अष्‍टम: पाठ:

qr




अन्‍नाद् आनन्दं प्रति

संस्कृतवाङ्गये उपनिषत्-साहित्यस्य विशिष्टं महत्त्वपूर्ण च स्थानम् अस्ति। उपनिषत्सु अनेके ज्ञानप्रदाः संवादाः सन्ति । तैत्तिरीयोपनिषदि समग्रजीवनविकासाय पञ्चकोषाणां महत्त्वं पितापुत्रसंवादरूपेण वर्णितम्। तादृशज्ञानप्रदसंवादानाम् अध्ययनेन बोधनेन च वयम् आत्मविकासं कर्तुं शक्नुमः । अस्मिन् पाठे वयम् पितापुत्रयोः भृगुवरुणयोः संवादं पठिष्यामः ।

(एका ब्रह्मज्ञानाय तत्परः वरुणस्य पुत्रः भृगुः सविनयं पितरं प्रति गत्वा निवेदयति)
Screenshot 2026-05-08 151810
भृगुः
अधि भोः पितः ! अभिवादयेऽहं सादरम्।
भगवन् ! ब्रह्मविषये मम काचिद् जिज्ञासा वर्तते। किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते ? कृपया उपदिशतु।

वरुणः
पुत्र ! शुभं भूयात्। ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्। यतः अध्ययनस्य क्रियताम्। तपस्तप्यताम्। तपसैव ज्ञायते।
Screenshot 2026-05-08 151827
वरुणः:
कथम् अन्नं ब्रह्मेण ज्ञातम् ?
Screenshot 2026-05-08 152845

भृगुः:

हे पितः ! अन्नाद् एव प्राणिनः जायन्ते ।
अन्नेन एव प्राणिनः जीवन्ति । अन्नमेव शरीरं बलं च वर्धते । अतोऽन्नं ब्रह्म इति ।
Screenshot 2026-05-08 152853
आहारात् सर्वभूतानि सम्भवन्ति महीपते ।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥

वरुणः:
पुत्र ! त्वया सम्यग् अवबुद्धम् । अत उच्यते — अन्नं हि भूतानां ज्येष्ठम् । तस्मात् अन्नं सर्वोत्तमम् इति उच्यते ।
भृगुः:
अस्तु तात !
(पुनः भृगुः पर्वतं गत्वा बहूनि वर्षाणि तप आचरति । तपस्तप्त्वा पितुः समीपं गच्छति ।)
वरुणः:
हे पुत्र ! तपसा त्वया किं ज्ञातम् ?
भूगुः:
हे पितः ! प्राणो वै ब्रह्म इति।
वरुणः:
हे भृगो ! कथं प्राणो ब्रह्म इति ज्ञातम्?
भूगुः:
हे भगवन् !
प्राणो हि भूतानाम् आयुः। प्राणे शरीरे प्रतिष्ठितम्।
प्राण एव अस्माकं जीवनम्। प्राणेन विना शरीरं क्रियार्हं भवति। अतः
प्राणो ज्येष्ठः श्रेष्ठश्च। तस्मात् प्राणो वै ब्रह्म इति विज्ञातम्।
वरुणः:
पुत्र ! त्वया सत्यम् उदीरितम्। प्राणाद् एव इमानि भूतानि जायन्ते। प्राणेन जातानि जीवन्ति। प्राणशक्त्या एव शारीरिकक्रियाशीलविकासो भवति। अत एव प्राणः सर्वथा रक्षणीयः। तस्मात् प्राणविकासाय प्रतिदिनं प्राणायामः कर्तव्यः। उक्तं हि —
यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते।
मरणं तस्य निष्क्रान्तिर्न ततो वायु निरोधयेत्।।
पुत्रः:
भगवन् तपसा प्राणतत्त्वस्य महत्त्वं ज्ञातवान्। किन्तु ब्रह्मज्ञानाय इतोऽपि कठोरं तपः कुर्वताम्।
Screenshot 2026-05-08 153038
भृगुः:
अस्तु पितः !
(स. पुनः बहुकालं यावत् वनं गत्वा तापस्यां कुरुते। तपस्तप्त्वा प्रसन्नवदनो
वरुणं निकष्य प्राप्नोति, वरुणः भृगुं पृच्छति —)
वरुणः:
हे पुत्र ! त्वया तपसा किं ज्ञातम्?
भृगुः:
हे तात ! मया तपसा मनो वै ब्रह्म इति ज्ञातम्।
वरुणः:
पुत्र ! कथं मनो वै ब्रह्म इति ?
भृगुः:
हे पितः ! मया तपसा एवम् अनुभूतं यद् अस्माकं मन एव सर्वकर्मणः प्रवर्तकम्। समस्तानि इन्द्रियाणि अपि मनसा सञ्चाल्यन्ते। मानवः मनसा एव सर्वं कार्यं सम्पादयति। मनसः सङ्कल्पाः, भावाः, विचाराश्च जायन्ते। अतो मनो वै ब्रह्म इति।
वरुणः:
हे वत्स ! त्वया सम्यग् अनुभूतं यद् मन एव सर्वमिति। अत उपनिषदि उच्यते—
कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा
धृतिरधृतिह्रीर्धीर्भीत्येतत् सर्वं मन एव।
वत्स ! मानवः चिन्तनशक्त्या मननशक्त्या दृढसङ्कल्पशक्त्या च सर्वं लङ्घुं शक्नोति। अतो मनसः शक्तिप्राप्तये मनः सदा सत्कर्मणि साधनीयम्। शोकादिरहितम् उत्साहयुक्तं शान्तं च करणीयम्। आहारशुद्धिश्च करणीया। किन्च हे पुत्र ! ब्रह्मज्ञानाय इतोऽपि प्रयतस्व।
भृगुः:
अस्तु श्रीमन् !
Screenshot 2026-05-08 153507 Screenshot 2026-05-08 153522
(पुनः भृगुः बहुकालं यावत् कठोरं तपः कुरुते, तपः कृत्वा
पितुः समीपं प्राप्नोति, पिता तं पृच्छति)
वरुणः:
हे भृगो ! तपसा किम् अनुभूतम्?
भृगुः:
हे पितः! मया तपसा सूक्ष्मज्ञानेन च इदं ज्ञातं यद् विज्ञानं वै ब्रह्म इति।
वरुणः:
पुत्र ! किं नाम विज्ञानम् ?
भृगुः:
हे भगवन् ! बुद्धितत्त्वमेव विज्ञानम्।
वरुणः:
पुत्र ! कथं विज्ञानं (बुद्धितत्त्वम्) ब्रह्म इति विज्ञातम् ?
भृगुः:
हे पितः ! बुद्धितत्त्वं विना अस्माकं
बोधशक्तेः, तर्कशक्तेः, विवेकशक्तेः, निर्णयशक्तेः,
स्मृतिशक्तेश्च विकासो न भवति।
बुद्धिरेव सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति।
समाजानां बुद्धौ एव विविधते।
अतः एव विज्ञानं वै ब्रह्म इति।
वरुणः:
पुत्र ! सत्यं भाषसे। अतः बौद्धिकविकासाय
विज्ञानमयकोषस्य विकासः कर्तव्यः। तदर्थं
प्रतिदिनं ध्यान योगाभ्यासं च कर्तव्यम्। किन्तु
यदि ब्रह्मणः स्वरूपं वेत्तुम् इच्छति तर्हि
इतोऽपि प्रयतताम्, अन्विष्यतां च।
भृगुः:
अस्तु श्रीमन् !

(भृगुः पुनः बहुकालं यावत् तपश्चर्या करोति । तपस्तप्त्वा प्रसन्नमुखेन पितुः निकटे समुपस्थितो भवति ।) परदा।

