पञ्चमः पाठः

Screenshot 2026-04-28 150319

एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

आधुनिके विज्ञानयुगे यदा मानवजीवनं द्रुतगत्या परिवर्तनशीलम् अस्ति, तदा अत्र कृतकबुद्धिः प्रभावशालि-साधनरूपेण समुपस्थिता वर्तते। अत्र यन्त्राणि मानववत् चिन्तयन्ति, निर्णयं च कुर्वन्ति । अहो ! अवलोकनीयं कृतकबुद्धेः सामर्थ्यं तत्र ।

अस्मिन् पाठे “कृतकबुद्धिः- मानवबुद्धेः सहकरी" इति कश्चित् वार्तालापः प्रस्तुतः अस्ति। यत्र अध्यापकः छात्राः च मिलित्वा कृतकबुद्धेः स्वरूपम्, उपयोगक्षेत्राणि, लाभान् सीमां च अधिकृत्य चर्चा कुर्वन्ति ।

एषः पाठः न केवलं कृतकबुद्धेः विषये सूचनां प्रयच्छति अपि तु विद्यार्थिनां चिन्तन-शक्तिं विवेकं च जागरयति। एषा कृतकबुद्धिः कथं मानवहिताय उपयोगिनी भवेत् इति चिन्तनीयः विषयः।

