Screenshot 2026-05-05 115326

06

मनःपूतं समाचरेत्

Screenshot 2026-05-05 120515

प्रियच्छात्राः ! वदन्तु, किमपि कार्य करणीयम् अस्ति चेत् आदौ किम् आवश्यकम् ?

आचार्य ! विचिन्त्य कार्यकरणम् ।

उचितविधिना कार्यकरणम् ।

पूर्णमनसा कार्यकरणम् ।

सर्वे उचितमेव वदन्ति । अधुना विचारयन्तु, यदि मनः एव मलिनं स्यात्, उद्देश्यम् एव अनुचितं स्यात् तर्हि किमपि कार्यं सम्यक् कथं भवेत् ?

एवं चेत् तस्य कार्यस्य फलम् अपि दूषितम् एव स्यात् ।

अत एव अस्माभिः सर्वाणि कार्याणि पवित्रेण मनसा करणीयानि । एतदेव शिक्षयति प्रस्तुतः पाठः 'मनः पूतं समाचरेत्' इति।

Screenshot 2026-05-05 121814

आचार्ये ! अस्मिन् पाठे विविधेभ्यः ग्रन्थेभ्यः सुभाषितानि सङ्कलितानि दृश्यन्ते। किम् एतानि सुभाषितानि वर्तमानसमये अपि उपयोगीनि सन्ति ?

भवन्तः स्वयमेव चिन्तयन्तु।

अहं वदामि आचार्ये ! एतानि सुभाषितानि न केवलं पठनाय अपितु जीवने आचरणाय सन्ति ।

सम्यक् उक्तम् । आयान्तु, वयं सुभाषितानि पठामः जीवने च आचरामः ।

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेत् वाचं मनः पूतं समाचरेत् ॥ १ ॥
(मनुस्मृतिः – ६.४६)

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ २॥
(मनुस्मृतिः - ६.९२)

यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ३॥
(श्रीमद्भगवद्गीता – ३.२१)

अभ्यासेन क्रियाः सर्वाः अभ्यासात् सकलाः कलाः।
अभ्यासाद् ध्यानमौनादि किमभ्यासस्य दुष्करम् ॥ ४॥
(सुभाषितरत्नभाण्डागारः)

प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारभ्य चोत्तमजनाः न परित्यजन्ति ॥ ५ ॥
(नीतिशतकम् - २७)

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ६ ॥
(पञ्चतन्त्रम् - मित्रभेदः - १४९)

Screenshot 2026-05-05 122911

पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥ ७॥
(मालविकाग्निमित्रम् - १.२)

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ ८॥
(किरातार्जुनीयम् - २.३०)

सर्वं शब्देन भासते

शब्द अर्थ हिंदी English मातृभाषा
अनुवर्तते अनुसरति अनुसरण करता है Follows
अवरम् न वरम् निम्नस्तरीय Inferior
अस्तेयम् न स्तेयम् चोरी न करना Not stealing
आपदाम् विपत्तीनाम् खतरों का Of dangerous
उद्योगिनम् उद्योगः अस्ति इति प्रयत्न करने वाले को Industrious
कापुरुषाः कुटिलताः पुरुषाः कायर / अधम Cowards
गुणलुब्धाः गुणानाम् अभिलाषिणः गुण को चाहने वाले Those who desire good qualities
दमः इन्द्रियाणां मनसः च नियंत्रणम् इन्द्रिय एवं मन को वश में करना Controlling senses
दैवम् विधिः / भाग्यम् भाग्य Luck
निहत्य अतिक्रम्य अतिक्रमण करके Having crossed
नीचैः अधमजनैः अधम लोगों द्वारा By inferior people
न्यसेत् स्थापयेत् रखे Should place
पदम् स्थानम् स्थान Place
पुराणम् पुरातनम् पुराना Old
पूतम् शुद्धम् शुद्ध Cleansed
परप्रत्ययनेयबुद्धिः परप्रत्ययेन नेया बुद्धिः दूसरों के द्वारा निर्देशित बुद्धि वाला One who is influenced by the thinking of others
प्रतिहन्यमानाः बाधिताः बाधित Obstructed
भजन्ते स्वीकुर्वन्ति स्वीकारते हैं Accept
मूढः मूर्खः मूर्ख Fool
यत्नेन श्रमे यत्न में By doing effort
वाचम् वाणीम् वाणी को Speech
विधीयेत कुर्यात् करना चाहिए Should be done
विघ्नविहता: विघ्नैः विहता: विघ्नों से हत Struck by obstacles
विमृश्यकारिणम् यः चिन्तयित्वा कार्यं करोति भली-भाँति सोचकर कार्य करने वाले को One who acts thoughtfully
विस्मन्ति स्थग्नं कुर्वन्ति छोड़ते हैं Leave
व्रजन्ते आश्रयन्ते आश्रय लेते हैं Take refuge
शौचम् शुचिः भावः पवित्रता Purity
सन्तः सज्जनाः सज्जन लोग Great people
सम्पदः ऐश्वर्यम् सम्पत्ति Wealth

