Screenshot 2026-05-07 094942

07

उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्

Screenshot 2026-05-07 095229

मातः ! पश्यतु, अद्य अहं मार्गे पतितं धनं प्राप्तवान्। एतेन धनेन बहूनि क्रीडनकानि क्रीणामि।

न हि पुत्र ! एतत् अन्यस्य श्रमार्जितं धनमस्ति, तस्मै एव प्रत्यर्पणीयम् । अन्यस्य धनं तृणम् इव गणनीयम् ।

मातः ! अन्यस्य धनं तृणम् इव कथं भवति ?

एहि पुत्र ! अहं तुभ्यं पञ्चतन्त्रस्य काञ्चन कथां श्रावयामि यया त्वं स्वप्रश्नस्य उत्तरं प्राप्तुं शक्नोषि।

मातः ! तर्हि कृपया सत्वरं श्रावयतु ।

Screenshot 2026-05-07 100600

कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म। अथ कदाचित्पापबुद्धिना चिन्तितं यदहं तावान्मूर्खा दरिद्रतया पीडितश्च । अत एनं धर्मबुद्धिं स्वीकृत्य अन्यं देशं गच्छामि, तत्र अस्य आश्रयणेन धनं सम्पादयामि, अनन्तरम् एनमपि वञ्चयित्वा सुखी भवामि इति । अथान्यस्मिन् अहनि धर्मबुद्धिमुपेत्याह -

पापबुद्धिः

भो मित्र ! यदा भवान् वृद्धः भवति तदा 'बाल्ये यौवने वा मया एवं कृतम्' इति वक्तुं योग्यं किं कार्यं स्मरति ? भवता अन्यः देशः न दृष्टः एव चेत् भवतः शिशून् अन्यदेशसम्बन्धे कां कथां वदिष्यति ? उक्तमेव -

देशान्तरेषु बहुविधभाषावेषादि येन न ज्ञातम् ।
भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥

एवमेव

विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक् ।
यावद् व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ॥

अतः आवां देशान्तरं गत्वा धनम् अर्जयित्वा आगच्छाव इति। अथ तस्य तद्वचनमाकर्ण्य प्रहृष्टमनाः धर्मबुद्धिः आह- अस्तु तावत् गुरुजनाज्ञया गच्छावः । (ततस्तौ गुरुजनानामनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ । पापबुद्धिः धर्मबुद्धेः प्रभावेण प्रभूतं धनं सम्पादितवान्)

पापबुद्धिः

मित्र ! आवाभ्यामिदानीं प्रचुरं धनमुपार्जितम्। अत्रागत्य वर्षाणि व्यतीतानि, सर्वं धनं स्वीकृत्य स्वग्रामं गच्छावः ।

Screenshot 2026-05-07 101807

धर्मबुद्धिः

अथ किम् । तथैवास्तु । (यदा तौ स्वनगरसमीपमागतवन्तौ तदा)

पापबुद्धिः

भद्र ! एतत् सर्वं धनं गृहं प्रति नेतुं न उचितम् । अतः एतद् धनमत्रैव गहनारण्ये कुत्रापि भूमौ निक्षिप्य किञ्चिन्मात्रमादाय गृहं प्रविशावः ।

धर्मबुद्धिः

सत्यमेवाभिहितं भवता, तथैव कुर्वः । यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ। अन्यस्मिन्नहनि पापबुद्धिः निशीथे अटव्यां गत्वा तत्सर्वं वित्तं समादाय गर्त पूरयित्वा स्वभवनं गतवान् ।

(अथ कतिचिद्दिनानन्तरम्) Screenshot 2026-05-07 101848 Screenshot 2026-05-07 102408

पापबुद्धिः

सखे ! मम कुटुम्बे बहवः जनाः सन्ति, धनाभावात् कष्टम् अनुभवामि । अतः तत्र गत्वा किञ्चिन्मात्रं धनमानयावः ।

धर्मबुद्धिः

अस्तु मित्र ! गच्छावः । (अथ द्वावपि गत्वा तत्स्थानं यावत् खनतः तावद्रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस्ताडयन् उक्तवान्)

पापबुद्धिः

भोः धर्मबुद्धे ! त्वयैवापहृतम् एतद्धनं, नान्येन। तत्प्रयच्छ मे तदर्धम्। अन्यथा अहं राजकुले निवेदयिष्यामि ।

