चतुर्थः पाठः

Screenshot 2026-04-28 103039

न खलु वयस्तेजसो हेतुः

भारतदेशस्य स्वतन्त्रतायाः अमृतमहोत्सववर्ष वयम् आचरितवन्तः । किं वयं जानीमः यत् देशाय स्वातन्त्र्यं प्रदातुं कियन्तः ज्ञाताः अज्ञाताः च क्रान्तिवीराः स्वतन्त्रतायज्ञे स्वीयपरिवारं स्वीयजीवनं च आहुतिरूपेण समर्पितवन्तः इति ? छात्राः ! ते सर्वेऽपि क्रान्तिवीराः अस्माभिः कृतज्ञताभावनया नित्यं वन्दनीयाः । खुदीरामः तेषु एव देशभक्तेषु कश्चन तेजस्वी बालक्रान्तिवीरः हुतात्मा अस्ति। क्रान्तिवीरस्य खुदीरामस्य जीवनवृत्तान्तः संक्षेपेण अत्र वर्णितः अस्ति ।

Screenshot 2026-04-28 103500

भारतस्य स्वतन्त्रतासङ्ग्रामे सशस्त्रान्दोलने बङ्गप्रान्तः अग्रेसरः आसीत् । तस्मिन् बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी-ग्रामे नवाशीत्यधिक-अष्टादशशततमे वर्षे (१८८९) दिसम्बरमासस्य तृतीये दिनाङ्के खुदीरामस्य जन्म अभवत्। तस्य जनकस्य नाम त्रैलोक्यनाथः इति, जनन्याः नाम लक्ष्मीप्रिया देवी च आसीत्। खुदीरामस्य बाल्यकाले एव तस्य पितरौ दिवङ्गतौ। अतः तस्य अग्रजया अपरूपादेव्या एव खुदीरामस्य पालनं पोषणं च कृतम्। बाल्यकालतः एव खुदीरामः असाधारणः आसीत्। साधारणबालानाम्इ व क्रीडादिषु तस्य मनः न रमते स्म। सः देशवासिषु जायमानान् अत्याचारान् दृष्ट्वा व्यथितः भवति स्म ।

Screenshot 2026-04-28 103546

बङ्गप्रान्ते क्रान्तिवीराणां महद्भिः गुप्तगतिविधिभिः आङ्ग्लाः संत्रस्ताः आसन् । भारतस्य तात्कालिकः वायसरायः कर्जनः बङ्गप्रान्तस्य एतत् वीरत्वं दमयितुम्, उत्साहं ध्वंसयितुं, देशभक्तिं मर्दयितुं च बङ्गप्रान्तस्य पन्थाधारितं विभजनं करणीयम् इति निश्चितवान्। पञ्चाधिक- नवदशशततमे वर्षे (१९०५) तेन बङ्गप्रान्तः भागद्वये विभाजितः । तस्य एतया कृत्या न केवलं बङ्गप्रान्ते अपि तु सर्वस्मिन् देशे जनान्दोलनं प्रवृत्तम्। बङ्गभङ्ग- आन्दोलनमिति तस्य जनान्दोलनस्य नाम। यद्यपि खुदीरामः तस्मिन् समये केवलं पञ्चदशवर्षीयः तथापि देशभक्तेः भावनया सः प्रेरितः सन् जनान्दोलने कूर्दितः । आङ्ग्लानां पारतन्त्र्यशृङ्खलातः वन्दनीयभारतमातुः मोचनं करणीयम् इत्येव

