KshitijBhag1-001

तृतीय: पाठ:

गोदोहनम्


एतत् नाट्यांशं ‘चतुर्व्यूहम्’ इति पुस्तकात् संक्षिप्य सम्पाद्य च उद्धृतम्। अस्मिन् नाटके एतादृशस्य जनस्य कथानकम् अस्ति य: धनवान् सुखाकाखि च भवितुम् इच्छुक: मासपर्यन्तं दुग्धदोहनादेव विरमति, येन मासान्ते धेनो: शरीरे सञ्चितं पर्याप्तं दुग्धम् एकवारमेव विक्रीय सम्पत्तिमर्जयितुं समर्थ: भवेत्। परं मासान्ते यदा स: दुग्धदोहनाय प्रयतते तदा स: दुग्धबिन्दुम् अपि न प्राप्नोति। दुग्धप्राप्तिस्थाने स: धेनो: प्रहारै: रक्तरञि्'त: भवति, अवगच्छति च यत् दैनन्दिनं कार्यं यदि मासपर्यन्तं संगृह्य क्रियते तदा लाभस्य स्थाने हानिरेव भवति।

(प्रथमं दृश्यम्)

(मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति)

(तत: प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दन:।)

चन्दन: - अहा! सुगन्धस्तु मनोहर: (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्न: भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)

मल्लिका - (सक्रोधम्) विरम। विरम। मा स्पृश! एतानि मोदकानि

चन्दन: - किमर्थं क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षम: अस्मि, किं न जानासि त्वमिदम्?

मल्लिका - सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्तानि सन्ति।

चन्दन: - तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।

मल्लिका - भो! अत्र पूजनं न भविष्यति। अहं स्वसखिभि: सह श्व: प्रात: काशीविश्वनाथमन्दिरं प्रति गमिष्यामि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्याम:।

चन्दन: - सखिभि: सह! न मया सह! (विषादं नाटयति)

मल्लिका - आम्। चम्पा, गौरी, माया, मोहिनी, कपिलाद्या: सर्वा: गच्छन्ति। अत:, मया सह तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्याम:। तावत्, गृह व्यवस्थां, धेनो: दुग्धदोहनव्यवस्थाञ्च परिपालय।

(द्वितीयं दृश्यम्)

चन्दन: - अस्तु। गच्छ। सखिभि: सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थान:।

चन्दन: - मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा तत: स्वप्रातराशस्य प्रबन्धं करिष्यामि। (स्त्रीवेषं धृत्वा, दुग्धपात्रहस्त: नन्दिन्या: समीपं गच्छति)

उमा - मातुलानि! मातुलानि!

चन्दन: - उमे! अहं तु मातुल:। तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति। कथय! किं ते प्रियं करवाणि?

उमा - मातुल! पितामह: कथयति, मासानन्तरम् अस्मत् गृहे महोत्सव: भविष्यति। तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भि: करणीया।

चन्दन: - (प्रसन्नमनसा) त्रिशत-सेटककपरिमितं दुग्धम्! शोभनम्। दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।

उमा - धन्यवाद: मातुल! याम्यधुना। (सा निर्गता)

(तृतीयं दृश्यम्)

चन्दन: - (प्रसन्नो भूत्वा, अङ्गुलिषु गणयन्) अहो! सेटक-त्रिशतकानि पयांसि! अनेन तु बहुधनं लप्स्ये। (नन्दिनीं दृष्ट्वा) भो नन्दिनि! तव कृपया तु अहं धनिक: भविष्यामि। (प्रसन्न: स: धेनो: बहुसेवां करोति)

चन्दन: - (चिन्तयति) मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिनं दोहनं
करोमि तर्हि दुग्धं सुरक्षितं न
तिष्ठति। इदानीं किं करवाणि? भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि।

(एवं क्रमेण सप्तदिनानि व्यतीतानि। सप्ताहान्ते मल्लिका प्रत्यागच्छति)

मल्लिका - (प्रविश्य) स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।

(चन्दन: मोदकानि खादति वदति च)

चन्दन: - मल्लिके! तव यात्रा तु सम्यक् सफला जाता? काशीविश्वनाथस्य कृपया प्रियं निवेदयामि।

मल्लिका - (सा श््चर्यम्) एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम्?