धर्मबुद्धिः

भोः दुरात्मन् ! मा मैवं वद। धर्मबुद्धिः खल्वहम्। नैतत् चौरकर्म करोमि ।

मातृवत्परदारेषु परद्रव्येषु लोष्ठवत् ।
आत्मवत्सर्वभूतेषु वीक्षन्ते धर्मबुद्धयः ॥

(एवं द्वावपि विवदमानौ धर्माधिकारिणं निकषा गतौ)

धर्माधिकारी

ननु न कोऽपि साक्षी युवाभ्यामन्यतरस्य चौरकर्मणः। अतः यत्र मानुषप्रमाणम् अनुपलब्धं तत्र वनदेवता एव न्यायनिर्णयं करिष्यति । अतः प्रातःकाले युवामस्माभिः सह तत्र वनप्रदेशं गच्छतम्। तत्रैव निर्णयः भविष्यति । (अत्रान्तरे पापबुद्धिः गृहं गत्वा स्वजनकं प्रबोधितवान्)

पापबुद्धिः

तात ! मया धर्मबुद्धेः प्रभूतः अर्थः चोरितः। भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति, अन्यथास्माकं प्राणैः सह यास्यति।

पिता

वत्स ! द्रुतं वद, अहं किं करवाणि येन तद्रव्यं स्थिरं तिष्ठेत्।

पापबुद्धिः

तात ! अस्ति वनप्रदेशे महाशमी नाम वृक्षः। तस्मिन् महाकोटरम् अस्ति । तत्र भवान्साम्प्रतमेव प्रविशतु । ततः प्रभाते यदाहं सत्यश्रावणाय निवेदयामि, तदा भवता वक्तव्यं यद् धर्मबुद्धिः चौर इति।

(तथा कृते, प्रातःकाले स्नात्वा पापबुद्धिः धर्मबुद्धिना धर्माधिकारिणा च सह न्यायार्थं वनदेवतायाः समीपमुपागतः । अन्येऽपि सामाजिकाः तद्रष्टुमागताः)

पापबुद्धिः

आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥

भगवति वनदेवते ! आवयोर्मध्ये यः चौरः त्वं कथय ।

पिता शमीकोटरस्थः

भोः ! शृणुत, शृणुत ! धर्मबुद्धिना हृतम् एतद्धनम्।

(तद् आकर्ण्य ते सर्वे जनाः विस्मयेन उत्फुल्ललोचनाः सञ्जाताः)

सर्वे जनाः

धनापहरणदोषहेतोः शास्त्रविहितप्रकारेण धर्मबुद्धये दण्डः दातव्यः । Screenshot 2026-05-07 104508

धर्मबुद्धिः

इदं मिथ्याभाषितमस्ति । नाहं चोरितवान् । अहम् एतत् शमीकोटरं वह्निभोज्यद्रव्यैः परिवेष्ट्य वह्निना प्रज्वालयामि। (तथा करोति) (अथ ज्वलति तस्मिन् शमीकोटरे अर्धदग्धशरीरः स्फुटितेक्षणः करुणं विलपन् पापबुद्धिपिता बहिरागतः) ततश्च

जनाः

(साश्चर्यम्) भोः ! किमिदम् ? किमिदम् ?

पिता पापबुद्धेः

एतत् सर्वमपि पापबुद्धेः चेष्टितम्। (इत्युक्त्वा मृतः)

धर्माधिकारी

एष पापबुद्धिः दण्डनीयः ।

(राजपुरुषाः नियमानुसारं पापबुद्धिं दण्डितवन्तः धर्मबुद्धिं प्रशंसितवन्तः च)

सर्वे जनाः

भो धर्मबुद्धे ! त्वया सम्यक् कृतम्। पापबुद्धेः व्यर्थपाण्डित्यात् पिता वह्निना घातितः । अतः साधूक्तम् -
उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् ।

