Table of Contents
द्वितीयः पाठः
सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः
भारतीयधर्मशास्त्रेषु अनेकाः सूक्तयः विद्यन्ते, याः मानवजीवनस्य यथार्थतत्त्वं प्रतिपादयन्ति। तेष्वेकं प्रसिद्धं सूत्ररूपं वाक्यं कौटिल्यस्य अर्थशास्त्रे अस्ति -

" सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः ।”
अस्य आशयः अस्ति यत् वास्तविकसुखस्य आधारः धर्मः, धर्मपालनस्य च आधारः अर्थः । अर्थः इत्युक्ते धनं, यत् सर्वविधस्य आजीविकाव्यवहारस्य प्रमुखं साधनम्।
जीवने धर्मः, अर्थः, सुखम् इत्येतेषां त्रयाणां परस्परसम्बन्धः अविच्छिन्नः अस्ति। यः जनः न्यायपूर्वकम् अर्थोपार्जनं करोति, सः धर्मपालनं कर्तुं समर्थः भवति, धर्मपालनेन च दीर्घकालिकं सुखं लभते ।
सामान्यजीवने अन्नं, वस्त्रम्, आवासः, शिक्षा, स्वास्थ्यसेवा चेत्यादीनां मूलभूतानाम् आवश्यकतानां पूर्तये धनम् आवश्यकम्। पर्याप्तधनस्य अभावात् स्वकर्तव्यपालनं कठिनं भवति। स्वास्थ्यं, शिक्षा, सेवा, दानम् चेत्यादीनि कार्याणि बाधितानि भवन्ति । दैनन्दिनजीवनं च असन्तुलितं भवति। अतः धर्मशास्त्रे चतुर्वर्गेषु धर्मार्थकाममोक्षेषु अर्थः
अयम् स्वास्थ्यम्: इति गण्यते। उक्तं गरुडपुराणे —
“ब्राहे मुहूर्ते चोथाय धर्मार्थं च चिन्तयेत्।”
अर्थात् दिनस्य आरम्भे धर्माध्ययनं चिन्तनं आवश्यकम्।
स्वस्थः आर्थिकव्यवहारः त्रिविधः भवति —
न्यायपूर्वम् अर्थोपार्जनम् —
सन्मार्गेण एव धनार्जनं करणीयम् इति। उक्तं भागवता मनुना —
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
योऽर्थे शुचिर्हि सः शुचिर्न मृदाशुचिः शुचिः॥
अस्य आशयः यत् अनैतिकः आर्थिकव्यवहारः कदापि न करणीयः।
“मा गृधः कस्यस्विद्धनम्” इति उपनिषदः वाक्यं सततं मनसि निधाय स्वकौशलनेन विद्या च धनं उपार्जनीयम्।
औचित्यपूर्ण व्ययः —
आवश्यकतानुसारं व्ययः करणीयः। येन व्ययेन स्वास्थ्यलाभः, विद्याज्ञानं आत्मसुरक्षा वा भवति, सः व्ययः अवश्यं करणीयः। आडम्बरपूर्णः प्रदर्शनकारी व्ययः अथवा विलासवस्तुनां व्ययः अपव्ययः भवति। अपव्ययः वर्जनीयः। अतः प्रत्येकः व्ययस्य लेखः स्थापनीयः। अनेन च तेनां परिशीलनं करणीयम्।
भविष्यदृष्ट्या सञ्चयः —
उपार्जितधनस्य किञ्चित् भागः भविष्यसुरक्षायै सञ्चयनीयः। सञ्चयस्य अभ्यासेन जनः स्वावलम्बी भवति। स्वावलम्बनं स्वाभिमानस्य मूलं वर्तते। संकटकालेऽपि स्वाभिमानी जनः अन्यजनस्य आर्थिकसहायता नापेक्षते।