चन्दन: - ग्रामप्रमुखस्य गृहे महोत्सव: मासान्ते भविष्यति। तत्र त्रिशत-सेटकमितं दुग्धम् अस्माभि: दातव्यम् अस्ति।

मल्लिका - किन्तु एतावन्मात्रं दुग्धं कुत: प्राप्स्याम:।

चन्दन: - विचारय मल्लिके! प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयाम: चेत् तत् सुरक्षितं न तिष्ठति। अत एव दुग्धदोहनं न क्रियते। उत्सवदिने एव समग्रं दुग्धं धोक्ष्याव:।

मल्लिका - स्वामिन्! त्वं तु चतुरतम:। अत्युत्तम: विचार:। अधुना दुग्धदोहनं विहाय केवलं नन्दिन्या: सेवाम् एव करिष्याव:। अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्याव:।

(द्वावेव धेनो: सेवायां निरतौ भवत:।

अस्मिन् क्रमे घासादिकं गुडादिकं च भोजयत:। कदाचित् विषाणयो: तैलं लेपयत: तिलकं धारयत:, रात्रौ नीराजनेनापि तोषयत:)

3.1.tif

चन्दन: - मल्लिके! आगच्छ। कुम्भकारं प्रति चलाव:। दुग्धार्थं पात्रप्रबन्धोऽपि करणीय:। (द्वावेव निर्गतौ)

(चतुर्थं दृश्यम्)

कुम्भकार: - (घटरचनायां लीन: गायति)

ज्ञात्वाऽपि जीविकाहेतो: रचयामि घटानहम्।

जीवनं भङु्गरं सर्वं यथैष मृत्तिकाघट:।।

चन्दन: - नमस्करोमि तात! पञ््चदश घटान् इच्छामि। किं दास्यसि?

देवेश - कथं न? विक्रयणाय एव एते। गृहाण घटान्। पञ््चशतोत्तर-रूप्यकाणि
च देहि।

चन्दन: - साधु। परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक््यते।

देवेश: - क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि।

मल्लिका - (स्वाभूषणं दातुमिच्छति) तात! यदि अधुनैव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम्।

देवेश: - पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।

उभौ - धन्योऽसि तात! धन्योऽसि।

(पञ््चमं दृश्यम्)

(मासानन्तरं सन्ध्याकाल:। एकत्र रिक्ता: नूतनघटा: सन्ति। दुग्धक्रेतार: अन्ये

ग्रामवासिन: अपरत्र आसीना:)

चन्दन: - (धेनुं प्रणम्य, मङ्गलाचरणं विधाय, मल्लिकाम् आह्वयति) मल्लिके! सत्वरम् आगच्छ।

मल्लिका - आयामि नाथ! दोहनम् आरभस्व तावत्।

चन्दन: - (यदा धेनो: समीपं गत्वा दोग्धुम् इच्छति, तदा धेनु: पृष्ठपादेन प्रहरति।
चन्दन श््च
पात्रेण सह पतति) नन्दिनि! दुग्धं देहि। किं जातं ते? (पुन: प्रयासं करोति) (नन्दिनी च पुन: पुन: पादप्रहारेण ताडयित्वा चन्दनं रक्तरञि्'तं करोति) हा! हतोऽस्मि। (चीत्कारं कुर्वन् पतति) (सर्वे आ श््चर्येण चन्दनम् अन्योन्यं च पश्यन्ति)

मल्लिका - (चीत्कारं श्रुत्वा, झटिति प्रविश्य) नाथ! किं जातम्? कथं त्वं
रक्तरञि्'त:?

3.2.tif

चन्दन: - धेनु: दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्।

(मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते। किन्तु, धेनु: दुग्धहीना एव

इति अवगच्छति।)

मल्लिका - (चन्दनं प्रति) नाथ! अत्यनुचितं कृतम् आवाभ्याम् यत्, मासपर्यन्तं
धेनो: दोहनं कृतम्।
सा पीडम् अनुभवति। अत एव ताडयति।

चन्दन: - देवि! मयापि ज्ञातं यत्, अस्माभि: सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यन्तं दोहनं न कृतम्। अत एव, दुग्धं शुष्कं जातम्। सत्यमेव उक्तम्-

कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्।

विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्।।

मल्लिका - आम् भर्त:! सत्यमेव। मयापि पठितं यत्-

सुविचार्य विधातव्यं कार्यं कल्याणकाε॰णा।

य: करोत्यविचार्यैतत् स विषीदति मानव:।।

किन्तु प्रत्यक्षतया अद्य एव अनुभूतम् एतत्।

सर्वे - दिनस्य कार्यं तस्मिन्नेव दिने कर्तव्यम्। य: एवं न करोति स: कष्टं लभते
ध्रुवम्

(जवनिका पतनम्)

(सर्वे मिलित्वा गायन्ति।)