सर्वे शब्देन भाषन्ते

शब्दः अर्थः हिन्दी English मातृभाषया अर्थ लिखत
अटव्याम्
(स्त्री.स.ए.व.)
वने जंगल में In the forest
अपायम्
(पुं.द्वि.ए.व.)
विघ्नम् समस्या/संकट Problem
अहनि
(अहन्, नपुं.स.ए.व.)
दिवसे दिन के समय During the day
आपः
(स्त्री.प्र.ब.व.)
जलम् जल Water
उत्फुल्ललोचना:
(बहुव्रीहिः, पुं.प्र.ब.व.)
उत्फुल्लानि लोचनानि येषां ते आश्चर्य से फटी हुई आँखों वाले With surprise
खनित्वा
(√ खन् + क्त्वा)
खननं कृत्वा खोद कर Having dug
द्यौः
(स्त्री.प्र.ए.व.)
आकाशः आकाश Sky
धरणीपीठे
(पष्ठी तत्पुरुषः, नपुं.स.ए.व.)
धरण्या: पीठे धरती पर On the earth
निक्षिप्य
(नि + √ क्षिप् + ल्यप्)
स्थापयित्वा रखकर Having kept
निशीथे
(पुं.स.ए.व.)
अर्धरात्रे आधी रात में At midnight
परिवेष्ट्य
(परि + √ वेष्ट् + ल्यप्)
आवृत्य घेरकर Encircling
प्रहृष्टमना:
(बहुव्रीहिः, पुं.प्र.ब.व.)
प्रहृष्टं मनः यस्य सः प्रसन्न मन वाला Joyful minded
भाण्डम्
(नपुं.द्वि.ए.व.)
पात्रम् घड़े को Pot
यास्यति
(√या + लृट्, प्र.पु.ए.व.)
गमिष्यति जाएगा Will go
वञ्चयित्वा
(√ वञ्च् + क्त्वा)
वञ्चनं कृत्वा ठग कर Having Deceived
वीक्षन्ते
(वि + √ ईक्ष्, लट्, प्र.पु.ब.व.)
पश्यन्ति देखते हैं See
व्रजति
(√ व्रज्, लट्, प्र.पु.ए.व.)
गच्छति जाता है He goes
लोष्टवत्
(लोष्ट + वत्)
पाषाणखण्डवत् पत्थर के टुकड़े के समान Like a stone
स्फुटितेक्षण:
(बहुव्रीहिः, पुं.प्र.ब.व.)
स्फुटिते ईक्षणे यस्य सः नष्ट हुई आँखों वाला One with damaged eyes

अत्र इदम् अवधेयम्

नित्यबहुवचनान्तशब्दाः

संस्कृतभाषायाम् अनेकेशब्दाः नित्यबहुवचनान्ताः भवन्ति । यथा - आपः (Water), दाराः (Wife), लाजाः (Puffed Rice), अक्षतानि (Rice-grains), गृहाः (Wife/House), प्राणाः (Life-force), असवः (Life-force), वर्षाः (Rain), समाः (Rain), सिकताः (Sand), कति (How many), यति (As many), तति (So many), त्रि-आरभ्य संख्याः (यथा- त्रयः / तिस्त्रः / त्रीणि, चत्वारः / चतस्त्रः / चत्वारि, पञ्च, षट् इत्यादयः) । अत एव आदित्यचन्द्रावनिल...... इति पाठगते श्लोके अनिलः, अनलः, द्यौः, भूमिः इति शब्दाः एकवचने विद्यन्ते, परन्तु आपः इति शब्दः बहुवचने ।

विशेषणानि विशेष्याणि च

प्रहृष्टमनाः पापबुद्धिः - अत्र पापबुद्धिः विशेष्यपदम् प्रहृष्टमनाः विशेषणं च भवति । विशेषण-विशेष्याणां मध्ये लिङ्ग-विभक्ति-वचनसम्बन्धोऽस्ति । यथा -

नूतनं भवनम् नूतनः विद्यालयः (लिङ्ग सम्बन्धः)
चतुरः बालः चतुराः बालाः (वचन सम्बन्धः)
बुद्धिमती गृहिणी बुद्धिमत्या गृहिण्या (विभक्ति सम्बन्धः)

सर्वनामशब्दाः अपि विशेषणानि भवन्ति ।

यथा पाठे - एतेन धनेन, एनं धर्मबुद्धिम्, यः चौरः, तस्मिन् वृक्षे, कां कथाम्, एतत् चौरकर्म।

एतेषाम् अपि विशेष्यपदेन सह लिङ्ग-विभक्ति-वचन सम्बन्धः अस्ति। यथा -

एषः पिता एषा माता एतत् मित्रम्
कः समर्थः ? का चतुरा ? किम् उत्तमम् ?

अभ्यासाद् जायते सिद्धिः

१. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -

(क) नरस्य वृत्तं के जानन्ति ?

