पञ्चदशः पाठः

लालनगीतम्

0755CH15.tif

उदिते सूर्ये धरणी विहसति

पक्षी कूजति कमलं विकसति ।।1।।

नदति मन्दिरे च्चैर्ढक्का

सरितः सलिले सेलति नौका ।।2।।

पुष्पे पुष्पे नानारङ्गाः ।

तेषु डयन्ते चित्रपतङ्गाः ।।3।।

वृक्षे वृक्षे नूतनपत्रम् ।

विविधैर्वर्णैर्विभाति चित्रम् ।।4।।

धेनुः प्रातर्यच्छति दुग्धम् ।

शुद्धं स्वच्छं मधुरं स्निग्धम् ।।5।।

गहने विपिने व्याघ्रो गर्जति ।

उच्चैस्तत्र च सिंहः नर्दति ।।6।।

हरिणोऽयं खादति नवघासम् ।

सर्वत्र च पश्यति सविलासम् ।।7।।

उष्ट्रः तुङ्ग: मन्दं गच्छति ।

पृष्ठे प्रचुरं भारं निवहति ।।8।।

घोटकराजः क्षिप्रं धावति ।

धावनसमये किमपि न खादति ।।9।।

पश्यत भल्लुकमिमं करालम् ।

नृत्यति थथथै कुरु करतालम् ।।10।।

-सम्पदानन्दमिश्रः


53

54

अभ्यासः

1. गीतम् सस्वरं गायत।

2. एकपदेन उत्तरत-

(क) का विहसति?

(ख) किम् विकसति?

(ग) व्याघ्रः कुत्र गर्जति?

(घ) हरिणः किं खादति?

(ङ) मन्दं कः गच्छति?


3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) सलिले नौका सेलति।

(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।

(ग) उष्ट्रः पृष्ठे भारं वहति।

(घ) धावनसमये अश्वः किमपि न खादति।

(ङ) सूर्ये उदिते धरणी विहसति।


4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

पृथिवी देवालये जले वने मृगः भयङ्करम्

धरणी ....................... विपिने .......................

करालम् ....................... हरिणः .......................

सलिले ....................... मन्दिरे .......................


5. विलोमपदानि मेलयत-

मन्दम् नूतनम्

नीचैः स्निग्धम्

कठोर:  पर्याप्तम्

पुरातनम् उच्चैः

अपर्याप्तम् क्षिप्रम्


6. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं ‘न’ इति लिखत-

(क) धावनसमये अश्वः खादति। 649.jpg

(ख) उष्ट्रः पृष्ठे भारं न वहति। 651.jpg

(ग) सिंहः नीचैः क्रोशति। 653.jpg

(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। 655.jpg

(ङ) वने व्याघ्रः गर्जति। 657.jpg

(च) हरिणः नवघासम् न खादति 659.jpg


7. अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) - चित्रपतङ्गाः

भल्लुकः (तृतीया-एकवचने) - ...................

उष्ट्रः (पञ्चमी-द्विवचने) - ...................

हरिणः (सप्तमी-बहुवचने) - ...................

व्याघ्रः (द्वितीया-एकवचने) - ...................

घोटकराजः (सम्बोधन-एकवचने) - ...................


8. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

 Chap-15b(p).tif

गाः विकसन्ति कमलानि उदेति क्रीडन्ति

डयन्ते सूर्यः चित्रपतङ्गाः कूजन्ति बाला:

......................................................................................................

......................................................................................................

......................................................................................................

......................................................................................................

......................................................................................................