वरुणः:
भोः वत्स ! तपसा त्वया किं विज्ञातम् ?
भृगुः:
हे भगवन् ! अत्यन्त सूक्ष्मचिन्तने तपसा च मया एवम् अवबुद्धम्
आनन्दो वै ब्रह्म इति।
वरुणः:
हे पुत्र ! कथम् आनन्दो वै ब्रह्म इति ?
भृगुः:
हे पितः ! अस्माकं सर्वकर्माणि
आनन्दाय भवन्ति। अस्माकं कर्मणां
लक्ष्यं आनन्दप्राप्तिरेव। आनन्देन
एव प्राणिनो जीवन्ति। आनन्देन
रहितं जीवनं मृत्युसममिति। तस्मात्
आनन्दो वै ब्रह्म इति।
वरुणः:
हे वत्स ! त्वया सत्यं
प्रकीर्तितम्। अतः आनन्दप्राप्तये
प्रतिदिनं ध्यानं योगासनं च कर्तव्यम्।
प्राणिषु दया कर्तव्या। परोपकारः
कर्तव्यः। रागः, द्वेषः, ईर्ष्या, क्रोधः,
लोभः, मोहश्च हातव्याः। सर्वदा
ईश्वरं सेवतां मोदतां च।
भृगुः:
अस्तु श्रीमन् ! तथैव आचरामि।
वरुणः:
हे पुत्र ! त्वं तपसा सूक्ष्मविज्ञानेन च अन्नस्य, प्राणस्य, मनसः, विज्ञानस्य,
आनन्दस्य च महत्त्वं ज्ञातवान्। एतेः पञ्चभिरेव अस्माकं पूर्णविकासः
भवति, अतः एते ब्रह्मभेदेन व्यवह्रियन्ते। ब्रह्मणः स्वरूपं तु ततोऽपि परे
अस्ति। एतानि ब्रह्मज्ञानाय धारणाः सन्ति। यदि एतेषां क्रमशः विकासं
करिष्यसि तर्हि ब्रह्मणः स्वरूपबोधो भविष्यति। उक्तञ्च—
Screenshot 2026-05-08 162216
आहारशुद्धौ सत्त्वशुद्धिः। सत्त्वशुद्धौ ध्रुवा स्मृतिः।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः। इति
भृगुः:
अस्तु श्रीमन् ! अनुगृहीतोऽस्मि।

सर्वे शब्देन भारते

शब्दः अर्थः हिन्दी English मातृभाषया अर्थं लिखत
अन्वेष्टव्यम्
(अनु + √इष् + तव्यत्)
अनुसरणीयम् खोज करनी चाहिए Explore
अवबुद्धम्
(अव + √बुध् + क्त)
ज्ञातम् समझा गया Understood
उदीरितम्
(उद् + √ईर् + क्त)
उक्तम् / प्रकीर्तितम् कहा गया Spoken
कामः इच्छा इच्छा Desire
कुर्वीत कुर्यात् करना चाहिए Should do
धृतिः धैर्यम् धैर्य Courage
धीः बुद्धिः बुद्धि Intelligence
निष्क्रान्तिः बहिर्गमनम् बाहर जाना Going out
परिहर्तव्यम् त्यक्तव्यम् त्याग करना चाहिए To be discarded
प्रकीर्तितम् प्रकाशितम् प्रकट हुआ Revealed
प्राणः प्राणवायुः प्राण वायु Life-breathe
ब्रह्म परमात्मा परमात्मा Supreme being
भूतानि प्राणिनः प्राणी जन Living beings
विचिकित्सा सन्देहः सन्देह Doubt
विज्ञानम् बुद्धिः बुद्धि Intellect
विप्रमोक्षः अत्यन्त मोक्षः अत्यन्त मोक्ष Final liberation
विवर्धन्ते विशेषेण वृद्धि प्राप्नुवन्ति विशेष रूप से वृद्धि को प्राप्त होते हैं Grow
श्रद्धा आदरः निष्ठा Faith
सङ्कल्पः प्रतिज्ञा सङ्कल्प Come into being
सम्भवन्ति जायन्ते उत्पन्न होते हैं Arise
सर्वग्रन्थीनाम् सर्वेषां ग्रन्थीनाम् सभी गाँठों Of all the doubts
साधनीयम् संस्करणीयम् संस्कार करना चाहिए Should be achieved
स्मृतिलम्भे स्मृतेः लम्भे आत्मज्ञान की प्राप्ति Obtaining everlasting memory
हातव्याः त्यक्तव्याः त्याग करना चाहिए Should be sacrificed
ह्रीः लज्जा लज्जा Modesty
अत्र इदम् अवधेयम्
मानवः क्रमशः शरीरेण, प्राणेन, मनसा, बुद्ध्या, अध्यात्मशक्त्या च पूर्णविकासं लभते। अतः समग्रजीवनविकासाय (१) अन्नमयकोषः, (२) प्राणमयकोषः, (३) मनोमयकोषः, (४) विज्ञानमयकोषः, (५) आनन्दमयकोषः इति पञ्चकोषाः शास्त्रेषु वर्णिताः। एतेषामेव महत्त्वम् अस्मिन् पाठ्यक्रमे वर्णितम्। मानवः पञ्चकोषविवेकतः सम्यक् विकासं प्राप्नोति। एतेषां पञ्चकोषाणां परस्परं सम्बन्धः अस्ति। अन्नमयकोषस्य विकासं विना प्राणमयकोषस्य विकासः नैव भवितुं शक्नोति। अन्नमयकोषस्य प्राणमयकोषस्य च विकासं विना मनोमयकोषस्य विकासो न भवति। एवं क्रमेण क्रमिकविकासाय तावत् आदौ अन्नमयकोषस्य विकासाय यत्नः कर्तव्यः। ततः प्राणमयकोषस्य, मनोमयकोषस्य, विज्ञानमयकोषस्य आनन्दमयकोषस्य च विकासः कर्तव्यः। अनया क्रमिक-विकासपद्धत्या एव मानवः पूर्णतां प्राप्नोति।