Screenshot 2026-04-28 151940
(स्थान – विद्यालयकक्षा। अध्यापकः कक्षायां प्रविशति।)
सर्वे छात्राः: शुभप्रातः, गुरुवर्य!
अध्यापकः: शुभप्रातः, प्रियच्छात्राः!
Screenshot 2026-04-28 152015
यशिका: महोदय! अद्य अहम् किंचन चालचित्रं पट्-कार्यानं दृष्टवती। अहम् आश्चर्यचकिता। किम् एतत् संभवम्?
अध्यापकः: अवश्यं यशिके! एतत् कृतकबुद्ध्या संभवति।
कात्यायनी: महोदय! केयं कृतकबुद्धिः, अध वयं अस्याः विषये ज्ञातुम् इच्छामः।
अध्यापकः: अद्यते अयं बहुचर्चितः विषयः अस्ति। भवतु कृतकबुद्धेः विषये कोऽपि जानाति वा?
श्रेयाः: आचार्य! अहं जानामि। यदा यन्त्राणि मनुष्यवत् चिन्तयन्ति, निर्णयं कुर्वन्ति, कार्यं च कुर्वन्ति, तदा तत्र कृतकबुद्धेः उपस्थितिः अस्ति इति जानीमः।
अध्यापकः: सुन्दरम्! यथा चेतनवस्तूनि मानवबुद्धिवत् कार्यं कुर्वन्ति, सा कृतकबुद्धिः इति वैज्ञानिकाः मन्यन्ते।
अर्थवः: आम्, चैट-जीपीटी इति नामकं संवादोपकरणमपि कृतकबुद्ध्या युक्तम् अस्ति।
अध्यापकः: साधु! चैट-जीपीटी, सिरी, एलेक्सा, गूगल मानचित्रं, जेमिनि, मेटा-कृतकबुद्धिः, परलेलक्सिटी चैत्यादयः अनुप्रयुक्ततन्त्रविशेषाः कृतकबुद्धियुक्ताः सन्ति।
यशिका: अहं चैट-जीपीटी इत्यनेन अनेकान् प्रश्नान् यथेष्टं उत्तराणि प्राप्तवती। इदं कृतकबुद्धेः कारणात् एव संभवम्।
अर्थवः: मम माता ‘एलेक्सा’-नामकस्य यन्त्रस्य उपयोगं करोति। एतत् गीतं गायति, विद्युत् ज्वालयति, दैनिकसमाचारं वदति, वातावरणस्थितिं च सूचयति।
पावनी: अहो! मम माता गूगल-सहायकेन सह वार्ता करोति।
अध्यापकः: साधु! एषा काचित् ‘बुद्धिमती’ यन्त्रप्रणाली अस्ति। किं यूयं जानीथ कृतकबुद्धेः कतिपयाः प्रमुखाः प्रकाराः सन्ति?
अर्थवः: के ते प्रकाराः, महोदय!
अध्यापकः: ते सन्ति—
  • सङ्कुचितकृतकबुद्धिः — जीपीटी, गूगल-मानचित्रं, यूट्यूब।
  • सामान्यकृतकबुद्धिः — मानवसमान बुद्धिमत्ता (एतत् लक्ष्यं भवति)।
  • अतुल्यकृतकबुद्धिः — मानवात् अपि अधिका बुद्धिमत्ता — एषा काल्पनिकाऽस्ति।
वेदः: किन्तु आचार्य! अस्माकं बुद्धिस्तु ईश्वरैण मस्तिष्के स्थापिता अस्ति, कथम् एषा बुद्धिः यन्त्रे स्थाप्यते?
अध्यापकः: उत्तमः प्रश्नः! प्रौद्योगिकीविशारदाः यन्त्राधिगमम्, गहनाधिगमम् चेति विधिना एतानि यन्त्राणि प्रशिक्षयन्ति, अनुप्रयोगाय च सज्जीकुर्वन्ति।
आर्यः: यन्त्राणामपि पाठशाला अस्ति वा?
(सर्वे हसन्ति)
अध्यापकः: अस्याः यन्त्रपाठशालायाः नाम “डेटासेट्” इति। कृतकबुद्धियुक्तानि यन्त्राणि दत्तांशमाध्यमेन शिक्षां कुर्वन्ति।
यशिका: किन्तु आचार्य! यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः अपि त्रुटिं करोति?
अध्यापकः: आम्। यदा प्रशिक्षणदत्तांशः पक्षपातयुक्तः भवति, तदा निष्कर्षः अपि पक्षपातयुक्तः भवति। एषः दोषः “पूर्वग्रहः” इति कथ्यते। कृतकबुद्धिः अधुना विकासपथे अस्ति। सदैव मानवीयपरिचर्चा-विवेकः सह त्रुटिरहितरूपेण ग्राह्यते।
श्रेयाः: गुरुवर! एषा बुद्धिः केषु स्थलेषु उपयुज्यते?
अध्यापकः: श्रेष्ठः तव प्रश्नः अतीव महत्त्वपूर्णः। शिक्षायां, चिकित्सायां, कृषिक्षेत्रे, न्यायालये, सञ्चारे, वित्ते, कलासङ्गीतक्षेत्रे, मनोरञ्जनादिषु क्षेत्रेषु च कृतकबुद्धिः व्यापकं उपयुज्यते।
अर्थवः: महोदय! कृतकबुद्धिः कथं शिक्षायां साहाय्यं करोति? किं शिक्षकस्य स्थाने कृतकबुद्धिः अस्मान् पाठयिष्यति? एतत् कथं संभवति?
अध्यापकः: दीक्षा, स्वयं, सर्वेषां कृते कृतकबुद्धिः — पी.एम.-ईविद्या, संशय-निवारणार्थं चैटबोट्, भाषानुवादोपकरणानि च यन्त्रतया प्रयुज्यन्ते। एतानि कृतकबुद्ध्याधारितानि उपकरणानि सन्ति। एतेषां साहाय्येन छात्राः शिक्षकाश्रयेण अनुपस्थितौ अपि स्वयं अध्ययनं कर्तुं शक्नुवन्ति।
आकाशः: हा शिक्ष! एतेषां कारणेन मानवशिक्षकः किं प्रयोजनहीनः भविष्यति?
