द्वितीयः पाठः

Screenshot 2026-04-27 092926

सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः

भारतीयधर्मशास्त्रेषु अनेकाः सूक्तयः विद्यन्ते, याः मानवजीवनस्य यथार्थतत्त्वं प्रतिपादयन्ति। तेष्वेकं प्रसिद्धं सूत्ररूपं वाक्यं कौटिल्यस्य अर्थशास्त्रे अस्ति -

Screenshot 2026-04-27 093132
" सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः ।”

अस्य आशयः अस्ति यत् वास्तविकसुखस्य आधारः धर्मः, धर्मपालनस्य च आधारः अर्थः । अर्थः इत्युक्ते धनं, यत् सर्वविधस्य आजीविकाव्यवहारस्य प्रमुखं साधनम्।

जीवने धर्मः, अर्थः, सुखम् इत्येतेषां त्रयाणां परस्परसम्बन्धः अविच्छिन्नः अस्ति। यः जनः न्यायपूर्वकम् अर्थोपार्जनं करोति, सः धर्मपालनं कर्तुं समर्थः भवति, धर्मपालनेन च दीर्घकालिकं सुखं लभते ।

सामान्यजीवने अन्नं, वस्त्रम्, आवासः, शिक्षा, स्वास्थ्यसेवा चेत्यादीनां मूलभूतानाम् आवश्यकतानां पूर्तये धनम् आवश्यकम्। पर्याप्तधनस्य अभावात् स्वकर्तव्यपालनं कठिनं भवति। स्वास्थ्यं, शिक्षा, सेवा, दानम् चेत्यादीनि कार्याणि बाधितानि भवन्ति । दैनन्दिनजीवनं च असन्तुलितं भवति। अतः धर्मशास्त्रे चतुर्वर्गेषु धर्मार्थकाममोक्षेषु अर्थः

अयम् स्वास्थ्यम्: इति गण्यते। उक्तं गरुडपुराणे —

Screenshot 2026-04-27 093314

“ब्राहे मुहूर्ते चोथाय धर्मार्थं च चिन्तयेत्।”

अर्थात् दिनस्य आरम्भे धर्माध्ययनं चिन्तनं आवश्यकम्।

स्वस्थः आर्थिकव्यवहारः त्रिविधः भवति —

Screenshot 2026-04-27 093228

न्यायपूर्वम् अर्थोपार्जनम् —

सन्मार्गेण एव धनार्जनं करणीयम् इति। उक्तं भागवता मनुना —

सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
योऽर्थे शुचिर्हि सः शुचिर्न मृदाशुचिः शुचिः॥

Screenshot 2026-04-27 093343

अस्य आशयः यत् अनैतिकः आर्थिकव्यवहारः कदापि न करणीयः।

“मा गृधः कस्यस्विद्धनम्” इति उपनिषदः वाक्यं सततं मनसि निधाय स्वकौशलनेन विद्या च धनं उपार्जनीयम्।

औचित्यपूर्ण व्ययः —

आवश्यकतानुसारं व्ययः करणीयः। येन व्ययेन स्वास्थ्यलाभः, विद्याज्ञानं आत्मसुरक्षा वा भवति, सः व्ययः अवश्यं करणीयः। आडम्बरपूर्णः प्रदर्शनकारी व्ययः अथवा विलासवस्तुनां व्ययः अपव्ययः भवति। अपव्ययः वर्जनीयः। अतः प्रत्येकः व्ययस्य लेखः स्थापनीयः। अनेन च तेनां परिशीलनं करणीयम्।

भविष्यदृष्ट्या सञ्चयः —

उपार्जितधनस्य किञ्चित् भागः भविष्यसुरक्षायै सञ्चयनीयः। सञ्चयस्य अभ्यासेन जनः स्वावलम्बी भवति। स्वावलम्बनं स्वाभिमानस्य मूलं वर्तते। संकटकालेऽपि स्वाभिमानी जनः अन्यजनस्य आर्थिकसहायता नापेक्षते।