(ख) धर्मबुद्धयः किं वीक्षन्ते ?

(ग) कस्य जन्मनः फलं व्यर्थम् ?

(घ) पापबुद्धिः स्वपितरं किम् उक्तवान् ?

(ङ) प्राज्ञः किं-किं चिन्तयेत् ?

(च) मानवः कदा विद्यां वित्तं शिल्पं च प्राप्नोति ?

(छ) पापबुद्धिः किं चिन्तयित्वा देशान्तरं प्रस्थितः ?

२. अधोलिखितवाक्येषु स्थूलाक्षरपदानि आश्रित्य प्रश्ननिर्माणं कुरुत –

(क) एनम् अपि वञ्चयित्वा सुखी भवामि ।

(ख) सर्वं धनं स्वीकृत्य स्वग्रामं गच्छावः ।

(ग) निशीथे अटव्यां गत्वा तत् सर्वं वित्तम् आनीतवान् ।

(घ) तत् आकर्ण्य सर्वे ते जनाः विस्मयोत्फुल्ललोचनाः सञ्जाताः ।

(ङ) अहम् एतत् शमीकोटरं वह्निना प्रज्वालयामि।

३. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति लिखत -

कः कं प्रति

(क) वत्स ! द्रुतं वद येन तद् द्रव्यं स्थिरं तिष्ठेत्। ........... ...........

(ख) प्रातःकाले युवामस्माभिः सह तत्र वनप्रदेशं गच्छतम् । ........... ...........

(ग) त्वया हृतम् एतद्धनं, नान्येन । ........... ...........

(घ) भोः दुरात्मन् ! मा मैवं वद। ........... ...........

(ङ) एतत् सर्वमपि पापबुद्धेः चेष्टितम् । ........... ...........

४. उदाहरणानुसारं भूतकालिकवाक्यानि वर्तमानकालिकवाक्येषु परिवर्तयत -

भूतकालिकवाक्यानि वर्तमानकालिकवाक्यानि

उदाहरणम् - भवानपि मया सहैव । भवानपि मया सहैव प्रभूतं

प्रभूतं धनं प्राप्तवान् । धनं प्राप्नोति

(क) राजपुरुषाः पापबुद्धिं दण्डितवन्तः ।  .......................

(ख) पापबुद्धिः अत्यधिकं धनं सम्पादितवान् । .......................

(ग) पापबुद्धिः वनदेवतायाः समीपम् आगतवान् । .......................

(घ) अत्रान्तरे पापबुद्धिः शिरस्ताडयन् उक्तवान् । .......................

(ङ) सर्वे जनाः धर्मबुद्धिं प्रशंसितवन्तः । .......................

५. श्लोकानां भावार्थान् विचिन्त्य कोष्ठकात् समुचितपदैः रिक्तस्थानानि पूरयत -

(क) सूर्यः चन्द्रः .......... अग्निः आकाशः भूमिः जलं .......... यमः । दिवसः रात्रिः प्रभातं सायं च मनुष्याणां सर्वविधं .......... जानन्ति| अतः वयं सर्वदा उत्तमं व्यवहारं कुर्मः । (व्यवहारं / पवनः / हृदयं)

(ख) यः .......... न अटति, विविधदेशानां संस्कृतीः .......... चन जानाति, पृथिवीपृष्ठे तस्य जन्म .......... भाति। (भाषाः / व्यर्थं / अन्यदेशेषु)

(ग) सज्जनाः सर्वासु नारीषु .......... इव, अन्येषां .......... मृत्पिण्डम् इव, सर्वेषु प्राणिषु च .......... इव चिन्तयन्ति । (द्रव्येषु / स्वयम्/मातरः) 

(घ) बुद्धिमान् मनुष्यः .......... मार्गान् समस्यादूरीकरणस्य .......... च ..........। (कौशलानि / कार्यसाधनस्य/ जानीयात्)

६. उदाहरणं दृष्ट्वा अधोलिखितानां पदानां विग्रहं मेलनं वा कुरुत -

उदाहरणम् - अर्थोपार्जनम् अर्थस्य उपार्जनम्

(क) गुरुजनाज्ञया .................

(ख) वनदेवता .................

(ग) ................. वित्तस्य अभावात्

(घ) बुद्धिप्रभावेण .................

(ङ) ................. धरण्याः पीठे

(च) राजकुले .................