अभ्यासाद् जायते सिद्धिः
१. एकेन पदेन रिक्तस्थानं पूरयत —
उदाहरणम् — अन्नेन शरीरं वर्धते।
(क) अन्नेन शरीरं वर्धते।
(ख) शरीरं प्रतिष्ठितम्।
(ग) विना शरीरं क्रियाशून्यं भवति।
(घ) एव इमानि भूतानि जायन्ते।
(ङ) समस्तानि इन्द्रियाणि सञ्चालयति।
(च) विना बोधशक्तेः तर्कशक्तेश्च विकासो न भवति।
(छ) एव सर्वकर्मणः प्रवर्तकम्।
२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत —
(क) भृगोः जिज्ञासा कस्मिन् विषये आसीत्?
(ख) भृगुणा ब्रह्मज्ञानाय किम् आचरितम्?
(ग) भृगुः प्रथमं तपसा ब्रह्मरूपेण किं ज्ञातवान्?
(घ) मनसः के जायन्ते?
(ङ) प्राणिनः कस्मात् जायन्ते?
(च) इन्द्रियाणि केन सञ्चालयन्ते?
(छ) शरीरं कुत्र प्रतिष्ठितम् अस्ति?
(ज) केन विना स्मृतिशक्तिविकासो न भवति?
(झ) भृगुः तपसा केषां महत्त्वं ज्ञातवान्?
३. उदाहरणं दृष्ट्वा अधोलिखितेषु ‘किं सत्यं किम् असत्यम्’ इति रिक्तस्थाने पूरयत —
उदाहरणम् — प्रस्तुते पाठे पितापुत्रयोः संवादः अस्ति
(क) प्रस्तुते पाठे पितापुत्रयोः संवादः अस्ति सत्यम्
(ख) अस्मिन् संवादे अन्नस्य महत्त्वं वर्णितम्
(ग) प्राणिनः मनसः जायन्ते इति कथनम् अस्ति
(घ) अन्नेन शरीरं वर्धते इति
(ङ) मनः सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति
(च) भृगुः वरुणस्य पुनराग्रजितः
(छ) भृगुः तपसा मनो ब्रह्मरूपेण ज्ञातवान्
(ज) विना योगेन तृतीय विभक्तिर्भवति
४. क्रियापदेन सह समुचितं पदं योजयत —
(क) प्राणिनः
(ख) शरीरम्
(ग) तपः
(घ) पितरं
(ङ) यत्नः
१. क्रियताम्
२. कुर्वताम्
३. जायन्ते
४. वर्धते
५. ब्रूते
५. अवशिष्ट-धातुरूपाणि पूरयत —
एकवचनम् द्विवचनम् बहुवचनम्
वर्तते
६. एतानि पदानि लट्-लकारस्य त्रिषु पुरुषेषु रूपाणि पठत लिखत च —
लभते, जायते, भाषते, विद्यते, मोदते, सेवते, सहते, शोभते, यतते, वर्धते, मन्यते, धावते, रोचते, कम्पते, याचते, स्पर्धते, लज्जते, क्षीयते
७. आत्मनेपदिधातूनां लोट्-लकारे त्रिषु पुरुषेषु अभ्यासं कुरुत लिखत च —
वन्द्-धातुः, लोट्-लकारः
वन्दताम् वन्देताम् वन्दन्ताम्
वन्दस्व वन्देथाम् वन्दध्वम्
वन्दै वन्दावहै वन्दामहै
कृ-धातुः, लोट्-लकारः
कुरुताम् कुर्वीताम् कुर्वन्ताम्
कुरुष्व कुर्वीथाम् कुरुध्वम्
कुरवै कुर्वावहै कुर्वामहै
एकवचनम् द्विवचनम् बहुवचनम्
मोदताम्
वर्धताम्
८. एतानि क्रियापदानि लोट्-लकारे त्रिषु पुरुषेषु पठत लिखत च —
लभताम्, सेवताम्, जयताम्, भाषताम्, विद्याताम्, सहताम्, यतताम्, याचताम्, स्पर्धेताम्, लज्जताम्, कुरुताम्
कृत्यपदानुसारं लोट्-लकारेण क्रियापदं परिवर्तयत —
लट्-लकारः

