाभः, सन्धिविग्रहः, लब्धप्रणाशः अपरीक्षित-कारकञ्च।

अस्मिन् पाठे अनवसरे भाषणेन कथं सर्वनाशः भवतीति दर्शितम्। क्वचित् मौनं कार्यसाधकं भवति। यथोत्तηम्-

विभूषणं मौनमपण्डितानाम्।

मूर्खो हि शोभते तावत् यावत् किञ्चिन्न भाषते।