छात्रजीवने आर्थिकसाक्षरता

अनेकदा छात्राः मातापितृभ्यां कष्टार्जितधनस्य तुच्छकारणैः अपव्ययं कुर्वन्ति । जिह्वालालसापूर्त्यर्थं त्वरिताहारः, शीतपेयं, पुटीकृतभोजनं, तथैव व्यसनपदार्थानां सेवनं, प्रदर्शनकारिपरिधानं विलासितापूर्णम् आचरणं चेत्यादि यत्र प्रभूतः अपव्ययः भवति। एतैः न केवलं धनहानिः, स्वास्थ्यहानिरपि जायते। स्वास्थ्यहानिकारणात् पुनः धनव्ययो वर्धते।

Screenshot 2026-04-27 093418

अर्जितस्य सञ्चयः सञ्चितस्य च निवेशः

चाणक्यनीतौ उक्तम् -

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स क्रमः सर्वविद्यानां धर्मस्य च धनस्य च ॥

Screenshot 2026-04-27 093505

लघु-लघुः सञ्चयोपि कालान्तरे महत्सम्पत्तिरूपेण वर्धते । यदि छात्राः प्रतिदिनम् अल्पधनस्यापि सञ्चयं कुर्वन्ति, तस्य उचितनिवेशं च कुर्वन्ति तर्हि तेषां भविष्यं सुरक्षितं भवेत्। भारतदेशे धनसञ्चयस्य सुरक्षितनिवेशस्य च कृते बहुविधाः मार्गाः सन्ति। तेषु प्रधानमन्त्री-जनधनयोजना, सुकन्या-समृद्धि-योजना, सार्वजनिक-भविष्य-निधिः,


Screenshot 2026-04-27 093536

वरिष्ठ-नागरिक-संचय-योजना, किसान-विकास-पत्रं, राष्ट्रिय-संचय-प्रमाणपत्रं, राष्ट्रिय-पेंशन-योजना, नियतनिक्षेपः, आवृत्तिनिक्षेपः चेत्याद्याः प्रमुखाः सन्ति। एतासां सर्वकारीययोजनानां विषये सूचनाः

लब्धुं लाभमवाप्तुं च समीपस्थवित्तागाराः पत्रालयाः वा गन्तव्याः, तत्सम्बद्धाः अधिकारिणः च प्रष्टव्याः । एतासु योजनासु न केवलं कष्टार्जितधनस्य सुरक्षा भवति अपि तु चक्रवृद्ध्यंशेन सह तद्धनं सततं वर्धमानं भवति ।

Screenshot 2026-04-24 162434

भौतिकतावादियुगस्य आकर्षणेन यूनामपव्ययः अधिको भवति येन कारणेन अस्माकम् आर्थिकस्थितिः विपन्ना भवति । किन्तु अर्थविषयकसचेतनता अस्मान् अभावात् उद्धृत्य आर्थिकसम्पन्नतां प्रति नयति। अतः बुद्धिमतां छात्राणां ध्येयं स्यात् - धनस्य उचितोपार्जनम्, व्ययस्य मर्यादा, आपत्कालीननिधिसञ्चयः, दीर्घकालीननिवेशश्च। यः एतेषाम् अनुशासनेन पालनं करोति, स एव यथार्थतः धनस्य धर्मस्य च सन्तोलनं स्थापयितुं शक्नोति । यः विद्यार्थी अद्य अर्थविषये जागरूकोऽस्ति, सः भविष्ये उत्तरदायी नागरिको भवति। धर्मः, अर्थः, सुखम् चेत्येतेषां सन्तोलनम् एव यथार्थजीवनस्य लक्षणम् । अत एवोक्तम् -

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् । क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥

सर्वे शब्दे भाषन्ते
शब्दः अर्थः हिन्दी English मातृभाषया अर्थ लिखत
अपव्ययः व्यर्थव्ययः अनुचित व्यय Unnecessary expense
अवाप्तुम् प्राप्तुम् प्राप्त करने के लिए To get
अविच्छिन्नः न विच्छिन्नः अटूट Inseparable
अर्जितस्य उपार्जितस्य कमाए हुए का Of the earned
अर्थोपार्जनम् अर्थस्य उपार्जनम् धन कमाना Earning
आजीविका वृत्तिः व्यवसाय Livelihood
आडम्बरपूर्णः पाखण्डयुक्तः दिखावे से भरा Ostentatious
आर्थिकव्यवहारः धनविषयक व्यवहारः आर्थिक लेन-देन Financial behavior
आर्थिकसाक्षरता आर्थिक साक्षरता वित्तीय साक्षरता Financial literacy
आवृत्तिनिवेशः आवृत्तिनिवेशः आवर्ती जमा Recurring Deposit (RD)
उचितनिवेशम् साधुनिवेशम् योग्य निवेश Proper investment
उद्धृत्य उद्धारं कृत्वा ऊपर उठाकर By lifting up
औचित्यपूर्णः समुचितः उपयुक्त Justified
कष्टार्जितधनस्य कष्टेन अर्जितम् कष्ट से कमाए हुए धन का Of the wealth earned with difficulty
कालान्तरेण अन्यः कालः समय बीतने पर By the course of time
किसान-विकास-पत्रम् कृषकस्य विकासः किसान विकास पत्र Kisan Vikas Patra
चक्रवृद्ध्यंशेन चक्रवृद्ध्या अंशेन चक्रवृद्धि ब्याज से By Compound Interest
तुच्छकारणैः तुच्छ कारणैः निरर्थक कारणों से For trivial reasons
त्वरिताहारः त्वरितः आहारः शीघ्र आहार Fast Food
नियतिनिधेपः नियतकालिकः निधेपः निश्चित अवधि के लिए जमा Fixed Deposit (FD)
न्यायपूर्णम् न्यायेन पूर्णम् न्यायसंगत Justified
पुटीकृतभोजनम् पुटीकृत भोजनम् डिब्बाबंद खाना Packaged food
पूर्तये सम्पूर्णतायै उपलब्ध कराने के लिए To fulfill
प्रदर्शनकारीपरिधानम् प्रदर्शनकारी परिधानम् फैशनेबल वेशभूषा Fashionable attire
प्रभूतम् प्रचुरम् पर्याप्त Abundant
मा गृधः लोभं मा कुरु लालच न करो Don’t covet
मूलभूतम् मूलं भूतम् मौलिक Basic
यथार्थतत्त्वम् यथार्थ तत्त्वम् वास्तविक तत्व True essence
राष्ट्रीय-पेंशन-योजना राष्ट्रीय पेंशन योजना राष्ट्रीय पेंशन प्रणाली National Pension System (NPS)
राष्ट्रीय-संचय-प्रमाणपत्रम् राष्ट्रीय संचय प्रमाणपत्रम् राष्ट्रीय बचत प्रमाणपत्र National Savings Certificate (NSC)
वृद्ध-नागरिक-संचय-योजना वृद्ध नागरिक योजना वरिष्ठ नागरिक बचत योजना Senior Citizens Savings Scheme (SCSS)
विलासव्यसनाय विलास हेतु सुख भोग के लिए For luxury and enjoyment
विपन्ना संपन्नतारहित संकटग्रस्त Destitute
शीतपेयम् शीतं पेयम् मृदु पेय Soft Drinks
शुचिः पवित्रः शुद्ध Clean
सचेतनता विवेकः जागरूकता Consciousness
सञ्चयः संग्रहः संचय Accumulation
सन्तुलनम् समन्वयः संतुलित करना Balance
सुकन्या-समृद्धि-योजना सुकन्या योजना सुकन्या समृद्धि योजना Sukanya Samriddhi Yojna
सूत्ररूपम् संक्षेपरूपम् संक्षिप्त रूप Aphoristic form
स्वावलम्बी आत्मनिर्भरः स्वावलम्बी Self-reliant

अत्र इदम् अवधेयम्

चक्रवृद्ध्यंशः:

