भगवन् ! ब्रह्मविषये मम काचिद् जिज्ञासा वर्तते। किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते ? कृपया उपदिशतु।
अष्टम: पाठ:
अन्नाद् आनन्दं प्रति
संस्कृतवाङ्गये उपनिषत्-साहित्यस्य विशिष्टं महत्त्वपूर्ण च स्थानम् अस्ति। उपनिषत्सु अनेके ज्ञानप्रदाः संवादाः सन्ति । तैत्तिरीयोपनिषदि समग्रजीवनविकासाय पञ्चकोषाणां महत्त्वं पितापुत्रसंवादरूपेण वर्णितम्। तादृशज्ञानप्रदसंवादानाम् अध्ययनेन बोधनेन च वयम् आत्मविकासं कर्तुं शक्नुमः । अस्मिन् पाठे वयम् पितापुत्रयोः भृगुवरुणयोः संवादं पठिष्यामः ।
भगवन् ! ब्रह्मविषये मम काचिद् जिज्ञासा वर्तते। किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते ? कृपया उपदिशतु।
भृगुः:
हे पितः ! अन्नाद् एव प्राणिनः जायन्ते ।
अन्नेन एव प्राणिनः जीवन्ति । अन्नमेव शरीरं बलं च वर्धते । अतोऽन्नं ब्रह्म इति ।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥
प्राण एव अस्माकं जीवनम्। प्राणेन विना शरीरं क्रियार्हं भवति। अतः
प्राणो ज्येष्ठः श्रेष्ठश्च। तस्मात् प्राणो वै ब्रह्म इति विज्ञातम्।
मरणं तस्य निष्क्रान्तिर्न ततो वायु निरोधयेत्।।
वरुणं निकष्य प्राप्नोति, वरुणः भृगुं पृच्छति —)
धृतिरधृतिह्रीर्धीर्भीत्येतत् सर्वं मन एव।
पितुः समीपं प्राप्नोति, पिता तं पृच्छति)
बोधशक्तेः, तर्कशक्तेः, विवेकशक्तेः, निर्णयशक्तेः,
स्मृतिशक्तेश्च विकासो न भवति।
बुद्धिरेव सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति।
समाजानां बुद्धौ एव विविधते।
अतः एव विज्ञानं वै ब्रह्म इति।
विज्ञानमयकोषस्य विकासः कर्तव्यः। तदर्थं
प्रतिदिनं ध्यान योगाभ्यासं च कर्तव्यम्। किन्तु
यदि ब्रह्मणः स्वरूपं वेत्तुम् इच्छति तर्हि
इतोऽपि प्रयतताम्, अन्विष्यतां च।
(भृगुः पुनः बहुकालं यावत् तपश्चर्या करोति । तपस्तप्त्वा प्रसन्नमुखेन पितुः निकटे समुपस्थितो भवति ।) परदा।
आनन्दो वै ब्रह्म इति।
आनन्दाय भवन्ति। अस्माकं कर्मणां
लक्ष्यं आनन्दप्राप्तिरेव। आनन्देन
एव प्राणिनो जीवन्ति। आनन्देन
रहितं जीवनं मृत्युसममिति। तस्मात्
आनन्दो वै ब्रह्म इति।
प्रकीर्तितम्। अतः आनन्दप्राप्तये
प्रतिदिनं ध्यानं योगासनं च कर्तव्यम्।
प्राणिषु दया कर्तव्या। परोपकारः
कर्तव्यः। रागः, द्वेषः, ईर्ष्या, क्रोधः,
लोभः, मोहश्च हातव्याः। सर्वदा
ईश्वरं सेवतां मोदतां च।
आनन्दस्य च महत्त्वं ज्ञातवान्। एतेः पञ्चभिरेव अस्माकं पूर्णविकासः
भवति, अतः एते ब्रह्मभेदेन व्यवह्रियन्ते। ब्रह्मणः स्वरूपं तु ततोऽपि परे
अस्ति। एतानि ब्रह्मज्ञानाय धारणाः सन्ति। यदि एतेषां क्रमशः विकासं
करिष्यसि तर्हि ब्रह्मणः स्वरूपबोधो भविष्यति। उक्तञ्च—
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः। इति