Screenshot 2026-04-28 103642

सङ्कल्पः आसीत्। अतः सः नवमीं कक्षाम् अपि पूर्णां कर्तुं न शक्तवान् । यतोहि देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति । बालानां संघटनं कृत्वा सः पदयात्राम् आयोजयति स्म। तस्यां यात्रायां देशभक्तियुतानि गीतानि, वन्दे मातरम् चेत्यादयः घोषणाः भवन्ति स्म। सः पदयात्रामाध्यमेन लोकजागरणविषयकाणि पत्रकाणि जनेषु वितरति स्म। कदाचित् खुदीरामः पत्रकवितरणसमये आङ्ग्लानां हस्तगतः जातः। किन्तु सामर्थ्यसम्पन्नः खुदीरामः आङ्ग्लानां ताडनं कृत्वा ततः निरगच्छत् । बङ्गप्रान्ते क्रान्तिवीरैः सञ्चालितानि बहूनि गुप्तमण्डलानि आङ्ग्लानां मनसि आतङ्क जनयन्ति स्म। कस्यचित् गुप्तमण्डलस्य सञ्चालकः आसीत् सत्येन्द्रनाथः । खुदीरामः स्वमित्रेण प्रफुल्लेन सह गत्वा सत्येन्द्रनाथेन अमिलत् । सत्येन्द्रनाथः उपादिशत् -“क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं, बुद्धिः असिधारा इव तीक्ष्णा, मनः गङ्गाजलमिव निर्मलं च भवेत् इति"। तस्मात् द्वाभ्याम् गुप्तप्रशिक्षणकेन्द्रात् अष्टमासात्मकं प्रशिक्षणं प्राप्तम्। भुशुण्डिसञ्चालने अपि तौ अचिरादेव प्रवीणौ सञ्जातौ । राणाप्रतापस्य चरित्रेण प्रेरितः खुदीरामः प्रतिज्ञातवान् यत् 'यावत् भारतम् आङ्ग्लशासनात् मुक्तं न भविष्यति तावत् पादत्राणं न धरिष्यामि' इति।

Screenshot 2026-04-28 103949

कलकत्ता-जनपदस्य मुख्यः न्यायिकः आङ्ग्लः अधिकारी 'किङ्ग्ज़फोर्ड्' भारतीय-देशभक्तान् अतीवकठोररीत्या दण्डयति स्म। निर्दयः सः बालान् अपि न त्यजति स्म। तस्य स्थानान्तरणं यदा मुज़फ्फरनगरे जातं तदा 'सः हन्तव्यः' इति सशस्त्रक्रान्तिवीरमण्डलेन निश्चितम्। हत्यायोजनायाः सम्पूर्णम् उत्तरदायित्वं प्रफुल्ल-खुदीरामाभ्यां स्वीकृतम्। तस्य वधस्य सूक्ष्मा योजनापि द्वाभ्यां निर्मिता। अष्टाधिक-नवदशशततमवर्षस्य एप्रिलमासस्य अष्टाविंशे दिना‌ङ्के (२८-०४-१९०८) किङ्ग्ज़फोर्ड् इत्यस्य रथविशेषे प्रफुल्ल-खुदीरामाभ्यां विस्फोटकं प्रक्षिप्तम् । महान् विस्फोटध्वनिः जातः । अग्निज्वालाः आकाशम् अस्पृशन्। 'किङ्ग्ज़फो हतः' अस्माकम् उत्तरदायित्वं पूर्णम् इति कृतार्थभावनया तौ पलायितवन्तौ। किन्तु हा धिक् ! यद्यपि सः किङ्ग्ज़फोर्ड् महोदयस्य रथः आसीत् तथापि तस्मिन् सः नासीदेव। केनेडीनामकस्य अधिकारिणः पत्नी पुत्री च तत्र आस्ताम्। ते मृते किन्तु किङ्ग्ज़फोई रक्षितः। आरात्रि द्वौ अपि क्रान्तिवीरौ अधावताम् । किन्तु दौर्भाग्यवशात् आङ्ग्लाः आरक्षकाः Screenshot 2026-04-28 104824तौ अगृह्णन् । वीरप्रफुल्लेन