अध्यापकः: न न! कृतकबुद्धिः गुरुविमुखा अस्ति, गुरुविकल्पः नास्ति। शिक्षकाणां सान्निध्ये छात्रेषु व्यक्तित्वविकासः भवति। शिक्षकाः पुस्तकज्ञानं सह छात्रेषु मानवीयमूल्यबोधम् अपि जनयन्ति। ते अनुशासनं, परोपकारं, करुणां, तथा व्यवहारज्ञानं च शिक्षयन्ति। सदा स्मरणीयं यत् कृतकबुद्धिः उपकरणम् अस्ति, प्रेरणा तु मानवेषु एव आगच्छति।
वेदः: अहं किञ्चित् चलचित्रं दृष्टवान् यत् यन्त्राणि मानवेषु संसर्गम् अधिगृह्णन्ति इति।
यशिका: अपि च, आचार्य! किं कृतकबुद्धिः मानवस्य स्थानं हर्तुं शक्नोति?
अध्यापकः: एषा चिन्ता समाजे प्रायः जायमाना अस्ति, किन्तु अत्र बोध्यं यत् कृतकबुद्धिः सहायिका अस्ति, मनुष्यस्य प्रतिस्पर्धिनी न।
आर्यः: महोदय! किं कृतकबुद्धिः चिकित्सायाम् अपि प्रयुज्यते?
अध्यापकः: आम्! रोबोटिक-शल्यचिकित्सा, रोग-पूर्वानुमानः, कृत्रिम-रक्तपरीक्षणविद्या, चैट-कृतकबुद्धिः, औषधशोधन-प्रक्रियादिषु च तदाधारितानि चिकित्सोपकरणानि सन्ति।
अक्षत: किं कृषिक्षेत्रे अपि प्रयुज्यते?
अध्यापकः: नूनम्! कृषिक्षेत्रे अपि ड्रोनमाध्यमेन बीज-वपनम्, कीटनिरीक्षणम्, भूमिक्षमता-विश्लेषणम्, परीक्षणम् अपि यन्त्रैः भवति।
अथर्वः: गुरुदेव! अपराधनिवारणाय कृतकबुद्धिः कथं साहाय्यं करोति?
अध्यापकः: मुखपरिचय-प्रणाली, पूर्वानुमेय-निगराणी, चेतावनी-प्रणाल्यः इत्यादिषु योजनासु कृतकबुद्धेः प्रयोगः अस्ति।
यशिका: किं कृतकबुद्धिः काव्यम् अपि रचयितुं समर्था?
अध्यापकः: अत्र भवतः किं चिन्तयन्ति?
वेदः: अहं चैट-जीपीटी इत्यस्मात् एतं श्लोकं प्राप्तवान्—
विद्युत्सूत्रया यन्त्राणि नित्यं वदन्ति चेतनाः।
अहो रात्रं च विश्रान्ताः मानवाः धारयन्ति ते॥
(सर्वे सोल्लासं पठन्ति, आश्चर्यं च कुर्वन्ति)
पावनी: किन्तु श्रीमन्, कृतकबुद्धेः सकाशात् समाजे महत् भयम् अपि अस्ति।
अध्यापकः: सत्यं, भयस्य कारणम् अपि यथार्थम् अस्ति। अधुना कृतकबुद्धेः दुरुपयोगेन हि विभिन्नप्रकाराः साइबर-अपराधाः समाजे देशेषु च चलन्ति। किं भवन्तः ‘डीप-फेक्’ इति समस्याविषये जानन्ति?
आकाशः: गुरुवर! तत् ‘डीप-फेक्’ इति किमस्ति?
अध्यापकः: डीप-फेक् कृतकबुद्ध्या निर्मितं मिथ्याचित्रं, दृश्यं, ध्वनिः वा अस्ति। मिथ्यादृश्ये यत्र मुखं वाणी च मिथ्या प्रस्तुत्यते—उपहासाय, अनैतिककार्याय च अपि।
अथर्वः: अस्य निराकरणार्थम् उपायः कः?
अध्यापकः: अस्माकं कृतकबुद्धि-साक्षरता, नैतिकतापूर्णं प्रशिक्षणम्, सर्वेक्षण-नियन्त्रणम्, आत्मनियन्त्रणं चेति विविधाः उपायाः अस्माभिः करणीयाः।
भास्करः: अहो! “कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी” इति वाक्यं मम मनः स्पृशति।
वेदः: तथापि यदि कृतकबुद्धिः मनुष्याणां स्ववशात् निष्कास्यते तर्हि कः तत्र रक्षणोपायः?
अध्यापकः: तथाविधे संकटे नापेक्षते इति भारतसरकारेण ‘स्किल-इण्डिया’, ‘डिजिटल-इण्डिया’, ‘ई-स्किल-इण्डिया’ इत्यादयः अनेकाः योजनाः सञ्चालिताः। एताभिः योजनाभिः प्रशिक्षिताः युवानः सुरक्षितं भविष्यं निर्मातुं शक्नुवन्ति।
नवीनवृत्तिः प्राप्तुम् अर्हति। वस्तुतः कृतकबुद्धिः स्वतः कस्यापि वृत्तिं न हरति। अपि तु कृतकबुद्धिप्रशिक्षितः जनः कदाचित् अप्रशिक्षितस्य जनस्य पारम्परिकवृत्तिं हरति।
यशिका: गुरुवर! कृतकबुद्धिद्वारा भविष्ये मानवजीवनं कीदृशं भविष्यति?
अध्यापकः: यदि विवेकपूर्वकं प्रयुज्यते, तर्हि जीवनम् अधिकं सुगमं, सुरक्षितं, श्रेयस्करं च भविष्यति।
श्रेयाः: कृतकबुद्धिः एव मानवीयबुद्धेः कार्यक्षमतां च द्विगुणितां करिष्यति इति मम मतम्। भारतीय-कृतकबुद्धिशिखर-सम्मेलनम् – २०२६ (India AI Impact Summit – 2026) इत्यत्र अपि उक्तम्।
अध्यापकः: उत्तमं कथनम्! “कृतकबुद्धिः मानवबुद्धेः सहकरी” — इति वाक्यम् अस्माकं मनसि स्पष्टं स्यात्।
सर्वे: आम्! वयं जागरूकाः नागरिकाः भवाम, सुरक्षितं जालप्रवेशं कुर्याम, अपि च डिजिटल-भारतं समृद्धं कुर्म।

