तृतीयः पाठः

Screenshot 2026-04-27 110824

आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः

भारतदेशः बहूनां ब्रह्मर्षीणां महात्मनां च भूमिः । तेषां चरित्राणि सकलस्य विश्वस्य कृते प्रेरणास्पदम् । तेषां चरित्रेषु प्रतिपदं भूतदया, समता, क्षमा, अहिंसा, करुणा, ऋजुता, बन्धुता चेत्यादीनि जीवनमूल्यानि प्राप्यन्ते। महाराष्ट्रस्य प्रसिद्धः महात्मा नामदेवमहाराजः स्वीयव्यवहारेण करुणायाः महान्तम् आदर्शम् उपस्थापितवान्। सः सर्वात्मकस्य ईश्वरस्य न केवलं सङ्कीर्तनं कृतवान् अपि तु सर्वेषु जीवेषु सः भगवन्तं दृष्टवान्। नामदेवमहाराजस्य जीवनस्य काचित् शिक्षाप्रदा घटना अत्र प्रदर्शिता अस्ति यां पठित्वा अस्माकं जीवनं परिवर्तितं भवेत् ।

Screenshot 2026-04-27 111411 Screenshot 2026-04-27 111504

कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ । तत्र क्रीडावेलायां कञ्चन शुनकं दृष्टवन्तौ। तं दृष्ट्वा पाषाणखण्डं हस्ते स्वीकृत्य तं मारयितुं धावितवन्तौ । धावितवान् । तत् दृष्ट्वा कपिलः माधवी च उच्चैः हसितवन्तौ । मातामही तं प्रसङ्ग दूरात् दृष्टवती, तौ आहूतवती च। शुनकः भयेन आक्रोशं कुर्वन् वेगेन