अत्र इदम् अवधेयम्

(श्लोकानाम् अन्वयः)

१. दृष्टिपूतं पादं न्यसेत्, वस्त्रपूतं जलं पिबेत्, सत्यपूतां वाचं वदेत्, मनः पूतं समाचरेत्।

२. धृतिः क्षमा दमः अस्तेयं शौचम् इन्द्रियनिग्रहः धीः विद्या सत्यम् अक्रोधः (च इति) दशकं धर्मलक्षणं (भवति)।

३. श्रेष्ठः यत् यत् आचरति इतरः जनः तत् तत् एव (आचरति) । सः यत् प्रमाणं कुरुते, लोकः तत् अनुवर्तते ।

४. सर्वाः क्रियाः अभ्यासेन (सिध्यन्ति) । सकलाः कलाः अभ्यासात् (सिध्यन्ति)। ध्यानमौनादि (अपि) अभ्यासात् (सिध्यति)। अभ्यासस्य दुष्करं किम् (अस्ति) ?

५. नीचैः विघ्नभयेन (कार्य) न प्रारभ्यते खलु । मध्याः (कार्य) प्रारभ्य विघ्नविहताः (कार्यात्) विरमन्ति। उत्तमजनाः (कार्य) प्रारभ्य विघ्नैः पुनः पुनः अपि प्रतिहन्यमानाः (कार्य) न परित्यजन्ति ।

६. लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति, दैवेन देयम् इति (तु) कापुरुषाः वदन्ति, दैवं निहत्य पौरुषं कुरु, यत्ने कृते यदि (कार्य) न सिध्यति, (तर्हि) अत्र कः दोषः (स्यात्) ?

७. पुराणम् इति सर्वं साधु न (वर्तते), काव्यं नवम् इति अवद्यं न (वर्तते), सन्तः परीक्ष्य अन्यतरत् भजन्ते, मूढः परप्रत्ययनेयबुद्धिः (भवति)।

८. क्रियां सहसा न विदधीत, अविवेकः परम् आपदां पदम् (भवति), हि गुणलुब्धाः सम्पदः स्वयमेव विमृश्यकारिणं वृणते।

अभ्यासाद् जायते सिद्धिः

१. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत -

(क) लोकः कस्य आचरणम् अनुकरोति ?

(ख) कीदृशी वाणी वक्तव्या ?

(ग) लक्ष्मीः कम् उपैति ?

(घ) उत्तमजनाः कार्यं प्रारभ्य किं न कुर्वन्ति ?

(ङ) धर्मस्य लक्षणानि कानि ?

(च) सकलाः कलाः कस्मात् सिध्यन्ति ?

(छ) सम्पदः कं वृणते ?

२. अधोलिखितेषु श्लोकांशेषु रिक्तस्थानानि पूरयत -

(क) ............................... परमापदां पदम् ।

(ख) सन्तः ............................... अन्यतरद् भजन्ते ।

(ग) दैवं निहत्य कुरु ............................... आत्मशक्त्या। 

(घ) सयत् ............................... कुरुते।

(ङ) धीर्विद्या सत्यमक्रोधो ............................... धर्मलक्षणम् ।

३. रेखा‌ङ्ङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

(क) नीचैः विघ्नभयेन कार्यं न प्रारभ्यते ।

(ख) सकलाः कलाः अभ्यासात् सिध्यन्ति ।

(ग) वस्त्रपूतं जलं पिबेत्।

(घ) लक्ष्मीः पुरुषसिंहम् उपैति ।

(ङ) सन्तः परीक्ष्य अन्यतरद् भजन्ते । क्रियां सहसा न विदधीत ।

४. अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखत -

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेत् वाचं मनः पूतं समाचरेत् ॥

(क) अस्मिन् श्लोके प्रथमं क्रियापदं किम् ?

(ख) कं न्यसेत् ?

(ग) कीदृशं पादं न्यसेत् ?

(घ) द्वितीयं किं क्रियापदम् अस्ति ?

(ङ) किं पिबेत् ?

(च) कीदृशं जलं पिबेत् ?

(छ) तृतीयं किं क्रियापदम् अस्ति ?

(ज) कां वदेत् ?

(झ) कीदृशीं वाणीं वदेत् ?

(ञ) चतुर्थं किं क्रियापदम् अस्ति ?

(ट) कथं समाचरेत् ?