सर्वे शब्देन भाषन्ते

शब्दः अर्थः हिन्दी English मातृभाषया अर्थ लिखत
अध्येयम् (अधि + √इ + तुमुन्) अध्ययन कर्तुम् अध्ययन करने के लिए For Studying
अधिगृह्णाति (अधि + √ग्रह्) स्वीकारोति अधिग्रहण करते हैं Acquire
अपराधनिवारणाय अपराधस्य शमनाय अपराध की रोकथाम के लिए Reducing crime
अर्हन्ति शक्नुवन्ति योग्य होते हैं Deserve
कृतकबुद्धिः कृत्रिमा बुद्धिः मनुष्य-बुद्धि जैसे यन्त्र का चिन्तन-कोशल Artificial Intelligence
चिकित्सायाम् रोगोपचारस्य क्षेत्रे चिकित्सा में In medicine
डीप-फेक गहनाधिष्ठितचित्रं कृतकबुद्ध्या निर्मितम् कृत्रिम बुद्धि द्वारा निर्मित मिथ्याचित्र AI-generated fake media
तन्त्रांशः संगणक-तन्त्रः सॉफ्टवेयर Software
दत्तांशः पूर्वदत्तं ज्ञानम् डेटा, आँकड़े Data
नैतिकता सदाचारः नैतिक मूल्य Ethics
परीक्षणम् समीक्षणम् जाँच पड़ताल करना Examination
पूर्वग्रहः पूर्व स्थापित पक्षपातयुक्त मतम् पूर्वाग्रह Bias
प्रशिक्षयन्ति शिक्षयन्ति, अभ्यासं कारयन्ति प्रशिक्षण देते हैं They coach
प्रतिस्पर्धिनी स्पर्धायुक्ता प्रतियोगी Competitor
प्रौद्योगिकीविशारदाः प्रौद्योगिकीशास्त्रे कुशलाः जनाः तकनीकी विशेषज्ञ Technology Experts
रश्मिपरीक्षणविद्या रश्मिपरीक्षणस्य विद्या किरण विज्ञान चिकित्सा Radiology
वाञ्छामः इच्छामः हम इच्छा करते हैं We wish
वित्ते अर्थव्यवस्थायाम् वित्त क्षेत्र में In finance
संवादोपकरणम् संवादसाधनम् वार्तालाप करने का साधन Communication tool
सहकरी सहयोगिनी सहयोगी Helper