मातामही भोः कपिल! माधवी! किं कुरुतः?
कपिलः मातामहि! पश्यतु किला। सः शुनकः आवाभ्यां क्रीडायां मध्ये मध्ये प्रविश्य आवां पीडयति स्म। अतः आवां तं सम्यक् दृष्ट्वतन्तौ।
Screenshot 2026-04-27 111541
(पुनः उच्चैः हसितवन्तौ)
मातामही वत्सौ, अधुना क्रीडा अलम्। कथा श्रोतुम् इच्छतः वा?
Screenshot 2026-04-27 111729
उभौ अपि मातामह! कथा! रोचते मे कथा।
(मातामहीम् आलिङ्गित्वा)
मातामही उपविशताम्, सावधानेन शृणुतं च। अस्माकं भारतभूमिः अनेकैः नररत्नानां ब्रह्मर्षीणां राजर्षीणां च प्रसविनी। बहवः सत्पुरुषाः स्वीयकर्तृत्वेन जन्म सार्थकं कृतवन्तः। किं भवन्तौ महात्मानं नामदेवं जानीथः?
माधवी आम्। अहं श्रुतवती यत् तस्य कीर्तने स्वयम् देवः पाण्डुरङ्गः तन्त्रीं कृत्वान् इति। अपि सत्यम्?
मातामही आम्। तस्यैव पुण्यश्लोकस्य पाण्डुरङ्गमित्रस्य नामदेवमहाराजस्य एषा कथा। नामदेवः न केवलं पाण्डुरङ्गस्य प्रियभक्तः। अपि तु प्रिय मित्रमपि। देवः नामदेवं परितः भवति स्म।
माधवी किं सत्यमेव नामदेवस्य मित्रम् आसीत् पाण्डुरङ्गः?
कपिलः किं देवेन सह अपि मित्रता सम्भवति?
मातामही आम् वत्सौ। देवः पाण्डुरङ्गः नामदेवस्य प्रियसखा आसीत्। नामदेवः प्रतिदिनं पाण्डुरङ्गाय नैवेद्यं समर्प्य तं भोजयित्वा ततः परम् अन्नं स्वयम् सेवते स्म। यत् 'ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति। अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु' इति ।
कपिलः मातामहि! किं सत्यमेव ईश्वरः सर्वेषु भूतेषु निवसति?
मातामही आम्, शृणु वत्स! नामदेवः प्रतिदिनम् अतिश्रद्धया निष्ठया भक्त्या च नैवेद्यस्थालिकाम् आदाय मन्दिरं गच्छति स्म।
एकदा सः नैवेद्यस्थालिकां गृहीत्वा विग्रहस्य पुरतः स्थापित्वा नेत्रे निमील्य प्रार्थनां कृतवान्—
नैवेद्यं गृह्णातु देव भक्तिं मे दृढां कुरु।
ईप्सितं मे वरं देहि परत्र च परां गतिम्॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
मन्त्रं उच्चार्य श्रद्धया प्रणम्य सः नेत्रे उद्घाटितवान्।
अहो आश्चर्यम्! पुरतः स्थितायां स्थालिकायां रोटिका नासीत्।
माधवी पाण्डुरङ्गः आगत्य भक्षितवान् किम्?
मातामही न हि। कश्चन बुभुक्षितः शुनकः आगत्य रोटिकां मुखे गृहीत्वा धावितवान्।
कपिलः धिक् शुनकम्! मातामहि! पश्चात् शुनकाः दुष्टाः एव भवन्ति।
माधवी सत्यं भ्रातः! नामदेवस्य कियत् दुःखं जातं स्यात् खलु।
मातामही पुत्रकौ, शृणुताम्। नामदेवः शुनकस्य पृष्ठे अनुधावितवान्। जानीथः किमर्थं कश्च च? Screenshot 2026-04-27 111802
कपिलः क्रोधेन लठुडम् आदाय शुनकं ताडयितुं धावितवान् स्यात्।
माधवी दण्डं वा पाषाणखण्डम् आदाय धावितवान् स्यात्। सत्यं किल मातामहि!
मातामही न हि बालौ! नामदेवः क्रोधेन न धावितवान्, प्रत्युत सः करुणया धावितवान्। न लठुडम्, न पाषाणखण्डम्, अपि तु घृतपात्रं धृत्वा।
उभौ अपि (साश्चर्यम् उच्चैः) किं घृतपात्रम् आदाय?
मातामही आम्, घृतपात्रम् आदाय एव।
उभौ किन्तु किमर्थम्?
Screenshot 2026-04-27 112527