आङ्ग्लानां विरोधे कृतः प्रतीकारयत्नः व्यर्थः अभूत्। अनन्यगतिकः प्रफुल्लः भारतमातरं मनसा प्रणम्य 'वन्दे मातरमिति' उद्घोष्य च स्ववक्षःस्थले भुशुण्ड्या गोलिकाप्रहारं कृतवान् । वीरबालः प्रफुल्लः हौतात्म्येन अमरः जातः ।

आङ्ग्लैः गृहीतः खुदीरामः न्यायालयं नीतः । तत्र अधिवक्तॄणां प्रत्येकं प्रश्नस्य खुदीरामस्य निश्चितम् उत्तरम् आसीत् यत् 'वन्दे मातरम्' इति । न्यायाधीशेन निर्दयतया बालाय खुदीरामाय मृत्युदण्डः उद्घोषितः- उद्बन्धनम् इति । राष्ट्रभक्तस्य खुदीरामस्य मुखे भयं दुःखं वा नासीत् प्रत्युत प्रसन्नता, शान्तिः, तृप्तिः, तेजः च आसीत्। तत् दृष्ट्वा न्यायाधीशः आङ्ग्लाः अधिकारिणः चापि चकिताः। अष्टाधिक-नवदशशततमस्य वर्षस्य अगस्तमासस्य एकादशे दिनाङ्के (११-०८-१९०८) बाल्ये वयसि एव देशस्य स्वातन्त्र्यार्थं खुदीरामः हुतात्मा जातः । प्रियभारतमातुः दर्शनार्थं सः हसन्, वन्दे मातरम् इति जपन् आनन्देन दिवं गतः ।

सर्वे शब्देन भाषते

शब्द: अर्थ: हिन्दी English मातृभाषा अर्थ लिखत
अधिवक्तृग्राम् (पुं. व. व.) अभिभाषकाणाम् वकीलों के Of advocates
असामान्यः (नपु. लिङ्ग) न सामान्यः असामान्य Extra Ordinary
आसारितवन्तः पालितवन्तः मनाये Observed
आतङ्कम् भयम् डर Fear
आन्दोलनम् विप्लवः आन्दोलन Revolution
उदनम् दण्डविषयः फांसी Execution
कदाचित् एकदा एक बार Once
चकितः विस्मितः चौंकना Amazed
दिवम् स्वर्गम् स्वर्ग को To heaven
निर्दयः निर्गता दया यस्मात् दया रहित Merciless
प्रतिशोधकालः प्रत्युपकारः प्रतिशोध का प्रयास Attempt at retaliation
शस्त्राणि शस्त्रविषयः बन्दूक Gun
व्यग्रः दुःखितः चिन्तित Worried
विस्फोटकम् युद्धोपकरणविशेषः विस्फोटक सामग्री Explosive
संस्तः भीतः, पीडितः आतंकित Frightened