तन्त्रांशाः/अनुप्रयोगाः

सिरी Siri
जेमिनि Gemini
मेटा-कृतकबुद्धिः Meta AI
परप्लेक्सिटी-कृतकबुद्धिः Perplexity AI
पटु-कारयानम् Smart Car
गूगल-सहायकम् Google Assistant
सङ्कुचितकृतकबुद्धिः Narrow AI
सामान्यकृतकबुद्धिः General AI
अतुल्यकृतकबुद्धिः Super AI
यन्त्राधिगमः Machine Learning
गहनाधिगमः Deep Learning
स्वयम् SWAYAM
सर्वेषां कृते कृतकबुद्धिः AI for All
पी.एम. ई-विद्या PM e-Vidya
मुखपरिचयप्रणाली Facial Recognition System
दीक्षा DIKSHA

अत्र इदं अवधेयम्

१. पञ्चमी विभक्तिः (अपादानकारकम्)

उपयोगः — ‘कस्मात्?’ इत्यस्य उत्तररूपेण उपयुज्यते। वियोगं, कारणम्, अपसरणं च सूचयति।

प्रयोगविधानम्

(क) कारणबोधकः — मृगः बिडालत् विभेति।
(ख) वियोगबोधकः — छात्रः विद्यालयात् आगतः।
(ग) अपसरणबोधकः — दुर्जनः मूर्खतया धर्मात् भ्रष्टः।
२. षष्ठी विभक्तिः (सम्बन्धः)

उपयोगः — ‘कस्य?’ इत्यस्य उत्तररूपेण प्रयुज्यते। सम्बन्धं, स्वामित्वम्, अंशं विषयं च दर्शयति।

प्रयोगविधानम्

(क) सम्बन्धबोधकः — मम मित्रम्।
(ख) स्वामित्वबोधकः — बालकस्य पुस्तकम्।
(ग) अंशबोधकः — शरीरस्य उर्ध्वभागः हृदयम् अस्ति।
(घ) विषयबोधकः — फलस्य स्वादः रुचिकरः।
३. सप्तमी विभक्तिः (अधिकरणकारकम्)

उपयोगः — ‘कस्मिन्?’ इत्यस्य उत्तररूपेण प्रयुज्यते। स्थानं, कालं, आधारं च बोधयति।

प्रयोगविधानम्

(क) स्थानबोधकः — विद्यालये पठति।
(ख) कालबोधकः — प्रभाते सूर्यः उदेति।
(ग) आधारबोधकः — भूमौ पादाः रोहन्ति।

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानां उत्तराणि पूर्णवाक्येन लिखत

  • (क) कृतकबुद्धिः का अस्ति?
  • (ख) अध्यापकः कृतकबुद्धेः कति उदाहरणानि उक्तवान्?
  • (ग) यन्त्राणि कथं शिक्षन्ते?
  • (घ) ‘डेटासेट्’ कस्य पाठशाला अस्ति?
  • (ङ) कृतकबुद्धिः कुत्र प्रयुज्यते?
  • (च) शिक्षायां कृतकबुद्धेः उपयोगः कथं भवति?
  • (छ) यदि अशुद्धदत्तांशः दीयते तर्हि किम् भवति?
  • (ज) कृतकबुद्धेः उपयोगे किम् नियमः अस्ति?
  • (झ) ‘कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी’ इति वाक्यस्य कः अर्थः?

