द्वादशः पाठः

विद्याधानम्

0755CH12.tif

चौरहार्यं राजहार्यं

भ्रातृभाज्यं न च भारकारि

व्यये कृते वर्धत एव नित्यं

विद्याधनं सर्वधनप्रधानम् ।। 1 ।


विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्

विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।

विद्या बन्धुजनो विदेशगमने विद्या परा देवता

विद्या राजसु पूज्यते न हि धनं विद्या-विहीनः पशुः ।। 2 ।


केयूराः न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

स्नानं न विलेपनं न कुसुमं नालङ्कता मूर्धजाः ।

वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्तेेेऽखिलभूषणानि सततं वाग्भूषणं भूषणम् ।। 3 ।।


विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयः

धेनुः कामदुघा रतिश्च विरहे नेत्रं तृतीयं च सा

सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्

तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु।। 4 ।।

55

56

अभ्यासः

1. उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

(क) विद्या राजसु पूज्यते। 672.jpg

(ख) वाग्भूषणं भूषणं न। 674.jpg

(ग) विद्याधनं सर्वधनेषु प्रधानम्। 676.jpg

(घ) विदेशगमने विद्या बन्धुजन: न भवति। 678.jpg

(ङ) सर्वं विहाय विद्याधिकारं कुरु। 680.jpg


2. अधोलिखितानां पदानां लिङ्ंग, विभक्तिं वचनञ्च लिखत-

पदानि लिङ्गम् विभक्तिः वचनम्

नरस्य ............... ............... ...............

गुरूणाम्    ............... ............... ...............

केयूराः ............... ............... ...............

कीर्तिम् ............... ............... ...............

भूषणानि ............... ............... ..............


3. श्लोकांशान् योजयत-

विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।

केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।

न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।

सत्कारायतनं कुलस्य महिमा विद्या-विहीनः पशुः।

वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।


4. एकपदेन प्रश्नानाम् उत्तराणि लिखत-

(क) क: पशुः?

(ख) का भोगकरी?

(ग) के पुरुषं न विभूषयन्ति?

(घ) का एका पुरुषं समलङ्करोति?

(ङ) कानि क्षीयन्ते?


5. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) विद्याविहीनः नरः पशुः अस्ति।

(ख) विद्या राजसु पूज्यते।

(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।

(घ) पिता हिते नियुङ्क्ते।

(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।

(च) विद्या दिक्षु कीर्तिं तनोति।


6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-

(क) गुरूणां गुरुः का अस्ति?

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?

(ग) व्यये कृते किं वर्धते?

(घ) भाग्यक्षये आश्रयः कः?


7. मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-

विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रति

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्

यथा- हाराः अलङ्कता भूषणम्

.................. .................. ..................

.................. .................. ..................

.................. .................. ..................