अभ्यासाद् जायते सिद्धिः

१. अधः प्रदत्तान् प्रश्नान् पूर्णवाक्येन उत्तराणि लिखत —
(क) खुदीरामस्य जन्म कुत्र अभवत्?
(ख) खुदीरामः किमर्थं व्यथितः भवति स्म?
(ग) सत्येन्द्रनाथः किम् उपदिशत्?
(घ) खुदीरामः कदा प्रथमं पराक्रमं दर्शयामास इति प्रतिवदन्ति?
(ङ) किमर्थं न्यायाधीशः किङ्ग्सफोर्डः अधिकारीणां च चिन्तिता:?
२. अधः प्रदत्ते वाक्ये किं वाक्यं सत्यं किं च असत्यं इति सूचयत —
(क) देशभक्तानां जीवने राष्ट्राय समर्पणं भवति। (सत्यम् / असत्यम्)
(ख) निर्दयः किङ्ग्सफोर्डः बालान् अपि दण्डयति स्म। (सत्यम् / असत्यम्)
(ग) खुदीरामस्य आक्रमणे किङ्ग्सफोर्डः मृतः। (सत्यम् / असत्यम्)
(घ) खुदीरामः किङ्ग्सफोर्डस्य रथस्य उपरि विस्फोटकं क्षिप्तवान्। (सत्यम् / असत्यम्)
(ङ) खुदीरामः बालानां सङ्गठनं कृत्वा पथायात्रां आयोजयति स्म। (सत्यम् / असत्यम्)
३. अधः प्रदत्तान् संवत्सराणां शब्दानाम् अङ्कैः सह मेलनं कुर्वन्तु —
(क) सप्तचत्वारिंशदधिक-नवदशशततमं वर्षम् — १९४७
(ख) अष्टाधिक-नवदशशततमं वर्षम् — १९१८
(ग) पञ्चचत्वारिंशदधिक-नवदशशततमं वर्षम् — १९४५
(घ) पञ्चाधिक-नवदशशततमं वर्षम् — १९०५
(ङ) चतुःषष्ट्यधिक-अष्टादशशततमं वर्षम् — १८६४
४. अधः प्रदत्तानि पदानि आधृत्य चित्रं दृष्ट्वा पञ्च वाक्यानि लिखत
Screenshot 2026-04-27 120943
उद्यानं, गृहं, पर्यटनं, पूजाघरं, स्वच्छता, चित्रलेखनं,
पतंगः, वाद्यं, सूर्ये, मेघाः
(क)
(ख)
(ग)
(घ)
(ङ)
५. सन्धिच्छेदं कुरुत —
(क) इत्यादयः
+
(ख) सर्वेऽपि
+
(ग) कश्चित्
+
(घ) प्रत्युत्तम्
+
(ङ) वयस्तेषाम्
+
(च) अभिवादयेत्
+
६. विग्रहवाक्यं दृष्ट्वा पाठ्यपुस्तकात् समस्तपदानि चित्वा पूरयत —
(क) देशस्य भक्ताः
(ख) बालः च क्रान्तिवीरः च
(ग) वज्रस्य सदृशम्
(घ) अस्य धारा
(ङ) मृत्युः एव दण्डः
(च) न साधारणः
(छ) निर्गता दया यस्मात् सः
७. लङ्-लकारः, क्त्वा-प्रत्ययः, तुमुन्-प्रत्ययः — एते सर्वेऽपि भूतकालं सूचयन्ति।
यथा — खुदीरामः हुतात्मा जातः। (लङ्-लकारः)
खुदीरामः हुतात्मा अभवत्।
(क) वन्दे मातरम् इत्यादयः घोषणाः भवन्ति स्म। (लङ्-लकारः)
(ख) सत्येन्द्रनाथः खुदीरामम् उपदिशति। (क्त्वा-प्रत्ययः)
(ग) सः नवमीं कक्षां पूर्णं कृत्वा गृहं गतवान्। (लङ्-लकारः)
(घ) क्रान्तिवीरः आङ्ग्लानां मनसि आतंकम् अजनयत्। (सम्)
(ङ) प्रफुल्लः शुद्धधनुषा गोलीप्रहारं कृतवान्। (लङ्-लकारः)
८. पाठे क्वचित्, कश्चित्, इत्यादि विधिविशेषणपदानि सन्ति। एतानि ‘चित्’ प्रत्यययुक्तानि अव्ययानि भवन्ति।

एतानि पदानि विशेषणानि भवन्ति। ‘चित्’ प्रत्ययस्य योजनेन अर्थः अनिश्चितस्य भावः सूच्यते। यथा —

