KshitijBhag1-001

चतुर्थ: पाठ:

कल्पतरु:

प्रस्तुतोऽयं पाठ: "वेतालपञ्चविंशति:" इति प्रसिद्धकथासङ्ग्रहात् सम्पादनं कृत्वा संगृहीतोऽस्ति। अत्र मनोरञ्जकघटनाभि: विस्मयकारिघटनाभिश्च जीवनमूल्यानां निरूपणं वर्तते। अस्यां कथायां पूर्वकालत: एव स्वगृहोद्याने स्थितकल्पवृक्षेण जीमूतवाहन: लौकिकपदार्थान् न याचते। अपितु स: सांसारिकप्राणिनां दु:खानि अपाकरणाय वरं याचते। यतो हि लोकभोग्या: भौतिकपदार्था: जलतरङ्गवद् अनित्या: सन्ति। अस्मिन् संसारे केवलं परोपकार: एव सर्वोत्कृष्टं चिरस्थायि तत्त्वम् अस्ति।

अस्ति हिमवान् नाम सर्वरत्नभूमि: नगेन्द्र:। तस्य सानो: उपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतु: इति श्रीमान् विद्याधरपति: वसति स्म। तस्य गृहोद्याने कुलक्रमागत: कल्पतरु: स्थित:। स राजा जीमूतकेतु: तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्। स: जीमूतवाहन: महान् दानवीर: सर्वभूतानुकम्पी च अभवत्। तस्य गुणै: प्रसन्न: स्वसचिवैश्च प्रेरित: राजा कालेन सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्। कदाचित् हितैषिण: पितृमन्त्रिण: यौवराज्ये स्थितं तं जीमूतवाहनं उक्तवन्त:- "युवराज! योऽयं सर्वकामद: कल्पतरु: तवोद्याने तिष्ठति स तव सदा पूज्य:। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्" इति।

एतत् आकर्ण्य जीमूतवाहन: अचिन्तयत् - "अहो ईदृशम् अमरपादपं प्राप्यापि पूर्वै: पुरुषै: अस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणै: कश्चिदपि अर्थ: अर्थित:। तदहम् अस्मात् कल्पतरो: अभीष्टं साधयामि" इति। एवम् आलोच्य स: पितु: अन्तिकम् आगच्छत्। आगत्य च सुखमासीनं पितरम् एकान्ते न्यवेदयत्- "तात! त्वं तु जानासि एव यदस्मिन् संसारसागरे आशरीरम् इदं सर्वं धनं वीचिवत् चञ्चलम्। एक: परोपकार एव अस्मिन् संसारे अनश्वर: यो युगान्तपर्यन्तं यश: प्रसूते। तद् अस्माभि: ईदृश: कल्पतरु: किमर्थं रक्ष्यते? यैश्च पूर्वैरयं ‘मम मम’ इति आग्रहेण रक्षित:, ते इदानीं कुत्र गता:? तेषां कस्यायम्? अस्य वा के ते? तस्मात् परोपकारैकफलसिद्धये त्वदाज्ञया इमं कल्पपादपम् आराधयामि।

अथ पित्रा ‘तथा’ इति अभ्यनुज्ञात: स जीमूतवाहन: कल्पतरुम् उपगम्य उवाच - "देव! त्वया अस्मत्पूर्वेषाम् अभीष्टा: कामा: पूरिता:, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव’’ इति। एवंवादिनि जीमूतवाहने ‘‘त्यक्तस्त्वया एषोऽहं यातोऽस्मि" इति वाक् तस्मात् तरो: उदभूत्।

SS1(M).tif

क्षणेन च स कल्पतरु: दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यश: प्रथितम्।

शब्दार्था:

 हिमवान् हिमालयः  हिमालय The Himalaya
नगेन्द्रः  पर्वतराजः पर्वतों का राजा King of mountains
सानोः  शिखरस्य  शिखर के, चोटी के Of the mountain peak
कुलक्रमागतः  कुलक्रमाद् आगतः कुलपरम्परया सम्प्राप्तः कुल-परम्परा से प्राप्त हुआ Inherited
यौवराज्ये   युवराजपदे  युवराज के पद पर Won the post of the crown prince
शक्रः  इन्द्रः इन्द्र Indra
अर्थितः  याचितः  माँगा Begged
अन्तिकम्  समीपम्  पास में Near
वीचिवत्  तरङ्गवत्  तरङ्ग की तरह Like a tide
अभ्यनुज्ञातः  अनुमतः  अनुमति पाया हुआ Permitted
अदरिद्राम्  दरिद्रहीनाम्  दरिद्रता से रहित अर्थात् सम्पन्न Without poverty (f)
 दिवम्  स्वर्गम्  स्वर्ग To the heaven
वसूनि  धनानि  धन Money
उपगम्य  समीपं गत्वा पास में जाकर Going near
दुर्गतः  दुर्गतिम् आपन्नः  पीड़ित, निर्धन Caught by misfor- tune
सर्वजीवानुकम्पया सर्वजीवेभ्यः कृपया सभी जीवों के प्रति कृपा से By kindness to All beings
प्रथितम्  प्रसिद्धम्  प्रसिद्ध हो गया Became famous

अभ्यास:

1. एकपदेन उत्तरं लिखत-

(क) जीमूतवाहन: कस्य पुत्र: अस्ति?

(ख) संसारेऽस्मिन् क: अनश्वर: भवति?

(ग) जीमूतवाहन: परोपकारैकफलसिद्धये कम् आराधयति?

(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?

(ङ) कल्पतरु: भुवि कानि अवर्षत्?

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?

(ख) जीमूतवाहन: कीदृश: आसीत्?

(ग) कल्पतरो: वैशिष्ट्यमाकर्ण्य जीमूतवाहन: किम् अचिन्तयत्?

(घ) हितैषिण: मन्त्रिण: जीमूतवाहनं किम् उक्तवन्त:?

(ङ) जीमूतवाहन: कल्पतरुम् उपगम्य किम् उवाच?

3. अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।

(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

(ग) अयं तव सदा पूज्य:।

(घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।

4. अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत -

(क) पर्वत: - .......................... (ख) भूपति: - ........................

(ग) इन्द्र: - .......................... (घ) धनम् - ........................

(ङ) इच्छितम् - .......................... (च) समीपम् - ........................

(छ) धरित्रीम् - .......................... (ज) कल्याणम् - ........................

(झ) वाणी - .......................... (ञ) वृक्ष: - ........................

5. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत-

‘क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागत:  परोपकार:
दानवीर:  मन्त्रिभि:
हितैषिभि:
जीमूतवाहन:
वीचिवच्चञ्चलम्  कल्पतरु:
अनश्वर:
धनम्

6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) तरो: कृपया स: पुत्रम् अप्राप्नोत्।

(ख) स: कल्पतरवे न्यवेदयत्।

(ग) धनवृष्ट्या कोऽपि दरिद्र: नातिष्ठत्।

(घ) कल्पतरु: पृथिव्यां धनानि अवर्षत्।

(ङ) जीवानुकम्पया जीमूतवाहनस्य यश: प्रासरत्।

7. (क) "स्वस्ति तुभ्यम्" स्वस्ति शब्दस्य योगे चतुर्थी विभक्ति: भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्ति: प्रयुक्ता। एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(क) स्वस्ति .......................... (राजा)

(ख) स्वस्ति .......................... (प्रजा)

(ग) स्वस्ति .......................... (छात्र)

(घ) स्वस्ति .......................... (सर्वजन)

(ख) कोष्ठकगतेषु पदेषु षष्ठीं विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(क) तस्य .......................... उद्याने कल्पतरु: आसीत्। (गृह)

(ख) स: .......................... अन्तिकम् अगच्छत्। (पितृ)

(ग) .......................... सर्वत्र यश: प्रथितम् (जीमूतवाहन)