चक्रवृद्ध्यंशः तादृशः वृद्ध्यंशः वर्तते यस्मिन् मूलधनेन सह वृद्ध्यंशस्य उपरि अपि वृद्ध्यंशः अर्ज्यते। येन कालान्तरेण धनस्य वृद्धिः अतिशीघ्रं भवति।

यथा — यदि भवान ₹1000 निवेशं करोति, तत्र 10% वार्षिक वृद्ध्यंशम् अर्जयति तर्हि प्रथमवर्षे अन्ते भवान् ₹1100 धनं प्राप्नोति।

द्वितीयवर्षे ₹1000 इत्यस्य स्थाने ₹1100 राशेः उपरि वृद्ध्यंशः प्राप्यते। अनेन द्वितीयवर्षस्य अन्ते भवतः राशि: ₹1210 यावत् वर्धते।

चक्रवृद्ध्यंशः कथं कार्यं करोति? इति अनया सारिण्या स्पष्टं भविष्यति —

वर्षाणि आरम्भिकधनम् वार्षिक वृद्ध्यंशः (10%) चक्रवृद्ध्यंश सहितं धनम् साधारणवृद्ध्यंशेन सह धनम्
1 1,000.00 100.00 1,100.00 1100
2 1,100.00 110.00 1,210.00 1200
3 1,210.00 121.00 1,331.00 1300
4 1,331.00 133.10 1,464.10 1400
5 1,464.10 146.41 1,610.51 1500
6 1,610.51 161.05 1,771.56 1600
7 1,771.56 177.16 1,948.72 1700
8 1,948.72 194.87 2,143.59 1800
9 2,143.59 214.36 2,357.95 1900
10 2,357.95 235.80 2,593.74 2000

सारः —

  • निवेशित मूलधनम् — 1,000
  • वार्षिक चक्रवृद्ध्यंशः — 10%
  • दशवर्षानन्तरं धनस्य मूल्यम् — 2,593.74