छात्रजीवने आर्थिकसाक्षरताअनेकदा छात्राः मातापितृभ्यां कष्टार्जितधनस्य तुच्छकारणैः अपव्ययं कुर्वन्ति । जिह्वालालसापूर्त्यर्थं त्वरिताहारः, शीतपेयं, पुटीकृतभोजनं, तथैव व्यसनपदार्थानां सेवनं, प्रदर्शनकारिपरिधानं विलासितापूर्णम् आचरणं चेत्यादि यत्र प्रभूतः अपव्ययः भवति। एतैः न केवलं धनहानिः, स्वास्थ्यहानिरपि जायते। स्वास्थ्यहानिकारणात् पुनः धनव्ययो वर्धते।
अर्जितस्य सञ्चयः सञ्चितस्य च निवेशः
चाणक्यनीतौ उक्तम् -जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स क्रमः सर्वविद्यानां धर्मस्य च धनस्य च ॥
लघु-लघुः सञ्चयोपि कालान्तरे महत्सम्पत्तिरूपेण वर्धते । यदि छात्राः प्रतिदिनम् अल्पधनस्यापि सञ्चयं कुर्वन्ति, तस्य उचितनिवेशं च कुर्वन्ति तर्हि तेषां भविष्यं सुरक्षितं भवेत्। भारतदेशे धनसञ्चयस्य सुरक्षितनिवेशस्य च कृते बहुविधाः मार्गाः सन्ति। तेषु प्रधानमन्त्री-जनधनयोजना, सुकन्या-समृद्धि-योजना, सार्वजनिक-भविष्य-निधिः,
वरिष्ठ-नागरिक-संचय-योजना, किसान-विकास-पत्रं, राष्ट्रिय-संचय-प्रमाणपत्रं, राष्ट्रिय-पेंशन-योजना, नियतनिक्षेपः, आवृत्तिनिक्षेपः चेत्याद्याः प्रमुखाः सन्ति। एतासां सर्वकारीययोजनानां विषये सूचनाः
लब्धुं लाभमवाप्तुं च समीपस्थवित्तागाराः पत्रालयाः वा गन्तव्याः, तत्सम्बद्धाः अधिकारिणः च प्रष्टव्याः । एतासु योजनासु न केवलं कष्टार्जितधनस्य सुरक्षा भवति अपि तु चक्रवृद्ध्यंशेन सह तद्धनं सततं वर्धमानं भवति ।
भौतिकतावादियुगस्य आकर्षणेन यूनामपव्ययः अधिको भवति येन कारणेन अस्माकम् आर्थिकस्थितिः विपन्ना भवति । किन्तु अर्थविषयकसचेतनता अस्मान् अभावात् उद्धृत्य आर्थिकसम्पन्नतां प्रति नयति। अतः बुद्धिमतां छात्राणां ध्येयं स्यात् - धनस्य उचितोपार्जनम्, व्ययस्य मर्यादा, आपत्कालीननिधिसञ्चयः, दीर्घकालीननिवेशश्च। यः एतेषाम् अनुशासनेन पालनं करोति, स एव यथार्थतः धनस्य धर्मस्य च सन्तोलनं स्थापयितुं शक्नोति । यः विद्यार्थी अद्य अर्थविषये जागरूकोऽस्ति, सः भविष्ये उत्तरदायी नागरिको भवति। धर्मः, अर्थः, सुखम् चेत्येतेषां सन्तोलनम् एव यथार्थजीवनस्य लक्षणम् । अत एवोक्तम् -
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् । क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥
| शब्दः | अर्थः | हिन्दी | English | मातृभाषया अर्थ लिखत |
|---|---|---|---|---|
| अपव्ययः | व्यर्थव्ययः | अनुचित व्यय | Unnecessary expense | |
| अवाप्तुम् | प्राप्तुम् | प्राप्त करने के लिए | To get | |
| अविच्छिन्नः | न विच्छिन्नः | अटूट | Inseparable | |
| अर्जितस्य | उपार्जितस्य | कमाए हुए का | Of the earned | |
| अर्थोपार्जनम् | अर्थस्य उपार्जनम् | धन कमाना | Earning | |