७. अधोलिखितानि वाक्यानि कथाक्रमानुसारं पुनः लिखत -

(क) भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति ।

(ख) ततस्तौ गुरुजनानाम् अनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ ।

(ग) द्राविणे गल्वा तत् स्थानं यावत् खनतः तावत् रिक्ता भाण्ड वृक्षत्वन्तो।

(घ) कोऽस्मिश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म।

(ङ) यथा ब्राह्मणो चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निधाय स्वगृहं गतवन्तौ।

(च) राजपुरुषाः पापबुद्धिं दण्डितवन्तः।

स्वाध्यायान्मा प्रमदः

१. पञ्चतन्त्रम्— पञ्चतन्त्रं नीतिशिक्षाप्रदानां रोचकानां कथानां सङ्ग्रहः वर्तते। अस्य ग्रन्थस्य लेखकः विष्णुशर्मा अस्ति। पशुपक्षिणां कथामाध्यमेन नीतिशास्त्रस्य गहनतत्त्वमपि सरलतया अत्र शिक्षितम्। अस्मिन् ग्रन्थे कथा: पञ्चसु तन्त्रेषु विभक्ताः सन्ति। यथा— मित्रभेदः, मित्रसम्प्राप्तिः, काकोलूकीयम्, लब्धप्रणाशः, अपरिक्षितकारकं चेति। प्रस्तुतकथा मित्रभेदः इति प्रथमन्त्रात् स्वीकृता।

२. क्तवतुप्रत्ययः— भूतकालार्थे कर्तरि धातोः क्तवतुप्रत्ययस्य प्रयोगः भवति। क्तवतुप्रत्ययान्तपदानि विशेषणपदत्वेन प्रयुज्यन्ते। कर्तृपदानुसारं क्तवतुप्रत्ययान्तपदानां लिङ्गवचननिर्धारणं भवति।

यथा—

धातुः + प्रत्ययः पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
पठ् + क्तवतुँ बालकः पठितवान् बालिका पठितवती मित्रं पठितवत्
खाद् + क्तवतुँ बालकः खादितवान् बालिका खादितवती मित्रं खादितवत्
कृ + क्तवतुँ बालकः कृतवान् बालिका कृतवती मित्रं कृतवत्

उदाहरणवाक्यानि—

(क) ह्यः शिक्षकः पञ्च श्लोकान् पाठितवान्।

(ख) गतशनिवासरे छात्राः विद्यालयपरिसरं स्वच्छता कृतवन्तः।

(ग) माता प्रातः स्वल्पाहारं दत्तवती।

(घ) गतवर्षे वार्षिकोत्सवे नवमकक्षायाः छात्राः नाटके अभिनयितवन्तः।

(ङ) गतसप्ताहे वयं जयपुरं गतवन्तः।

३. तत्पुरुषसमासः— द्वयोः पदयोः, अनेकषां पदानां वा एकपदीकरणं भवति समासः। तत्पुरुषसमासे उत्तरपदस्य प्रधानता भवति। यस्य पदस्य क्रिया सह सम्बन्धः भवति तत् पदं प्रधानम् इत्युच्यते। पूर्वपदस्य विभक्तीनां लोपः क्रियते। यस्याः विभक्तेः लोपं कृत्वा पदमेलनं भवति तन्नाम्ना एव तस्य तत्पुरुष-समासस्य नाम भवति।

यथा—

शरणम् आगतः – शरणागतः द्वितीयातत्पुरुषः
सुखेन अन्वितः – सुखान्वितः तृतीयातत्पुरुषः
छात्रेभ्यः हितम् – छात्रहितम् चतुर्थीतत्पुरुषः
रोगात् भयम् – रोगभयम् पञ्चमीतत्पुरुषः
देशस्य भक्तः – देशभक्तः षष्ठीतत्पुरुषः
कार्ये कुशलः – कार्यकुशलः सप्तमीतत्पुरुषः

यस्तु क्रियावान् मनुष्यः स विद्वान्

१. पुस्तकालयात् पञ्चतन्त्रस्य पुस्तकं स्वीकृत्य एका कथां पठत। तस्याः कथायाः सारांशं संस्कृतेन लिखित्वा कक्षायां श्रावयत।

२. कक्षायां छात्राः अध्यापकस्य साहाय्येन कथाधारितस्य नाटकस्य प्रस्तुति कुर्वन्तु।