अभ्यासाद् जायते सिद्धिः

१. एकपदेन उत्तरं लिखत —
(क) वास्तविकसुखस्य आधारः कः ?
(ख) कस्य अपभावात् स्वकर्तव्यपालनं कठिनं भवति ?
(ग) स्वस्थः आर्थिकव्यवहारः कतिविधः भवति ?
(घ) कीदृशः आर्थिकव्यवहारः कदापि न करणीयः ?
(ङ) स्वावलम्बनं कस्य मूलं वर्तते ?
(च) जलविन्दुनिपातेन क्रमशः किं पूर्यते ?
२. पूर्णवाक्येन उत्तरं लिखत —
(क) “सुखस्य मूलं धर्मः, धर्मस्य मूलं अर्थः” इत्येतत् प्रसिद्धं वाक्यं कस्मिन् ग्रन्थे प्राप्यते ?
(ख) सामान्यजीवने कामानाम् आवश्यकतानां पूर्त्यर्थं धनम् आवश्यकम् ?
(ग) ब्राह्मे मुहूर्ते कयोः चिन्तनम् आवश्यकम् ?
(घ) जनः केन स्वावलम्बी भवति ?
(ङ) लघुलघुसञ्चयः अपि कालान्तरे केन रूपेण वर्धते ?
३. वाक्येन सह प्रश्नस्य समेलनं कुरुत —
(क) जलविन्दुनिपातेन क्रमशः पूर्यते घटः।
(ख) ब्राह्मे मुहूर्ते चोथाय धर्मार्थं च चिन्तयेत्।
(ग) सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
(घ) सुखस्य मूलं धर्मः, धर्मस्य मूलं अर्थः।
१. गरुडपुराणम्
२. मनुस्मृतिः
३. अर्थशास्त्रम्
४. चाणक्यनीतिः
४. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत —
(क) सुखस्य मूलं धर्मः।
(ख) दिनस्य आरम्भे धर्मार्थयोः चिन्तनम् आवश्यकम्।
(ग) सन्मार्गेण एव धनार्जनं करणीयम्।
(घ) अनैतिकः आर्थिकव्यवहारः कदापि न करणीयः।
(ङ) संकटे स्वाभिमानी जनः अन्यजनस्य आर्थिकसहायता नापेक्षते।
५. उचितैः पदैः रिक्तस्थानानि पूरयत –
विदु विद्यते विदेते विदन्ते
लभ्
लभेते लभन्ते
अपेक्ष् अपेक्षते
अपेक्षन्ते
वर्ध्
वर्धेते
सेव्
सेवन्ते
मोद् मोदते
६. अधोलिखितानां प्रश्नानां शुद्धं विकल्पं चिनुत —
(क) “सुखस्य मूलं धर्मः, धर्मस्य मूलं अर्थः।” इत्यस्य मुख्य आशयः कः अस्ति ?
(१) सुखस्य आधारः केवलं अर्थः एव।
(२) धर्मस्य आधारः केवलं सुखम् एव।
(३) धर्मस्य आधारः अर्थः, सुखस्य आधारः धर्मः।
(४) सुखं, धर्मः, अर्थः — एतेषां मध्ये सम्बन्धः नास्ति।
(ख) गरुडपुराणे किम् उपदिष्टम् अस्ति ?
(१) रात्रौ धनस्य चिन्तनं करणीयम्।
(२) प्रभाते धर्मार्थयोः चिन्तनं करणीयम्।
(३) केवलं धर्मचिन्तनं करणीयम्।
(४) केवलं अर्थचिन्तनं करणीयम्।
(ग) “सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्” इत्यस्य तात्पर्यं किम् ?
(१) जलशौचमेव श्रेष्ठम्।
(२) मृदाशौचमेव श्रेष्ठम्।
(३) अर्थशौचं सर्वोपरी, अन्यविधशौचात् श्रेयः।
(४) शौचस्य आवश्यकता नास्ति।
(घ) छात्रेः क्रियमाणः अपव्ययः कः ?
(१) स्वास्थ्यलाभाय व्ययः।
(२) विद्याज्ञानाय व्ययः।
(३) आडम्बरयुक्तः प्रदर्शनात्मकः व्ययः ।
(४) आत्मसुरक्षायै व्ययः ।
(ङ) “जलविन्दुनिपातेन क्रमशः पूर्यते घटः।” इति वाक्यं कः अवदत् ?
(१) बृहस्पतिः
(२) चाणक्यः
(३) मनुः
(४) याज्ञवल्क्यः
स्वाध्यायनामा प्रमदः
छात्राः: अभिभावकेः सह समीपस्थं वित्तकोषं अथवा पत्रालयं गत्वा प्रधानमन्त्री-जनधनयोजना (PMJDY), सुकन्या-समृद्धि-योजना (SSY), सार्वजनिक-भविष्य-निधिः (PPF), वरिष्ठ-नागरिक-संचय-योजना (SCSS), किसान-विकास-पत्रम् (KVP), राष्ट्रीय-संचय-प्रमाणपत्रम् (NSC), राष्ट्रीय-पेंशन-योजना (NPS), नियतिनिधिः (FD), आवृत्तिनिधिः (RD) इत्यादियोजनानां विषये ज्ञानं प्राप्नुयुः। एकस्या योजनायाः विषये टिप्पणी च लिखेयुः।
यस्तु क्रियावान् मनुजः स विद्वान्

१. अस्मिन् पाठे पठितानां सूक्तीनां श्लोकानां च आशयं स्वभाषया लिखित्वा शिक्षकाय दर्शयत।

२. भवतः स्वजीवने अपव्ययात् कथं दूरं स्थितुं शक्नुवन्ति ? अस्मिन् विषये उपायान् लिखत।

३. स्वस्य एकस्य मासस्य आय-व्ययविवरणं लिखित्वा शिक्षकाय दर्शयत।

४. जलस्य संरक्षणे के उपायाः करणीयाः इति कक्षायां चर्चयत सचित्रं प्रदर्शयत च।

५. विद्युत् संरक्षणं कथं कर्तुं शक्यते तस्य चित्रं निर्माय शिक्षकाय दर्शयत।