सर्वे शब्देन भारते
| शब्दः | अर्थः | हिन्दी | English | मातृभाषया अर्थं लिखत |
|---|---|---|---|---|
| अन्वेष्टव्यम् (अनु + √इष् + तव्यत्) |
अनुसरणीयम् | खोज करनी चाहिए | Explore | |
| अवबुद्धम् (अव + √बुध् + क्त) |
ज्ञातम् | समझा गया | Understood | |
| उदीरितम् (उद् + √ईर् + क्त) |
उक्तम् / प्रकीर्तितम् | कहा गया | Spoken | |
| कामः | इच्छा | इच्छा | Desire | |
| कुर्वीत | कुर्यात् | करना चाहिए | Should do | |
| धृतिः | धैर्यम् | धैर्य | Courage | |
| धीः | बुद्धिः | बुद्धि | Intelligence | |
| निष्क्रान्तिः | बहिर्गमनम् | बाहर जाना | Going out | |
| परिहर्तव्यम् | त्यक्तव्यम् | त्याग करना चाहिए | To be discarded | |
| प्रकीर्तितम् | प्रकाशितम् | प्रकट हुआ | Revealed | |
| प्राणः | प्राणवायुः | प्राण वायु | Life-breathe | |
| ब्रह्म | परमात्मा | परमात्मा | Supreme being | |
| भूतानि | प्राणिनः | प्राणी जन | Living beings | |
| विचिकित्सा | सन्देहः | सन्देह | Doubt | |
| विज्ञानम् | बुद्धिः | बुद्धि | Intellect | |
| विप्रमोक्षः | अत्यन्त मोक्षः | अत्यन्त मोक्ष | Final liberation | |
| विवर्धन्ते | विशेषेण वृद्धि प्राप्नुवन्ति | विशेष रूप से वृद्धि को प्राप्त होते हैं | Grow | |
| श्रद्धा | आदरः | निष्ठा | Faith | |
| सङ्कल्पः | प्रतिज्ञा | सङ्कल्प | Come into being | |
| सम्भवन्ति | जायन्ते | उत्पन्न होते हैं | Arise | |
| सर्वग्रन्थीनाम् | सर्वेषां ग्रन्थीनाम् | सभी गाँठों | Of all the doubts | |
| साधनीयम् | संस्करणीयम् | संस्कार करना चाहिए | Should be achieved | |
| स्मृतिलम्भे | स्मृतेः लम्भे | आत्मज्ञान की प्राप्ति | Obtaining everlasting memory | |
| हातव्याः | त्यक्तव्याः | त्याग करना चाहिए | Should be sacrificed | |
| ह्रीः | लज्जा | लज्जा | Modesty |
| एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|
| वर्तते | ||
| वन्दताम् | वन्देताम् | वन्दन्ताम् |
| वन्दस्व | वन्देथाम् | वन्दध्वम् |
| वन्दै | वन्दावहै | वन्दामहै |
| कुरुताम् | कुर्वीताम् | कुर्वन्ताम् |
| कुरुष्व | कुर्वीथाम् | कुरुध्वम् |
| कुरवै | कुर्वावहै | कुर्वामहै |
| एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|
| मोदताम् | ||
| वर्धताम् |
उदाहरणम् — सः अन्नं सदा ईश्वरबुद्ध्या सेवते।
भवान् सदा अन्नम् ईश्वरबुद्ध्या सेवताम्।
| (क) बालकः अन्यस्य निन्दां न कुरुते। | भवान् |
| (ख) मम जीवने यशो वर्धते। | तव |
| (ग) अहं बौद्धिकविकासाय सदा योगासनं कुर्वे। | त्वं |
| (घ) रमेशः सर्वदा सत्यं भाषते। | दिनेशः |
| (ङ) छात्रः लक्ष्यसिद्ध्यर्थं कष्टं सहते। | अहं |