आदानस्य प्रदानस्य कर्तव्यस्य च कर्मण:।

क्षिप्रमक्रियमाणस्य काल: पिबति तद्रसम्।।

श्लोकान्वय:-

1. यथा एष मृत्तिकाघट:- (तथा) सर्वं जीवनं भङ्˜रं ज्ञात्वा अपि घटान् रचयामि।

2. यत् अद्यतनीयं कार्यं तत् अद्यैव विधीयताम्। यस्य गति: विपरीते (अस्ति) स: ध्रुवं

कष्टं लभते।

3. कल्याणकाε॰णा कार्यं सुविचार्य (एव) विधातव्यम्। य: मानव: एतत् अविचार्य करोति

स: विषीदति।

4. क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मण: तद्रसं काल: पिबति।

शब्दार्था:

 धेनुः   गौः  गाय
Cow
 मन्दस्वरेण निम्नस्वरेण 
धीमी आवाज़ में In low volume
मनोहरः 
आकर्षकः
मनमोहक
Attractive
विरम
तिष्ठ 
रुको
Stop
जिह्वालोलुपताम्  
रसनालोभम् 
जीभ का लालच
Fascination of tongue
अक्षमः 
असमर्थः 
असहाय
Incapable
धर्मयात्राम् 
तीर्थयात्राम् 
धार्मिक यात्रा
Pilgrimage
सेटकम् 
एकलीटरमितम् 
एक लीटर
One liter
प्रत्यागता 
प्रत्यायाता 
लौट आई
Come Back
साश्चर्यम् 
सविस्मयम् 
हैरानी से
With astonishment
दुग्धदोहनम्
पयोदोहनम् 
दूध दुहना
Milking
 निरतौ  संलग्नौ 
दोनो जुटे हुए
Both involved
भङ्ग˜रम् 
भञ्जनशीलं 
टूटकर समाप्त होने वाला
Breakable
विक्रीय 
विक्रयं कृत्वा 
बेचकर
Selling
रिक्ताः 
शून्याः 
खाली
Empty
रक्तरञि्'तम् 
शोणिताप्लावितम् 
खून से सना  
Wet with blood
अन्योन्यम् 
परस्परम्
आपस में
To each other
अनुमतिम् 
आज्ञा 
अनुमति
Permission
शुष्कम् 
नीरसम् 
सूखा
Dry
ध्रुवम् 
निश्चितम् 
निश्चित रूप से
Certainly
कल्याणकाε॰णा
कल्याणेच्छुकेन 
कल्याण चाहने वाले के द्वारा
By well wisher
विषीदति
दुःखम् आप्नोति 
दुखी होता है
Gets agony
जवनिका 
यवनिका 
पर्दा
Curtain
क्षिप्रम् 
द्रुतम् 
शीघ्रता से
Quickly


अभ्यास:

1. एकपदेन उत्तरं लिखत-

(क) मल्लिका पूजार्थं सखीभि: सह कुत्र गच्छति स्म?

(ख) उमाया: पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?

(ग) कुम्भकार: घटान् किमर्थं रचयति?

(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?

(ङ) नन्दिन्या: पादप्रहारै: क: रक्तरञि्'त: अभवत्?

2. पूर्णवाक्येन उत्तरं लिखत-

(क) मल्लिका चन्दन श््च मासपर्यन्तं धेनो: कथम् अकुरुताम्?

(ख) काल: कस्य रसं पिबति?

(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकार: किं वदति?

(घ) मल्लिकया किं दृ९ा धेनो: ताडनस्य वास्तविकं कारणं ज्ञातम्?

(ङ) मासपर्यन्तं धेनो: अदोहनस्य किं कारणमासीत्?

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -

(क) मल्लिका सखीभि: सह धर्मयात्रायै गच्छति स्म।

(ख) चन्दन: दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।

(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्?

(घ) मल्लिका स्वपतिं चतुरतमं मन्यते?

(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञि्'तं करोति?

4. मञ्'ूषाया: सहायतया भावार्थे रिक्तस्थानानि पूरयत-

गृहव्यवस्थायै, उत्पादयेत्, समर्थक:, धर्मयात्राया:, मङ्गलकामनाम्, कल्याणकारिण:।।

यदा चन्दन: स्वपत्न्या काशीवि श्वनाथं प्रति ............... विषये जानाति तदा स: क्रोधित: न भवति

यततस्या: पत्नी तं ................कथयित्वा सखीभि: सह भ्रमणाय गच्छति अपि तु तस्या: यात्राया:

कृते ................ कुर्वन् कथयति यत् तव मार्गा: शिवा: अर्थात् ...............वन्तु। मार्गे काचिदपि

बाधा: तव कृते समस्यां न .................। एतेन सिध्यति यत् चन्दन: नारीस्वतन्त्रताया: ..............