कदा + चित् कदाचित् कस्मिन् + चित् कस्मिञ्चित्
केन + चित् केनचित् कुत्र + चित् कुत्रचित्
कति + चित् कितिचित् कुतः + चित् कुतश्चित्
कस्य + चित् कस्यचित् का + चित् काचित्
कः + चित् कश्चित् किम् + चित् किञ्चित्
उदाहरणानुसार ‘चित्’ प्रत्यययुक्तपदानि प्रयुज्य रिक्तस्थानं पूर्णवाक्य लिखत —
कश्चित्, काचित्, किञ्चित्, कुत्रचित्, कदाचित्
(क) बालकः गच्छति । कश्चित् बालकः गच्छति।
(ख) बालिका गच्छति ।
(ग) फलम् खादति ।
(घ) लेखनी लुप्ता ।
(ङ) सः आगच्छति ।
स्वाध्यायनाम् प्रमदः
१. अधः प्रदत्तानि युगलपदानि अव्ययानि सन्ति। तेषां प्रयोगः अधः प्रदत्तेषु वाक्येषु प्रदर्शितः। ध्यानेन पठन्तु रिक्तस्थानानि च पूरयन्तु —
यथा — स्वामी विवेकानन्दः उक्तवान् यत् सामर्थ्यमेव जीवनं दुर्बलता मृत्यु: इति।
यदा कृष्णः शाङ्खनादं कृतवान् तदा दुर्योधनादीनां हृदयानि कम्पितानि।
यावत् भूमौ गिरयः भवन्ति तावत् रामायणकथा प्रचलिष्यति।
यद्यपि मेधा: सन्ति तथापि वृत्ति: न भवति।
(क) सुभाषचन्द्रः वदति भवतः महं सिद्धिं यच्छन्तु अहं भवद्भ्यः स्वातन्त्र्यं प्रयच्छामि
(ख) अर्जुनः भीष्मद्रोणादीन् अपश्यत् शोकम् प्राप्नोत्।
(ग) श्रीरामः भरतं उक्तवान् जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
(घ) भरतः अयोध्यां प्राप्तवान् श्रीरामः तत्र नासीत्।
(ङ) खदिरमाय मृत्युदण्डः उद्घोषितः सः प्रसन्नवदनः आसीत्।
(च) वृत्ति: भवति कृपका: सन्तुष्टा: भवन्ति।
(छ) खुदीरामः बालः सः देशकार्यं कृतवान्।
(ज) कार्यं कुर्वन्ति फलं प्राप्नुवन्ति।
(झ) प्रफुल्ल-खुदीरामाभ्यां विस्फोटकं प्रक्षिप्तम् किङ्ग्जफोर्डः न मृतः।
(ञ) अध्ययनं सुदृढं भवति ज्ञानं विकसितं भवति।
(ट) खुदीरामः आईड्लाना हस्तगतः सः ततः बहिर्गतः।
यस्तु क्रियावान् स विद्वान्
१. भगतसिंहः, मदनलालपाण्डे, चन्द्रशेखरः, लक्ष्मीबाई, बालगङ्गाधरतिलकः इत्येतेषां क्रान्तिवीराणां जीवनचरितं संक्षेपतः एकां घटनां कक्षायां वदत।
२. पाठे विद्यमानानि अव्ययपदानि संगृह्य दश (१०) वाक्यानि रचयत।
३. खुदीरामस्य जन्म नवाशीत्यधिके अष्टादशशततमे वर्षे (१८८९) दिसम्बरमासस्य तृतीय दिने अभवत्। एवंप्रकारेण स्वविषये लिखन्तु।
(क) मम जन्म
अभवत्।
(ख) पितुः जन्म
अभवत्।
(ग) मातुः जन्म
अभवत्।
(घ) भ्रातुः जन्म
अभवत्।
(ङ) भगिन्याः जन्म
अभवत्।
४. पारा-ओलिम्पिकस् स्पर्धायां कस्यापि एकस्य यशस्विविभागिनः विषये शिक्षकस्य पुरतः कथा श्रावयत।
५. नृत्य-गीतादिक्षेत्रेषु कस्यापि एकस्य जनप्रियस्य कलाकारस्य विषये पञ्चवाक्यानि लिखित्वा शिक्षकान् दर्शयत् ?