| (च) साधवः सर्वदा स्मरन्ति। | भवन्तः |
| (छ) भवान् योगेन आरोग्यं लभते। | अहं |
| (ज) रमा सदा सत्कर्मणि यतते। | लता |
| (झ) भवतः ईश्वरं वन्दते। | त्वं |
कर्तृवाच्ये कर्तरि प्रथमा विभक्तिः। कर्मणि द्वितीया विभक्तिः। क्रिया कर्तृपदानुसारीणी भवति। यतोहि कर्तृवाच्ये कर्तुः प्राधान्यं भवति अतः क्रियापदस्य वचनं पुरुषश्च कर्तृपदानुसारं भवतः। तत्रैव— कर्मवाच्ये कर्मणि प्रथमा, कर्तरि तृतीया, क्रिया कर्मपदानुसारीणी भवति। कर्मवाच्ये कर्मकारकस्य प्राधान्यं भवति अतः क्रियायाः वचनं पुरुषश्च कर्मपदानुसारं भवतः। कर्मवाच्यप्रयोगे क्रियापदानि आत्मनेपदयुक्तानि भवन्ति।
यथा — रामः ग्रामं गच्छति इति कर्तृवाच्यम् अस्ति। अत्र रामः कर्तृवाचक पदम्, अतः तत्र प्रथमा विभक्तिः। ग्रामम् इति कर्मवाचक पदम् अतः द्वितीया विभक्तिः। गच्छति इति क्रियापदं कर्तृनुसारी भवति, अतः एकवचने। अश्रेव कर्मवाच्यप्रयोगे — रामेण ग्रामः गम्यते इति वाक्यं भवति। अत्र रामेण इति कर्तृपदम्, अतः तृतीया विभक्तिः। ग्रामः इति कर्मवाचकपदम्, तस्मात् प्रथमा। क्रिया कर्मपदानुसारीणी एकवचने, आत्मनेपदयुक्ता च।
तत्रैव छात्राः विद्यालयं गच्छन्ति इत्यत्र छात्राः इति कर्तृपदं बहुवचने वर्तते, अतः क्रियापदमपि बहुवचने अस्ति। अश्रेव कर्तृवाच्यस्य कर्मवाच्यप्रयोगे छात्रैः विद्यालयः गम्यते इति भवति। अत्र कर्मपदम् (विद्यालयः) एकवचने अस्ति, अतः क्रियापि एकवचने भवति।
कर्तृवाच्यम्
- रामः पाठं पठति।
- छात्राः विद्यालयं गच्छन्ति।
- बालिकाः गीतं गायन्ति।
- छात्रः श्लोकान् लिखति।
- माता पुत्रं पश्यति।
- मनः सर्वाणि इन्द्रियाणि सञ्चालयति।
- ब्रह्मज्ञानाय त्वं स्वयमेव अन्वेषणं कुरु।
- त्वं यत्नम् अभ्यासं च कुरु।
- शिष्यः गुरुं सेवते।
कर्मवाच्यम्
- रामेण पाठः पठ्यते।
- छात्रैः विद्यालयः गम्यते।
- बालिकाभिः गीतं गीयते।
- छात्रेण श्लोकाः लिख्यन्ते।
- मात्रा पुत्रः दृश्यते।
- मनसा सर्वाणि इन्द्रियाणि सञ्चाल्यन्ते।
- ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्।
- त्वया यत्नः, अभ्यासश्च क्रियताम्।
- शिष्येण गुरुः सेव्यते।
(परि + हृ + तव्यत् / परिहरणीयम् (परि + हृ + अनीय) इति ।
योग्यार्थे — पानीयं जलम्। कर्तव्यं / करणीयं = कर्म।
| विधिलिङ्लकारः / लोट्लकारः / लुट्लकारश्च | तव्यत्-प्रत्ययः | अनीय-प्रत्ययः |
|---|---|---|
| अन्नं न परिहरेत् / परिहरतु / परिहरिष्यति | अन्नं न परिहर्तव्यम् | अन्नं न परिहरणीयम् |
| मानवः क्रोधं त्यजेत् / त्यजतु / त्यक्ष्यति | मानवेन क्रोधः त्यक्तव्यः | मानवेन क्रोधः त्यजनीयः |
| मनः सदा सत्कर्मणि साध्नुयात् / साध्नोतु / साधयिष्यति | मनः सदा सत्कर्मणि साध्यव्यम् | मनः सदा सत्कर्मणि साधनीयम् |