मातामही जातौ, शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान् खलु । महात्मनः नामदेवस्य चिन्ता आसीत् यत् यदि शुनकः शुष्करोटिकां खादेत् तर्हि तस्य उदरवेदना भवेत् इति। अतः तस्य पीडा मा भवतु इति चिन्तयन् घृतपात्रम् आदाय 'हे देव! शुष्कां रोटिकां मा खादतु, घृतम् अपि स्वीकरोतु' इति वदन् अनुधावितवान् सः । (उभौ परस्परं पश्यतः । अपराधभावनया तयोः मुखे म्लाने आस्ताम् ।)
मातामही धावन् शुनकः अदृश्यः जातः । तस्य स्थाने पाण्डुरङ्गः आविर्भूतः। स नामदेवम् उक्तवान् – 'वत्स नामदेव ! उत्तीर्णः भवान् परीक्षाम्। 'ईश्वरः सर्वेषु भूतेषु निवसति' इति गुरूपदेशं न केवलं भवान् श्रुतवान् अपि तु अनुपालितवान्। सुतरां धन्यो भवान्।
कपिलः मातामहि ! अहं प्रमादं कृतवान् । अकारणं हि शुनकं ताडितवान् । इतः पूर्वमपि बहुवारं जीवान् पीडितवान्। अद्य अहं ज्ञातवान् यत् सर्वेषु जीवेषु ईश्वरः निवसति, अतः कमपि न पीडयिष्यामि इति ।
माधवी मातामहि ! क्षाम्यतु माम्। अहमपि कदापि कस्यापि पीडां न जनयिष्यामि ।
मातामही चिरञ्जीविनौ ! मां निकषा आगच्छताम्। (आलिङ्गनं कृत्वा) अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत्। तथैव कस्यापि या कापि पीडा स्यात् तां निवारयितुं प्रयतामहे इति सङ्कल्पं कुर्मः । इदमस्तु अस्माकं ध्येयम् -
Screenshot 2026-04-27 112617 'आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः।'
सर्वे शब्दाः भाषन्ते
शब्दः अर्थः हिन्दी English मातृभाषया अर्थ लिखत
अनुधावितवान्
(अनु + √धाव् + क्तवत्)
पृष्ठतः अधावत् पीछे दौड़ा Chased
अनुपालितवान्
(अनु + √पाल् + क्तवत्)
अनुसरणम् अकरोत् पालन किया Followed
अपहृत्य
(अप + √हृ + ल्यप्)
चोरित्वा चुराकर Having stolen
आविर्भूतवान्
(आविस् + √भू + क्तवत्)
प्रत्यक्षभूतः प्रकट हुए Appeared
आलिङ्गनं कृतवन्तौ
(√लिङ्ग् + क्तवत्)
आश्लेषौ दोनों गले मिले Hugged
ऋजुता सरलता सीधापन Simplicity
करुणया दयया दया से With mercy
कायः देहः शरीर Body
घृतम् हविः घी Clarified butter
दण्डितवन्तौ
(√दण्ड् + क्तवत्)
दण्डं दत्तवन्तौ दण्ड दिया Punished
नैवेद्यम्
(नपुं.प्र.ए.व.)
देवाय समर्पितं निर्मितः पदार्थः भोग Offering to God
निकषा
(अव्ययम्)
समीपे पास Near
निमील्य
(नि + √मिल् + ल्यप्)
पिधाय बंद करके Having closed
पाषाणखण्डम्
(पुं.द्वि.ए.व.)
शिलाखण्डम् पत्थर का टुकड़ा Piece of Stone
पुण्यश्लोकः
(पुं.प्र.ए.व.)
पुण्यः श्लोकः (चरित्रे) यस्य सः पवित्र चरित्र वाला Virtuous character
प्रसविनी
(स्त्री.प्र.ए.व.)
जनयित्री जन्म देने वाली One who gives birth
ब्रह्मर्षीणाम्
(पुं.ष.ब.व.)
ब्रह्मज्ञानिनां ऋषीणाम् ब्रह्म को जानने वाले ऋषियों का Of Seers of Brahman
बुभुक्षितः
(पुं.प्र.ए.व.)
क्षुधितः भूखा Hungry
भक्षितवान्
(√भक्ष् + क्तवत्)
खादितवान् खाया Ate
मातुलः
(पुं.प्र.ए.व.)
मातुः भ्राता मामा Maternal uncle
म्लाने
(नपुं.प्र.द्वि.व.)
कान्तिहीने कुम्हलाया Withered
लगुडम्
(पुं.द्वि.ए.व.)
दण्डम् लाठी Stick
शिक्षाप्रदा
(उपपदतत्पुरुषः, स्त्री.प्र.ए.व.)
शिक्षां प्रददाति इति सीख देने वाली Which imparts education
सुहृत्
(पुं.प्र.ए.व.)
सखा मित्र Friend