उदाहरणम् — सः अन्नं सदा ईश्वरबुद्ध्या सेवते।
लोट्-लकारः

भवान् सदा अन्नम् ईश्वरबुद्ध्या सेवताम्
(क) बालकः अन्यस्य निन्दां न कुरुते। भवान्
(ख) मम जीवने यशो वर्धते। तव
(ग) अहं बौद्धिकविकासाय सदा योगासनं कुर्वे। त्वं
(घ) रमेशः सर्वदा सत्यं भाषते। दिनेशः
(ङ) छात्रः लक्ष्यसिद्ध्यर्थं कष्टं सहते। अहं
(च) साधवः सर्वदा स्मरन्ति। भवन्तः
(छ) भवान् योगेन आरोग्यं लभते। अहं
(ज) रमा सदा सत्कर्मणि यतते। लता
(झ) भवतः ईश्वरं वन्दते। त्वं
कर्तृ-कर्मवाच्यियम्:

कर्तृवाच्ये कर्तरि प्रथमा विभक्तिः। कर्मणि द्वितीया विभक्तिः। क्रिया कर्तृपदानुसारीणी भवति। यतोहि कर्तृवाच्ये कर्तुः प्राधान्यं भवति अतः क्रियापदस्य वचनं पुरुषश्च कर्तृपदानुसारं भवतः। तत्रैव— कर्मवाच्ये कर्मणि प्रथमा, कर्तरि तृतीया, क्रिया कर्मपदानुसारीणी भवति। कर्मवाच्ये कर्मकारकस्य प्राधान्यं भवति अतः क्रियायाः वचनं पुरुषश्च कर्मपदानुसारं भवतः। कर्मवाच्यप्रयोगे क्रियापदानि आत्मनेपदयुक्तानि भवन्ति।

यथा — रामः ग्रामं गच्छति इति कर्तृवाच्यम् अस्ति। अत्र रामः कर्तृवाचक पदम्, अतः तत्र प्रथमा विभक्तिः। ग्रामम् इति कर्मवाचक पदम् अतः द्वितीया विभक्तिः। गच्छति इति क्रियापदं कर्तृनुसारी भवति, अतः एकवचने। अश्रेव कर्मवाच्यप्रयोगे — रामेण ग्रामः गम्यते इति वाक्यं भवति। अत्र रामेण इति कर्तृपदम्, अतः तृतीया विभक्तिः। ग्रामः इति कर्मवाचकपदम्, तस्मात् प्रथमा। क्रिया कर्मपदानुसारीणी एकवचने, आत्मनेपदयुक्ता च।

तत्रैव छात्राः विद्यालयं गच्छन्ति इत्यत्र छात्राः इति कर्तृपदं बहुवचने वर्तते, अतः क्रियापदमपि बहुवचने अस्ति। अश्रेव कर्तृवाच्यस्य कर्मवाच्यप्रयोगे छात्रैः विद्यालयः गम्यते इति भवति। अत्र कर्मपदम् (विद्यालयः) एकवचने अस्ति, अतः क्रियापि एकवचने भवति।