आसीत्।

5. घटनाक्रमानुसारं लिखत -

(क) सा सखीभि: सह तीर्थयात्रायै काशीवि श्वनाथमन्दिरं प्रति गच्छति।

(ख) उभौ नन्दिन्या: सर्वविधपरिचर्यां कुरुत:।

(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

(घ) मल्लिका पूजार्थं मोदकानि रचयति।

(ङ) उत्सवदिने यदा दोग्धुुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

(च) कार्याणि समये करणीयानि इति चन्दन: नन्दिन्या: पादप्रहारेण अवगच्छति।

(छ) चन्दन: उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।

(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।

6. अधोलिखितानि वाक्यानि क: कं प्रति कथयति इति प्रदत्तस्थाने लिखत-

उदाहरणम्- 
क:/का
 कं/काम्
स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।  
मल्लिका  चन्दनं प्रति
(क) धन्यवाद मातुल! याम्यधुना।  
....................  ......................
(ख) त्रिसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति।
 ......................  ......................
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते।
 ......................  ......................
(घ) पुत्रिके! नाहं पापकर्म करोमि।
 ......................  ......................
(ङ) देवि! मयापि ज्ञातं यदस्माभि: सर्वथानुचितं कृतम्।
 ......................  ......................

7. पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत -

(क) शिवास्ते = ......................+......................

(ख) मन: हर: = ......................+......................

(ग) सप्ताहान्ते = ......................+......................

(घ) नेच्छामि = ......................+......................

(ङ) अत्युत्तम: = ......................+......................

() पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत-

(क) करणीयम् = ......................+......................

(ख) वि+क्री+ल्यप् = ...........................................

(ग) पठितम् = ......................+......................

(घ) ताडय्+क्त्वा = ............................................

(ङ) दोग्धुम् = ......................+......................

योग्यताविस्तार:

गोदोहनम्‘ एकांकी में एक एेसे व्यक्ति का कथानक है जो धनवान् और सुखी बनने की इच्छा से अपनी गाय से एक महीने तक दूध निकालना बन्द कर देता है, ताकि महीने भर के दूध को एक साथ निकालकर बेचकर धनवान् बन सके। इस प्रकार एक मास प श््चात् जब वह गाय को दुहने का प्रयास करता है तब अत्यधिक दूध का तो कहना ही क्या, उसे दूध की एक बूँद भी नहीं मिलती, अपितु दूध के स्थान पर उसे मिलते हैं गाय के पैरों से प्रहार जिससे आहत और रक्तरञि्'त होने पर वह ज़मीन पर गिर पड़ता है। इस घटना से वहाँ उपस्थित सभी यह समझ जाते हैं कि यथासमय किया हुआ कार्य ही फलदायी होता है।

भाव-विस्तार:

उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्।

पश्यतो बकमूर्खस्य नकुलेन हता: बका:।।

बुद्धिमान व्यक्ति उपाय पर विचार करते हुए अपाय अर्थात् उपाय से होने वाली हानि के विषय में भी सोचे हानिरहित उपाय ही कार्य सिद्ध करता है। अपाय युक्त उपाय नहीं जैसे कि अपने बच्चाें को साँप द्वारा खाए जाते हुए देखकर एक बगुले ने नेवले का प्रबन्ध साँप को खाने के लिए किया जो कि साँप को खाने के साथ-साथ सभी बगुलों को भी बच्चों सहित खा गया। अत: एेसा उपाय सदैव हानिकारक होता है, जिसके अपाय पर विचार न किया जाए।

"अविवेक: परमापदां पदम्"

गोदोहनम् - एकाङ्की पढ़ाते समय आधुनिक परिवेश से जोड़ें तथा छात्रों को समझाएँ कि कोई भी कार्य यदि नियत समय पर न करके कई दिनों के प श््चात् एक साथ करने के लिए संगृहीत किया  जाता रहता है तो उससे होने वाला लाभ-हानि में परिवर्तित हो सकता है।

अत: हमें सदैव अपने सभी कार्य यथासमय करने के लिए प्रयत्नशील रहना चाहिए। पाठ की कथा नाटकीयता के साथ ही छात्रों को यह भी बताएँ कि इस नाटक से तात्कालिक समाज का परिचय भी मिलता है कि घर की व्यवस्था स्त्री-पुरुष मिलकर ही करते थे तथा स्त्री को स्वतन्त्र निर्णय लेने का भी पूर्ण अधिकार प्राप्त था।