| आजीविका | वृत्तिः | व्यवसाय | Livelihood | |
| आडम्बरपूर्णः | पाखण्डयुक्तः | दिखावे से भरा | Ostentatious | |
| आर्थिकव्यवहारः | धनविषयक व्यवहारः | आर्थिक लेन-देन | Financial behavior | |
| आर्थिकसाक्षरता | आर्थिक साक्षरता | वित्तीय साक्षरता | Financial literacy | |
| आवृत्तिनिवेशः | आवृत्तिनिवेशः | आवर्ती जमा | Recurring Deposit (RD) | |
| उचितनिवेशम् | साधुनिवेशम् | योग्य निवेश | Proper investment | |
| उद्धृत्य | उद्धारं कृत्वा | ऊपर उठाकर | By lifting up | |
| औचित्यपूर्णः | समुचितः | उपयुक्त | Justified | |
| कष्टार्जितधनस्य | कष्टेन अर्जितम् | कष्ट से कमाए हुए धन का | Of the wealth earned with difficulty | |
| कालान्तरेण | अन्यः कालः | समय बीतने पर | By the course of time | |
| किसान-विकास-पत्रम् | कृषकस्य विकासः | किसान विकास पत्र | Kisan Vikas Patra | |
| चक्रवृद्ध्यंशेन | चक्रवृद्ध्या अंशेन | चक्रवृद्धि ब्याज से | By Compound Interest | |
| तुच्छकारणैः | तुच्छ कारणैः | निरर्थक कारणों से | For trivial reasons | |
| त्वरिताहारः | त्वरितः आहारः | शीघ्र आहार | Fast Food | |
| नियतिनिधेपः | नियतकालिकः निधेपः | निश्चित अवधि के लिए जमा | Fixed Deposit (FD) | |
| न्यायपूर्णम् | न्यायेन पूर्णम् | न्यायसंगत | Justified | |
| पुटीकृतभोजनम् | पुटीकृत भोजनम् | डिब्बाबंद खाना | Packaged food | |
| पूर्तये | सम्पूर्णतायै | उपलब्ध कराने के लिए | To fulfill | |
| प्रदर्शनकारीपरिधानम् | प्रदर्शनकारी परिधानम् | फैशनेबल वेशभूषा | Fashionable attire | |
| प्रभूतम् | प्रचुरम् | पर्याप्त | Abundant | |
| मा गृधः | लोभं मा कुरु | लालच न करो | Don’t covet | |
| मूलभूतम् | मूलं भूतम् | मौलिक | Basic | |
| यथार्थतत्त्वम् | यथार्थ तत्त्वम् | वास्तविक तत्व | True essence | |
| राष्ट्रीय-पेंशन-योजना | राष्ट्रीय पेंशन योजना | राष्ट्रीय पेंशन प्रणाली | National Pension System (NPS) | |
| राष्ट्रीय-संचय-प्रमाणपत्रम् | राष्ट्रीय संचय प्रमाणपत्रम् | राष्ट्रीय बचत प्रमाणपत्र | National Savings Certificate (NSC) | |
| वृद्ध-नागरिक-संचय-योजना | वृद्ध नागरिक योजना | वरिष्ठ नागरिक बचत योजना | Senior Citizens Savings Scheme (SCSS) | |
| विलासव्यसनाय | विलास हेतु | सुख भोग के लिए | For luxury and enjoyment | |
| विपन्ना | संपन्नतारहित | संकटग्रस्त | Destitute | |
| शीतपेयम् | शीतं पेयम् | मृदु पेय | Soft Drinks | |