२. मेलं कुर्वन्तु — तन्त्रांशानां कार्याणि विचिन्वन्तु

स्तम्भः अ स्तम्भः ब
(क) चैट-जीपीटी (Chat-GPT) १. नैतिकतया शिक्षा करोति
(ख) डीप-फेक (Deepfake) २. ए.आई. आधारित-शिक्षाप्रणाली
(ग) शिक्षकः ३. पठनलेखनं करोति
(घ) एलेक्सा (Alexa) ४. संवादोपकरणम्
(ङ) डेटासेट (Dataset) ५. पक्षपातयुक्त प्रशिक्षणम्
(च) दीक्षा (DIKSHA) ६. गीतं गायति, दीपं प्रज्वालयति च
(छ) अपराधपूर्व-निगराणी (Predictive Policing) ७. मिथ्याचित्रस्य निर्माणम्
(ज) गूगल मानचित्रं (Google Maps) ८. दिशानिर्देशनम् ए.आई. अनुप्रयोगः
(झ) पूर्वग्रहः ९. यन्त्रपाठशालायाः नाम
(ञ) डैल-ई (DALL·E) १०. अपराधनिवारण प्रयोगः

एषा तु कृतकबुद्धिः मानवबुद्धेः सहकरी।

३. अधः प्रदत्तमञ्जूषात् शब्दान् विचिन्वन्तु रिक्तस्थानानि पूरयन्तु —

कृतकबुद्धिः, डेटासेट्, शिक्षकः, डीप-फेक, संवादोपकरणम्, कृषिक्षेत्रे, प्रशिक्षणम्, पूर्वग्रहः, नैतिकता

(क) यन्त्राणि शिक्षणाय नामकं दत्तांशसमूहः उपयुज्यते।

(ख) चैट-जीपीटी, एलेक्सा, सिरी इत्यादि इत्यस्य उदाहरणानि सन्ति।

(ग) यः मनुष्यः प्रश्नान् करोति, सः इति उच्यते।

(घ) यदि पक्षपातयुक्तः दत्तांशः प्रयुज्यते तर्हि कृतकबुद्धिः अपि करोति।

(ङ) सदैव करुणां, विवेकं च शिक्षयन्ति, कृतकबुद्धिः तु तस्य सहायिका अस्ति।

(च) कृतकबुद्धिः यन्त्राणि अभ्यासेन प्राप्नुवन्ति।

(छ) मिथ्याचित्रं, मिथ्यावाणी च यदि कृतकबुद्ध्या निर्मीयते तर्हि सः दोषः इति कथ्यते।

(ज) ड्रोनस्य माध्यमेन बीज-वपनं, भूमिक्षमतापरीक्षणं च भवति।

(झ) यदि कृतकबुद्धिः विवेकहीनतया उपयुज्यते तर्हि हानिः प्राप्नोति।

४. पाठे आगतानां शब्दानाम् आधारेण शब्दजालं प्रदत्तम् अस्ति। वामतः दक्षिणं (यथा–कृतकबुद्धिः), उपरितः अधः (यथा–डेटासेट्) च उदाहरणानुसारं तत्त्वपदानि स्वस्थानं कुर्वन्तु।

वर्णजालम्

कृ बु द्धि ची
तं चा टू मा वि
यः डी
गो दी मू
चे क्षा फे सि रि डे जे
मू हा कृ शि क्षा टा
जी ज्ञा धि मः से ना
तां पी कः चे बो
शः टी ले क्सा डि जि