| सर्वदा ईश्वरं सेवेत / सेवताम् / सेविष्यते | सर्वदा ईश्वरः सेवितव्यः | सर्वदा ईश्वरः सेवनीयः |
| प्रतिदिनं योगासनं करोतु / कुर्यात् / करिष्यति | प्रतिदिनं योगासनं कर्तव्यम् | प्रतिदिनं योगासनं करणीयम् |
| पुल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
|---|---|---|
| मया परोपकारः कर्तव्यः | मया प्राणिषु दया कर्तव्या | मया योगासनं कर्तव्यम् |
| शिष्येण वेदः पठितव्यः | शिष्येण गीता पठितव्या | शिष्येण संस्कृतं पठितव्यम् |
| सर्वथा धर्मः रक्षणीयः | मातृभूमिः रक्षणीया | आरोग्यं रक्षणीयम् |
| त्वया क्रोधः त्यक्तव्यः | ईर्ष्या त्यक्तव्या | दूषितान्नं त्यक्तव्यम् |
| अस्माभिः प्रतिदिनं योगः करणीयः | प्रतिदिनं मया क्रीडा करणीया | अस्माभिः समयेन भोजनं करणीयम् |
| एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|
| शिष्येण वेदः पठितव्यः | शिष्येण वेदो पठितव्यौ | शिष्येण वेदाः पठितव्याः |
| अस्माभिः वेदः पठनीयः | अस्माभिः वेदो पठनीयौ | अस्माभिः वेदाः पठनीयाः |
| त्वया गीतं पठितव्यम् | त्वया गीते पठितव्ये | त्वया गीतानि पठितव्यानि |
| मया उद्याने लता दृश्यते | मया उद्याने लते दृश्येते | मया उद्याने लताः दृश्यन्ते |
| मया क्रोधः त्यक्तव्यः | भवता लोभमोहौ त्यक्तव्यौ | त्वया दोषाः त्यक्तव्याः |
| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | वन्दते | वन्देते | वन्दन्ते |
| मध्यमपुरुषः | वन्दसे | वन्देथे | वन्दध्वे |
| उत्तमपुरुषः | वन्दे | वन्दावहे | वन्दामहे |
| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | कुरुते | कुर्वाते | कुर्वते |
| मध्यमपुरुषः | कुरुषे | कुर्वीथे | कुर्वध्वे |
| उत्तमपुरुषः | कुर्वे | कुर्वावहे | कुर्महे |
| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | भवतः देवं वन्दते | भवतो देवं वन्देते | भवन्तः देवं वन्दन्ते |
| मध्यमपुरुषः | त्वं देवं वन्दसे | युवां देवं वन्देथे | यूयं देवं वन्दध्वे |
| उत्तमपुरुषः | अहं देवं वन्दे | आवां देवं वन्दावहे | वयं देवं वन्दामहे |
- बालकः उद्याने रमते
- शिष्यः गुरुं सेवते
- रात्रौ चन्द्रः राजते
- वृक्षः वायुना कम्पते
- कण्ठे हारः शोभते
- योगासनेन मानवः आरोग्यं लभते
- भिक्षुकः धनं याचते
- छात्रः गृहकार्यं कुरुते
- बालकाः उद्याने रमन्ते
- शिष्याः गुरुं सेवन्ते
- साधुपुरुषाः सर्वत्र राजन्ते
- वृक्षाः वायुना कम्पन्ते
- वृक्षेषु पुष्पाणि शोभन्ते
- योगासनेन मानवाः आरोग्यं लभन्ते
- भिक्षुकाः धनं याचन्ते
- छात्राः गृहकार्यं कुर्वते
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥
अन्वय: हे महीपते ! सर्वभूतानि आहारात् सम्भवन्ति, आहारेण जन्तवः विवर्धन्ते, तेन आहारेण जीवन्ति च।