| शुचिः | पवित्रः | शुद्ध | Clean | |
| सचेतनता | विवेकः | जागरूकता | Consciousness | |
| सञ्चयः | संग्रहः | संचय | Accumulation | |
| सन्तुलनम् | समन्वयः | संतुलित करना | Balance | |
| सुकन्या-समृद्धि-योजना | सुकन्या योजना | सुकन्या समृद्धि योजना | Sukanya Samriddhi Yojna | |
| सूत्ररूपम् | संक्षेपरूपम् | संक्षिप्त रूप | Aphoristic form | |
| स्वावलम्बी | आत्मनिर्भरः | स्वावलम्बी | Self-reliant |
चक्रवृद्ध्यंशः:
चक्रवृद्ध्यंशः तादृशः वृद्ध्यंशः वर्तते यस्मिन् मूलधनेन सह वृद्ध्यंशस्य उपरि अपि वृद्ध्यंशः अर्ज्यते। येन कालान्तरेण धनस्य वृद्धिः अतिशीघ्रं भवति।
यथा — यदि भवान ₹1000 निवेशं करोति, तत्र 10% वार्षिक वृद्ध्यंशम् अर्जयति तर्हि प्रथमवर्षे अन्ते भवान् ₹1100 धनं प्राप्नोति।
द्वितीयवर्षे ₹1000 इत्यस्य स्थाने ₹1100 राशेः उपरि वृद्ध्यंशः प्राप्यते। अनेन द्वितीयवर्षस्य अन्ते भवतः राशि: ₹1210 यावत् वर्धते।
चक्रवृद्ध्यंशः कथं कार्यं करोति? इति अनया सारिण्या स्पष्टं भविष्यति —
| वर्षाणि | आरम्भिकधनम् | वार्षिक वृद्ध्यंशः (10%) | चक्रवृद्ध्यंश सहितं धनम् | साधारणवृद्ध्यंशेन सह धनम् |
|---|---|---|---|---|
| 1 | 1,000.00 | 100.00 | 1,100.00 | 1100 |
| 2 | 1,100.00 | 110.00 | 1,210.00 | 1200 |
| 3 | 1,210.00 | 121.00 | 1,331.00 | 1300 |
| 4 | 1,331.00 | 133.10 | 1,464.10 | 1400 |
| 5 | 1,464.10 | 146.41 | 1,610.51 | 1500 |
| 6 | 1,610.51 | 161.05 | 1,771.56 | 1600 |
| 7 | 1,771.56 | 177.16 | 1,948.72 | 1700 |
| 8 | 1,948.72 | 194.87 | 2,143.59 | 1800 |
| 9 | 2,143.59 | 214.36 | 2,357.95 | 1900 |
| 10 | 2,357.95 | 235.80 | 2,593.74 | 2000 |
सारः —
- निवेशित मूलधनम् — 1,000
- वार्षिक चक्रवृद्ध्यंशः — 10%
- दशवर्षानन्तरं धनस्य मूल्यम् — 2,593.74
अभ्यासाद् जायते सिद्धिः
| विदु | विद्यते | विदेते | विदन्ते |
|---|---|---|---|
| लभ् | लभेते | लभन्ते |
| अपेक्ष् | अपेक्षते | अपेक्षन्ते | |
| वर्ध् | वर्धेते | ||
| सेव् | सेवन्ते | ||
| मोद् | मोदते |
१. अस्मिन् पाठे पठितानां सूक्तीनां श्लोकानां च आशयं स्वभाषया लिखित्वा शिक्षकाय दर्शयत।
२. भवतः स्वजीवने अपव्ययात् कथं दूरं स्थितुं शक्नुवन्ति ? अस्मिन् विषये उपायान् लिखत।
३. स्वस्य एकस्य मासस्य आय-व्ययविवरणं लिखित्वा शिक्षकाय दर्शयत।
४. जलस्य संरक्षणे के उपायाः करणीयाः इति कक्षायां चर्चयत सचित्रं प्रदर्शयत च।
५. विद्युत् संरक्षणं कथं कर्तुं शक्यते तस्य चित्रं निर्माय शिक्षकाय दर्शयत।