अत्र इदम् अवधेयम्

उपपदविभक्तयः

उप इत्यस्य अर्थः सामीप्यम् इति। समीपस्थं पदम् आश्रित्य जायमाना विभक्तिः उपपदविभक्तिः इति कथ्यते।

(क) 'प्रति' इति शब्दस्य अर्थः आभिमुख्यम् इति । प्रति-शब्दयोगे द्वितीया विभक्तिः भवति । अतः प्रति-शब्दयोगे मन्दिर इति शब्दस्य द्वितीया ।

यथा - नामदेवः प्रतिदिनं मन्दिरं प्रति गच्छति स्म ।
बालः सदा मातरं प्रति धावति।

(ख) 'विना' इति पदस्य योगे द्वितीया, तृतीया पञ्चमी चेति विभक्तयः भवन्ति ।

यथा - अहं कारणं विना शुनकं ताडितवान् ।
अहं कारणेन विना शुनकं ताडितवान्।
अहं कारणात् विना शुनकं ताडितवान् ।

(ग) 'धिक्' इति शब्दः निन्दावाचकः । धिक् इति शब्दस्य योगे द्वितीया विभक्तिः भवति ।

यथा - धिक् शुनकम् ।
धिक् दुर्जनम् ।

(घ) 'निकषा' इति शब्दस्य अर्थः समीपम् इति । निकषा इति शब्दस्य योगे द्वितीया विभक्तिः भवति ।

यथा - कपिलः मातामहीं निकषा आगतवान् ।
केशवस्य गृहं पाठशालां निकषा अस्ति ।

(ङ) 'परितः' इति शब्दस्य अर्थः परिवृत्य / सर्वस्मिन् पार्श्व इति । परितः इति शब्दयोगे द्वितीया विभक्तिः भवति ।

यथा - देवं परितः भक्ताः सन्ति ।
शिक्षकं परितः छात्राः भवन्ति ।

(च) 'सह, साकं, सार्धं, समम्' इति शब्दानां योगे तृतीया विभक्तिः भवति । यथा -

माधवी कपिलेन सह भ्रमति ।
जनकेन सह पुत्री क्रीडति ।
त्वं मित्रेण साकं धावसि।
सः पित्रा सार्धम् आगच्छति।
रामः लक्ष्मणेन समं वनं गच्छति । अहम् अनुजेन साकं ग्रामं गच्छामि।

(छ) 'अलम्' इति शब्दस्य योगेऽपि तृतीया विभक्तिः भवति ।

यथा - अलं क्रीडया।
अलं विस्तरेण ।
अलम् आलस्येन ।
अलं कलहेन ।
अलं क्रोधेन ।

अभ्यासाद् जायते सिद्धिः

१. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत —
(क) मातामही कस्य कथां श्रावितवती?
(ख) नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान्?
(ग) नामदेवः कया भावनया धावन् धृतवान्?
(घ) बालकयोः मुखे किमर्थं म्लाने संजाते?
(ङ) कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ?
(च) तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ — इति वाक्ये ‘तम्’ इति सर्वनामशब्दः कस्य कृते प्रयुक्तः?
(छ) कपिलः माधवी च कुत्र गतवन्तौ?
(ज) ‘मातामही तं प्रसङ्गं दृष्टवती, तौ आहूतवती च’ — इति वाक्ये ‘तौ’ इति शब्दः कस्यां विभक्तौ अस्ति?
२. अधोलिखितानि वाक्यानि भूतकालेन परिवर्त्य पुनः लिखत —
यथा — नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गच्छति।
नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गतवान्।
(क) नैवेद्यं विग्रहस्य पुरतः स्थापयति।
(ख) नेत्रे निमील्य प्रार्थनां आरम्भं करोति।
(ग) गुरुः विसोबा तम् अध्यापयति।
(घ) अहं शृणोमि।
(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति।
(च) नामदेवः शुनकस्य पृष्ठे अनुधावति।
३. अधोलिखितानि कथनानि कः / का / के / कां च प्रति कथयति इति लिखत —
यथा — हे देव! शुनकः रोटिकां न खादतु।
→ “नामदेवः” “शुनकम्”
(क) कथां श्रोतुम् इच्छतः वा?
(ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयम् देवः पाण्डुरङ्गः नृत्यं कृतवान् इति।
(ग) किं देवेन सह अपि मित्रता सम्भवति?
(घ) अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु।
(ङ) नैवेद्यं गृह्णातु देव भक्तिं मे दृढां कुरु।
(च) धिक् शुनकम्।
(छ) नामदेवस्य कियत् दुःखं जातं स्यात् खलु?
(ज) किं घृतपात्रम् आदाय?
(झ) अधुना अहं ज्ञातवान् यत् सर्वेषु ईश्वरः निवसति इति।
(ञ) उत्तीर्णः भवान् परीक्षाम्।
४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत —
यथा — पाण्डुरङ्गः नामदेवस्य मित्रम् आसीत्।
पाण्डुरङ्गः कस्य मित्रम् आसीत्?
(क) देवः नामदेवं परितः भवति स्म।
(ख) ईश्वरः सर्वेषु भूतेषु निवसति।
(ग) शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्।
(घ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
(ङ) आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः।
५. घटनाक्रमानुसार लिखत —
(क) नामदेवः मन्त्रं उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
(ख) नामदेवः घृतपात्रम् आदाय अनुधावितवान्।
(ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
(घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
(ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
(च) नामदेवः मन्दिरं गतवान्।
६. कोष्ठकेषु दत्तानां पदानाम् उचितां विभक्तिं योजयित्वा अनुच्छेदं पूरयत —
आगच्छतु, पायसं कुर्मः