भावार्थ: हे राजन्! सर्वे प्राणिनः अन्नादिभोज्यपदार्थेभ्यः जायन्ते। प्राणिनः आहारेण एव शारीरस्य विकासं प्राप्नुवन्ति। तेन आहारेण एव जीवन्ति।
आहारशुद्धिः: मानसिक-बौद्धिक-विकासाय सर्वदा सात्त्विक हितकारकं च आहारं सेवताम्। सात्त्विकम् अन्नं मनसि सद्भावान् गुणांश्च विकासयति। तेन अस्माकं स्मृतिशक्तेः आध्यात्मिकशक्तेः अन्नमयादिकोशाणां च विकासो भवति।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः।
मरणं तस्य निष्क्रान्तिर्ततो वायुं निरोधयेत्॥
अन्वय: यावद् देहे वायुः स्थितः तावत् जीवनम् उच्यते। तस्य निष्क्रान्तिः मरणम्, ततः वायुं निरोधयेत्।
भावार्थ: यावत् कालपर्यन्तं प्राणवायुः शरीरे रक्षितो भवति, तावत् कालपर्यन्तं जीवनं भवति। वायोः शरीराद् निर्गमनम् एव मरणम् इति। अस्मात् हेतोः प्राणवायुं रक्षेत्। प्राणमयकोशविकासाय अस्माभिः सर्वदा प्राणायामः, आसनानि, च करणीयानि। शयनं जागरणं च यथासमयं करणीयम्।
बन्धाय विषयासक्तं मुक्त्ये निर्विषयं स्मृतम् ॥
अन्वय: मनः एव मनुष्याणां बन्धमोक्षयोः कारणं, विषयासक्तं बन्धाय, निर्विषयं मुक्त्ये स्मृतम् अस्ति।
भावार्थ: मनुष्याणां बन्धस्य मोक्षस्य च कारणं मन एव भवति। यदि मनः विषयेषु आसक्तं भवति अर्थात् कामादिविषययुक्तं भवति तर्हि बन्धाय कारणं भवति। यदि मनः विषयेषु आसक्तं न भवति तर्हि बन्धाय कारणं न भवति। यदि अस्माकं मनः निर्मलं शान्तं राग-द्वेष-शोकादिरहितं च भवति तर्हि मानसिकशक्तेः, मनोमयकोशस्य च विकासो भवति। शास्त्रेषु मनसः द्विविधं रूपं वर्ण्यते— (१) शुद्धम् (२) अशुद्धम् इति।
अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् ॥
- अन्नादेव खलु इमानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति ।
- अन्नं हि भूतानां ज्येष्ठम्। तस्मात् सर्वोषधमुच्यते ।
- अन्नं न निन्द्यात् । अन्नं बहु कुर्वीत ।
- प्राणो हि भूतानाम् आयुः। प्राणे शरीरं प्रतिष्ठितम्। प्राणो वै ज्येष्ठः श्रेष्ठश्च ।
- कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्कीर्धीर्भीरित्येतत् सर्वं मन एव ।
- तन्मे मनः शिवसङ्कल्पमस्तु ।
- एका छात्रसंगोष्ठीं आयोज्य अस्य पाठस्य अस्माकं जीवने कीदृशी प्रासङ्गिकता अस्तीति स्वविचारान् उपस्थापयत।
- पाठे आगतानाम् उपनिषद्वचनानाम् आशयं दशसु वाक्येषु प्रकटयत।
- पाठे आगतानि क्रियापदानि चित्वा विंशतिवाक्यानि रचयत।
- अन्नरक्षणाय भवता के उपायाः क्रियन्ते इति वर्णयत।
- मनसः कार्यं दशसु वाक्येषु निरूपयत।
- केषाञ्चन धातुनाम् आत्मनेपदिधातूनां लट्-लोट्लकारयोः त्रिषु पुरुषेषु रूपाणि स्मरत लिखत च।
- अस्माकं जीवने प्रत्येकं कोशस्य विकासाय किं किं कर्तुं शक्यते इत्यपि चर्चां कुरुत।