५. मञ्जूषातः पदानि चित्वा भावार्थेषु रिक्तस्थानानि पूरयत –

बुद्धिः, लक्ष्यं, पुरुषस्य, अभिप्रायं, धीराः, नूतनम्

( क) लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः ...................................... समीपं स्वयम् आगच्छति। कापुरुषाः तु 'विधिः एव बलीयान्' इति वदन्ति । ये पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साधयन्ति ते एव ......................................| प्रयत्नं कृत्वा अपि यदि ...................................... न प्राप्तं तर्हि तत्र दोषः नास्ति खलु ।

(ख) पुरातनम् अस्ति इति कारणेन किमपि वस्तु तत्त्वं व्यक्तित्वं वा समीचीनं भवेदेव इति नियमः नास्ति । तथैव ......................................|

अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति। येषां ...................................... पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव ...................................... उत्तमं स्वीकुर्वन्ति। किन्तु अज्ञानाः अन्येषाम् श्रुत्वा तदनुसारेण प्रवर्तन्ते ।

६. श्लोकानाम् अन्वयेषु रिक्तस्थानानि पूरयत –

(क) सर्वाः ...................................... अभ्यासेन (सिध्यन्ति)...................................... । कलाः अभ्यासात् (सिध्यन्ति)। ध्यानमौनादि (अपि) ...................................... (सिध्यति)। अभ्यासस्य किम् ...................................... (अस्ति) ?

( ख) श्रेष्ठः यत् यत् ...................................... इतरः जनः तत् तत् एव (आचरति) ...................................... सः यत् ...................................... कुरुते, लोकः तत् ......................................|

७. यथोचितं मेलनं कुरुत -

श्लोकांशः स्रोतोग्रन्थः

(क) पुराणमित्येव न साधु सर्वम्
१. मनुस्मृतिः

(ख) प्रारभ्य चोत्तमजनाः न परित्यजन्ति
२. पञ्चतन्त्रम्

(ग) यद्यदाचरति श्रेष्ठः
३. नीतिशतकम्

(घ) धृतिः क्षमा दमोऽस्तेयम्
४. मालविकाग्निमित्रम्

(ङ) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः

५. श्रीमद्भगवद्गीता

८. रेखाङ्कितेषु पदेषु सन्धिविच्छेदं कुरुत –

यथा - यो बहून्यपि साधयेत् बहूनि + अपि

(क) धृतिः क्षमा दमोऽस्तेयम् ।
...................................... + ......................................

(ख) पुराणमित्येव न साधु सर्वम् । ...................................... + ...................................... + ......................................

(ग) विघ्नैः पुनरपि प्रतिहन्यमानाः । ...................................... + ......................................

(घ) प्रारभ्य चोत्तमजनाः न परित्यजन्ति । ...................................... + ...................................... + ......................................

(ङ) विघ्नविहता विरमन्ति मध्याः । ...................................... + ......................................

(च) लोकस्तदनुवर्तते। ...................................... + ...................................... + ......................................

(छ) सन्तः परीक्ष्यान्यतरद्भजन्ते । ...................................... + ...................................... + ......................................

९. अत्र कतिचन विग्रहवाक्यानि दत्तानि सन्ति । तेषां समस्तपदानि पाठात् चित्वा लिखत-

विग्रहवाक्यानि समस्तपदानि

यथा – मनसा पूतं समाचरेत् मनःपूतम्

(क) विघ्नैः विहताः (कार्यात्) विरमन्ति । ......................................

(ख) वस्त्रेण पूतं जलं पिबेत्। ......................................

(ग) पुरुषः सिंहः इव तम् उपैति लक्ष्मीः । ......................................

(घ) उत्तमाः जनाः न परित्यजन्ति । ......................................

(ङ) न विवेकः परमापदां पदम् । ......................................

स्वाध्यायान्मा प्रमद:

अधोलिखितां सारणीं पठित्वा भारतीय-ज्ञान-परम्परा-विषये, कवीनां कालविषये च जानीत।

क्र. सं. ग्रन्थस्य नाम भारतीय-ज्ञान-परम्परा-स्थानम् ग्रन्थकर्ता
१. रामायणम् ऐतिहासिकं काव्यम् महर्षिः वाल्मीकि:
२. मनुस्मृतिः धर्मशास्त्रीयग्रन्थः मनुः
३. श्रीमद्भगवद्गीता ज्ञानोपदेशः महर्षिः व्यासः
४. हठयोगप्रदीपिका योग-दर्शनम् स्वात्मारामः
५. नीतिशतकम् नीति-साहित्यम् भर्तृहरिः
६. पञ्चतन्त्रम् कथा-साहित्यम् विष्णुशर्मा
७. मालविकाग्निमित्रम् रूपकम् कालिदासः
८. किरातार्जुनीयम् महाकाव्यम् भारविः

यस्तु क्रियावान् मनुजः स विद्वान्

१. पाठे आगतेषु सुभाषितेषु कानि-कानि जीवनमूल्यानि सन्ति ? तानि जीवनमूल्यानि अधिकृत्य पञ्च पञ्च सुभाषितानि सङ्गृह्णीत। तेषां सन्दर्भग्रन्थानां नामानि अपि लिखत ।

२. दृष्टिपूतं, वस्त्रपूतं, सत्यपूतं च आचरणं कथं भवेत् इति विषये स्वस्य अनुभवं कक्षायां कथयत।