आगच्छतु, पायसं कुर्मः । (क्षीर) सह तण्डुलाः पच्यन्ते । (शर्करा) विना कथं शक्यते । शीघ्रमेव (आपण) प्रति गत्वा शर्कराम् आनयतु । (आपण) निकषा वाहनानि तिष्ठन्ति । शर्करा महासये स्थापिता । (शर्करा) परितः पिपीलिकाः आगताः । पिपीलिकाः अपनिय पायसे शर्करा योजिता । (मधु) विना पायसं रुचिकरं न भवति । अधुना (पायस) परितः बालक-बालिकाः तिष्ठन्ति । धिक् (अन्य मधुपदार्थाः) इति एकः वदति । (तत्) विना जीवनम् अपूर्णम् इति अपरः । (पायस) सह एव भोजनं सरसम् इति अन्यः । तेषां वचनानि श्रुत्वा पायसं चच्छन्त्याः अनन्याः मुखे मन्दहासः विलसति ।
७. अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतुप्रत्ययान्तं रूपं योजयित्वा पुनः लिखत —
किञ्चित् ग्राम निकषा एका नदी आसीत्। नदी सर्वदा स्वच्छजलम् अददात्। जनाः तस्याः जलं पीत्वा सुखेन अजीवन्। एकः कृषकः तेन जलेन सर्वदा कृषिं अकरोत्। कालान्तरेषु अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् अकुर्वन्। महिलाः पर्वसमये नदीम् अपश्यन्। एकवारं किञ्चित् परिवारः नदीं मलिनतया अधिक्षिपत्। क्रमशः अन्ये अपि अधिक्षिपन्। तेन नदी मलिना अभवत्, मीनाः अध्रियन्त। स्त्रियः रोगैः पीडिताः अभवन्। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् अवदत्। सा नदीतीरम् आगत्य स्वयं वृक्षान् अरोपयत्। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् अकुर्वन्। सर्वे ग्रामवासिनः मिलित्वा नदीम् अशोधयन्। पुनः नदी स्वच्छा जाता, निर्मलं जलं च अददात्। ततः आर्षे वर्षे एकवारं जनाः नदीम् अपश्यन् वृक्षारोपणं च अकुर्वन्
८. एतेषां समस्तपदानि पाठात् चिन्त्वा लिखत —
यथा — महान् आत्मा, तेषां → महात्मनाम्
(क) धृतस्य पात्रम्, तत्
(ख) पाषाणस्य खण्डः, तम्
(ग) प्रियः सुहृद्
(घ) उदरस्य वेदना
(ङ) स्वीयः व्यवहारः
(च) जीवनस्य मूल्यानि
(छ) मातुलस्य गृहम्, तत्
(ज) नेत्रे रत्नानि इव, तेषाम्
(झ) स्वीयं कर्त्तव्यम्, तेन
(ञ) अपराधस्य भावना, तया
(ट) गुरोः उपदेशः, तम्
(ठ) दिने दिने
(ड) राजा ऋषिः इव, तेषाम्
स्वाध्यायनम् प्रमोदः
१. पुल्लिङ्गे रूपाणि
विभक्तयः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गतवान् गतवन्तौ गतवन्तः
द्वितीया गतवन्तम् गतवन्तौ गतवन्तः
तृतीया गतवता गतवद्भ्याम् गतवद्भिः
चतुर्थी गतवते गतवद्भ्याम् गतवद्भ्यः