५. अधोलिखितानि वाक्यानि पठित्वा शुद्धम् (✓) अशुद्धं (✗) वा चिनुत —

(क) आर्या यशिका च विद्यालये कृतकबुद्धेः उपयोगं कुर्वतः। ( )

(ख) कृतकबुद्धिः केवलं विनोदपुरुषार्थम् उपयुज्यते। ( )

(ग) अथर्वः अपि शिक्षायां कृतकबुद्धेः उपयोगं वदति। ( )

(घ) अक्षतः चैटबोट् इत्यस्य साहाय्येन अभ्यासलेखनं करोति। ( )

(ङ) ए.आई. डीप-फेक इत्यपि कृतकबुद्धेः उपयोगः अस्ति। ( )

(च) आर्यः चित्रनिर्माणे कृतकबुद्धेः साहाय्यं प्राप्नोति। ( )

(छ) शिक्षकः गम्भीरतया चैटबोट् वाक्यानां मूल्याङ्कनं करोति। ( )

६. एतत् चित्रम् आधारीकृत्य संस्कृतभाषायां पञ्च वाक्यानि रचयत —

Screenshot 2026-04-28 152117

(क)

(ख)

(ग)

(घ)

(ङ)

७. अधोलिखित-वाक्येषु कर्तृपद-क्रियापदं च चिनुत —

वाक्य कर्तृपदम् क्रियापदम्
(क) आर्यः संगणकस्य उपयोगं करोति।
(ख) यशिका कृतकबुद्धेः उपयोगानां वर्णनं करोति।
(ग) शिक्षकः बालकेभ्यः सतर्कतायाः आवश्यकता सूचयति।
(घ) अक्षतः चित्रकले रोबोटिक-यन्त्रस्य ज्ञानं ददाति।
(ङ) वेदः अपि कृतकबुद्धेः दोषान् विवेचयति।

८. अधोलिखितेषु वाक्येषु विशेषणं विशेष्यं च चिनुत —

वाक्य विशेषणम् विशेष्यम्
(क) अद्यतनं संगणकयन्त्रं अतिशयम् अस्ति।
(ख) वेदः रोचकं ग्रन्थम् अस्मान् दर्शयति।
(ग) यशिकायाः प्रस्तुति: सुभगा अस्ति।
(घ) शिक्षकस्य स्वरः स्पष्टः अस्ति।
(ङ) आर्यस्य दृष्टिकोणः आधुनिकः अस्ति।
स्वाध्यायमणि

बुद्धिर्मनसा धियणा धीः, प्रज्ञा शुभेभ्यः मतिः।
प्रज्ञोपलब्धिविचारविचित्रचेतनाः।
धीशक्तिरप्रगति मेधा सङ्कल्पः कर्म मानसः।

अवधानम् समासेन प्राणिधानं लेखनं च (१.१.२.२, अमरकोशः)

बुद्धिः इत्यस्य अनेकाः बहवः पर्यायवाचकाः शब्दाः उल्लिखिताः सन्ति। ते यथा— मनीषा, धिषणा, धीः, प्रज्ञा, सुभगा, मतिः, प्रेक्षा, उपलब्धिः, चित्तम्, संविद्, प्रचितिः, ज्ञप्तिः, चेतना, धारणावती मेधा च इत्यादयः।

युक्तं क्रियावान् पुनः स विद्याः

अधोलिखितेषु क्षेत्रेषु कृतकबुद्ध्या युक्तमानि उपकरणानि, तेषां उपयोगाः च क्षेत्रानुसारं नामानि समुचितं लिखत—

शिक्षाक्षेत्रे, चिकित्साक्षेत्रे, वाणिज्ये, सेवाक्षेत्रे, कृषिक्षेत्रे, मनोरञ्जनक्षेत्रे, वाहतुकक्षेत्रे, वित्तक्षेत्रे, सामान्यजीवनेषु च।