अधोलिखितानि वाक्यानि उच्चैः पठत अवगच्छत च —

कर्तृवाच्यम्

  • रामः पाठं पठति।
  • छात्राः विद्यालयं गच्छन्ति।
  • बालिकाः गीतं गायन्ति।
  • छात्रः श्लोकान् लिखति।
  • माता पुत्रं पश्यति।
  • मनः सर्वाणि इन्द्रियाणि सञ्चालयति।
  • ब्रह्मज्ञानाय त्वं स्वयमेव अन्वेषणं कुरु।
  • त्वं यत्नम् अभ्यासं च कुरु।
  • शिष्यः गुरुं सेवते।

कर्मवाच्यम्

  • रामेण पाठः पठ्यते।
  • छात्रैः विद्यालयः गम्यते।
  • बालिकाभिः गीतं गीयते।
  • छात्रेण श्लोकाः लिख्यन्ते।
  • मात्रा पुत्रः दृश्यते।
  • मनसा सर्वाणि इन्द्रियाणि सञ्चाल्यन्ते।
  • ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्।
  • त्वया यत्नः, अभ्यासश्च क्रियताम्।
  • शिष्येण गुरुः सेव्यते।
अत्र सर्वेषु उदाहरणेषु क्रियापरिवर्तनं कर्मपदानुसारम् अस्ति। अतः एतानि कर्मवाच्यस्य उदाहरणानि सन्ति। यो नियमः अत्र (तिङन्तस्थले) प्रदर्शितः सः एव नियमः कृत्-प्रत्ययस्थलेषु (क्त-तव्यत्-अनीय-प्रत्ययान्तपदेṣu) बोध्यः। केवलं तत् कर्मपदगत-लिङ्गानुसारं कृतन्तपदस्य लिङ्गं वचनं च भवतः। इति विशेषः। तव्यत्-अनीय-प्रत्ययी लुट्-लोट्- विधिलिङ्लकाराणां विषये योग्यश्च भवतः। यथा—
अन्नं न परिहरेत् / परिहरात् / परिहरिष्यति = अन्नं न परिहर्तव्यम्
(परि + हृ + तव्यत् / परिहरणीयम् (परि + हृ + अनीय) इति ।
योग्यार्थे — पानीयं जलम्। कर्तव्यं / करणीयं = कर्म।
तव्यत्-अनीय-प्रत्यययोः प्रयोगस्थलम्
विधिलिङ्लकारः / लोट्लकारः / लुट्लकारश्च तव्यत्-प्रत्ययः अनीय-प्रत्ययः
अन्नं न परिहरेत् / परिहरतु / परिहरिष्यति अन्नं न परिहर्तव्यम् अन्नं न परिहरणीयम्
मानवः क्रोधं त्यजेत् / त्यजतु / त्यक्ष्यति मानवेन क्रोधः त्यक्तव्यः मानवेन क्रोधः त्यजनीयः
मनः सदा सत्कर्मणि साध्नुयात् / साध्नोतु / साधयिष्यति मनः सदा सत्कर्मणि साध्यव्यम् मनः सदा सत्कर्मणि साधनीयम्
सर्वदा ईश्वरं सेवेत / सेवताम् / सेविष्यते सर्वदा ईश्वरः सेवितव्यः सर्वदा ईश्वरः सेवनीयः
प्रतिदिनं योगासनं करोतु / कुर्यात् / करिष्यति प्रतिदिनं योगासनं कर्तव्यम् प्रतिदिनं योगासनं करणीयम्


त्रिषु लिङ्गेषु तव्यत्-अनीय-प्रत्यययोः प्रयोगः
पुल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
मया परोपकारः कर्तव्यः मया प्राणिषु दया कर्तव्या मया योगासनं कर्तव्यम्
शिष्येण वेदः पठितव्यः शिष्येण गीता पठितव्या शिष्येण संस्कृतं पठितव्यम्
सर्वथा धर्मः रक्षणीयः मातृभूमिः रक्षणीया आरोग्यं रक्षणीयम्
त्वया क्रोधः त्यक्तव्यः ईर्ष्या त्यक्तव्या दूषितान्नं त्यक्तव्यम्
अस्माभिः प्रतिदिनं योगः करणीयः प्रतिदिनं मया क्रीडा करणीया अस्माभिः समयेन भोजनं करणीयम्