पञ्चमी गतवतः गतवद्भ्याम् गतवद्भ्यः
षष्ठी गतवतः गतवतयोः गतवताम्
सप्तमी गतवति गतवतयोः गतवत्सु
२. स्त्रीलिङ्गे रूपाणि
विभक्तयः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गतवती गतवत्यौ गतवत्यः
द्वितीया गतवतीम् गतवत्यौ गतवतीः
तृतीया गतवत्या गतवतीभ्याम् गतवतीभिः
चतुर्थी गतवत्यै गतवतीभ्याम् गतवतीभ्यः
पञ्चमी गतवत्याः गतवतीभ्याम् गतवतीभ्यः
षष्ठी गतवत्याः गतवत्योः गतवतीनाम्
सप्तमी गतवत्याम् गतवत्योः गतवतीषु
३. नपुंसकलिङ्गे रूपाणि
विभक्तयः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गतवत् गतवती गतवन्ति
द्वितीया गतवत् गतवती गतवन्ति
तृतीया गतवता गतवद्भ्याम् गतवद्भिः
चतुर्थी गतवते गतवद्भ्याम् गतवद्भ्यः
पञ्चमी गतवतः गतवद्भ्याम् गतवद्भ्यः
षष्ठी गतवतः गतवतयोः गतवताम्
सप्तमी गतवति गतवतयोः गतवत्सु
पाण्डुरङ्गः
पाण्डुरङ्गस्य विठ्ठलः, विठोबा, पण्डरीनाथः इत्यादीनि बहूनि नामानि सन्ति। महाराष्ट्रस्य सोलापुरजनपदे पण्डरपुरम् प्रसिद्धं तीर्थक्षेत्रम् अस्ति। चन्द्रभागानद्याः तीरे विराजते।
विषयप्रबोधनम्
नैवेद्यं गृह्णातु देव भक्तिं मे दृढां कुरु।
ईप्सितं मे वरं देहि परत्र च परां गतिम्॥
अन्वयः — हे देव! नैवेद्यं गृहाण। भक्तिं दृढां कुरु।
यस्तु क्रियावान् मनुष्यः स विद्वान्
१. स्वदेशे विद्यमानानां त्रिषाणां महात्मनां चित्राणि संकलयत। तेषां विषये विवरणं पञ्चभिः वाक्यैः च लिखत।
उदाहरणम् — छत्तीसगढराज्यस्य गिरौदपुरी-ग्रामे गुरु-घासिदासमहाराजस्य जन्म जातम्। ‘मनखे मनखे एक समान’ अर्थात् सर्वे मनुष्याः समानाः सन्ति इति तस्य उपदेशः आसीत्। समाजस्थां विषमतां दूरीकृत्य समानतां आनयतु घासिदासः महाराजः। महान्तं प्रयत्नं कृतवान्। अस्माभिः न केवलं सर्वे मनुष्ये सह, अपि तु सर्वे जीवैः सह अपि स्नेहपूर्वकं व्यवहारणीयम् इति सः उपदिशति स्म। सतनामी इति सम्प्रदायस्य सः संस्थापकः आसीत्।
२. पाठे आगतानि क्तवतुप्रत्ययान्तानि वाक्यानि संगृह्य तादृशानि अन्यानि वाक्यानि लिखत।
यथा — कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ।
रामः लक्ष्मणः च सीतया सह वनं गतवन्तौ।
३. गुरु-घासिदास-महाराजः, सन्तकवि-भीमरावः चेति एतयोः महापुरुषयोः विषये पञ्चभिः वाक्यैः, दशभिः वाक्यैः वा वर्णयित्वा शिक्षकान् दर्शयत।
Screenshot 2026-04-27 112702