(घ) अयं .......................... तरु:? (किम्)

योग्यताविस्तार:

यह पा‘वेतालपञ्चविंशति:’ नामक कथा संग्रह से लिया गया है, जिसमें मनोरञ्जक एवम् आश्चर्यजनक घटनाओं के माध्यम से जीवनमूल्यों का निरूपण किया गया है। इस कथा में जीमूतवाहन अपने पूर्वजों के काल से गृहोद्यान में आरोपित कल्पवृक्ष से सांसारिक द्रव्यों को न माँगकर संसार के प्राणियों के दु:खों को दूर करने का वरदान माँगता है क्योंकि, धन तो पानी की लहर के समान चंचल है, केवल परोपकार ही इस संसार का सर्वोत्कृष्ट तथा चिरस्थायी तत्त्व है।

(क) ग्रन्थ परिचय - "वेतालपञ्चविंशतिका" पच्चीस कथाओं का संग्रह है। इस नाम की दो रचनाएँ पाई जाती हैं। एक शिवदास (13वीं शताब्दी) द्वारा लिखित ग्रन्थ है, जिसमें गद्य और पद्य दोनों विधाओं का प्रयोग किया गया है। दूसरी जम्भलदत्त की रचना है जो केवल गद्यमयी है। इस कथा में कहा गया है कि राजा विक्रम को प्रतिवर्ष कोई तांत्रिक सोने का एक फल देता है। उसी तांत्रिक के कहने पर राजा विक्रम श्मशान से शव लाता है। जिस पर सवार होकर एक वेताल मार्ग में राजा के मनोरञ्जन के लिए कथा सुनाता है। कथा सुनते समय राजा को मौन रहने का निर्देश देता है। कहानी के अन्त में वेताल राजा से कहानी पर आधारित एक प्रश्न पूछता है। राजा उसका सही उत्तर देता है। शर्त के अनुसार वेताल पुन: श्मशान पहुँच जाता है। इस तरह पच्चीस बार एेसी ही घटनाओं की आवृत्ति होती है और वेताल राजा को एक-एक करके पच्चीस कथाएँ सुनाता है। ये कथाएँ अत्यन्त रोचक, भावप्रधान और विवेक की परीक्षा लेने वाली हैं।

(ख) क्त क्तवतु प्रयोग:-

क्त - इस प्रत्यय का प्रयोग सामान्यत: कर्मवाच्य में होता है।

क्तवतु - इस प्रत्यय का प्रयोग कर्तृवाच्य में होता है।

क्त प्रत्यय:-

जीमूतवाहन: हितैषिभि: मन्त्रिभि: उक्त:

कृपणै: कश्चिदपि अर्थ: अर्थित:

त्वया अस्मत्कामा: पूरिता:

तस्य यश: प्रथितम् (कर्तृवाच्य में क्त)

क्तवतु प्रत्यय:-

सा पुत्रं यौवराज्यपदेऽभिषिक्तवान््।

एतदाकर्ण्य जीमूतवाहन: चिन्तितवान्

स सुखासीनं पितरं निवेदितवान्

जीमूतवाहन: कल्पतरुम् उक्तवान्

(ग) लोककल्याण-कामना-विषयक कतिपय श्लोक-

सर्वे भवन्तु सुखिन:, सर्वे सन्तु निरामया:।

सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दु:खभाग्भवेत्।

सर्वस्तरतु दुर्गाणि, सर्वो भद्राणि पश्यतु।

सर्व: कामानवाप्नोतु, सर्व: सर्वत्र नन्दतु।।

त्वहं कामये राज्यं न स्वर्गं न पुनर्भवम्।

कामये दु:खतप्तानां प्राणिनामार्तिनाशनम्।।

अध्येतव्य: ग्रन्थ:

वेतालपञ्चविंशतिकथा, अनुवादक, दामोदर झा, चौखम्भा विद्याभवन, वाराणसी, 1968


405.png