त्रिषु वचनेषु तव्यत्-अनीय-प्रत्यययोः प्रयोगः
एकवचनम् द्विवचनम् बहुवचनम्
शिष्येण वेदः पठितव्यः शिष्येण वेदो पठितव्यौ शिष्येण वेदाः पठितव्याः
अस्माभिः वेदः पठनीयः अस्माभिः वेदो पठनीयौ अस्माभिः वेदाः पठनीयाः
त्वया गीतं पठितव्यम् त्वया गीते पठितव्ये त्वया गीतानि पठितव्यानि
मया उद्याने लता दृश्यते मया उद्याने लते दृश्येते मया उद्याने लताः दृश्यन्ते
मया क्रोधः त्यक्तव्यः भवता लोभमोहौ त्यक्तव्यौ त्वया दोषाः त्यक्तव्याः
स्वाध्यायान्मा प्रमदः
१. आत्मनेपदिधातूनां लोट्-लकारे त्रिषु पुरुषेषु अभ्यासं कुरुत —
वन्द्-धातुः (लट्-लकारः)
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वन्दते वन्देते वन्दन्ते
मध्यमपुरुषः वन्दसे वन्देथे वन्दध्वे
उत्तमपुरुषः वन्दे वन्दावहे वन्दामहे
कृ-धातुः (लट्-लकारः)
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुरुते कुर्वाते कुर्वते
मध्यमपुरुषः कुरुषे कुर्वीथे कुर्वध्वे
उत्तमपुरुषः कुर्वे कुर्वावहे कुर्महे
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भवतः देवं वन्दते भवतो देवं वन्देते भवन्तः देवं वन्दन्ते
मध्यमपुरुषः त्वं देवं वन्दसे युवां देवं वन्देथे यूयं देवं वन्दध्वे
उत्तमपुरुषः अहं देवं वन्दे आवां देवं वन्दावहे वयं देवं वन्दामहे
२. एतेषु वाक्येषु निहितानि क्रियापदानि उच्चैः पठत —
एकवचनरूपाणि
  1. बालकः उद्याने रमते
  2. शिष्यः गुरुं सेवते
  3. रात्रौ चन्द्रः राजते
  4. वृक्षः वायुना कम्पते
  5. कण्ठे हारः शोभते
  6. योगासनेन मानवः आरोग्यं लभते
  7. भिक्षुकः धनं याचते
  8. छात्रः गृहकार्यं कुरुते
बहुवचनरूपाणि
  1. बालकाः उद्याने रमन्ते
  2. शिष्याः गुरुं सेवन्ते
  3. साधुपुरुषाः सर्वत्र राजन्ते
  4. वृक्षाः वायुना कम्पन्ते
  5. वृक्षेषु पुष्पाणि शोभन्ते
  6. योगासनेन मानवाः आरोग्यं लभन्ते
  7. भिक्षुकाः धनं याचन्ते
  8. छात्राः गृहकार्यं कुर्वते
३.
आहारात् सर्वभूतानि सम्भवन्ति महीपते ।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥
(महाभारतम् , वनपर्व 131/7)

अन्वय: हे महीपते ! सर्वभूतानि आहारात् सम्भवन्ति, आहारेण जन्तवः विवर्धन्ते, तेन आहारेण जीवन्ति च।

भावार्थ: हे राजन्! सर्वे प्राणिनः अन्नादिभोज्यपदार्थेभ्यः जायन्ते। प्राणिनः आहारेण एव शारीरस्य विकासं प्राप्नुवन्ति। तेन आहारेण एव जीवन्ति।

आहारशुद्धिः: मानसिक-बौद्धिक-विकासाय सर्वदा सात्त्विक हितकारकं च आहारं सेवताम्। सात्त्विकम् अन्नं मनसि सद्भावान् गुणांश्च विकासयति। तेन अस्माकं स्मृतिशक्तेः आध्यात्मिकशक्तेः अन्नमयादिकोशाणां च विकासो भवति।

आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः।
(छान्दोग्योपनिषद् ७/२६/२)
४.
यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते।
मरणं तस्य निष्क्रान्तिर्ततो वायुं निरोधयेत्॥
(हठयोगप्रदीपिका)

अन्वय: यावद् देहे वायुः स्थितः तावत् जीवनम् उच्यते। तस्य निष्क्रान्तिः मरणम्, ततः वायुं निरोधयेत्।

भावार्थ: यावत् कालपर्यन्तं प्राणवायुः शरीरे रक्षितो भवति, तावत् कालपर्यन्तं जीवनं भवति। वायोः शरीराद् निर्गमनम् एव मरणम् इति। अस्मात् हेतोः प्राणवायुं रक्षेत्। प्राणमयकोशविकासाय अस्माभिः सर्वदा प्राणायामः, आसनानि, च करणीयानि। शयनं जागरणं च यथासमयं करणीयम्।

५.
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्त्ये निर्विषयं स्मृतम् ॥
(अमृतबिन्दु—उपनिषद् १/२)

अन्वय: मनः एव मनुष्याणां बन्धमोक्षयोः कारणं, विषयासक्तं बन्धाय, निर्विषयं मुक्त्ये स्मृतम् अस्ति।

भावार्थ: मनुष्याणां बन्धस्य मोक्षस्य च कारणं मन एव भवति। यदि मनः विषयेषु आसक्तं भवति अर्थात् कामादिविषययुक्तं भवति तर्हि बन्धाय कारणं भवति। यदि मनः विषयेषु आसक्तं न भवति तर्हि बन्धाय कारणं न भवति। यदि अस्माकं मनः निर्मलं शान्तं राग-द्वेष-शोकादिरहितं च भवति तर्हि मानसिकशक्तेः, मनोमयकोशस्य च विकासो भवति। शास्त्रेषु मनसः द्विविधं रूपं वर्ण्यते— (१) शुद्धम् (२) अशुद्धम् इति।

६.
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च।
अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् ॥
(अमृतबिन्दु—उपनिषद् १/१)
७.
मनसः विषयाः —
कामः, सङ्कल्पः, विचिकित्सा, श्रद्धा, अश्रद्धा, धृतिः, अधृतिः, ह्रीः, धीः, भीः इत्येतत् सर्वं मन एव।
(बृहदारण्यकोपनिषद् १/५/३)
८.
यन्मनसा ध्यायति तद् वाचा वदति यद् वाचा वदति तत् कर्मणा करोति यत् कर्मणा करोति तदभिसम्पद्यते।
एतानि उपनिषद्वचनानि उच्चैः पठन्तु स्मरन्तु च -
  1. अन्नादेव खलु इमानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति ।
  2. अन्नं हि भूतानां ज्येष्ठम्। तस्मात् सर्वोषधमुच्यते ।
  3. अन्नं न निन्द्यात् । अन्नं बहु कुर्वीत ।
  4. प्राणो हि भूतानाम् आयुः। प्राणे शरीरं प्रतिष्ठितम्। प्राणो वै ज्येष्ठः श्रेष्ठश्च ।
  5. कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्कीर्धीर्भीरित्येतत् सर्वं मन एव ।
  6. तन्मे मनः शिवसङ्कल्पमस्तु ।
यस्तु क्रियावान् मनुष्यः स विद्वान्
  1. एका छात्रसंगोष्ठीं आयोज्य अस्य पाठस्य अस्माकं जीवने कीदृशी प्रासङ्गिकता अस्तीति स्वविचारान् उपस्थापयत।
  2. पाठे आगतानाम् उपनिषद्वचनानाम् आशयं दशसु वाक्येषु प्रकटयत।
  3. पाठे आगतानि क्रियापदानि चित्वा विंशतिवाक्यानि रचयत।
  4. अन्नरक्षणाय भवता के उपायाः क्रियन्ते इति वर्णयत।
  5. मनसः कार्यं दशसु वाक्येषु निरूपयत।
  6. केषाञ्चन धातुनाम् आत्मनेपदिधातूनां लट्-लोट्लकारयोः त्रिषु पुरुषेषु रूपाणि स्मरत लिखत च।
  7. अस्माकं जीवने प्रत्येकं कोशस्य विकासाय किं किं कर्तुं शक्यते इत्यपि चर्चां कुरुत।