Table of Contents
रामायणं महाभारतं चेति द्वौ प्रसिद्धौ इतिहास-ग्रन्थौ। महाभारतम् अवलम्ब्य बहवो ग्रन्थाः विरचिताः । तेषु महामहोपाध्यायेन श्रीरङ्गनाथशर्मणा विरचितम् एकचक्रम् इति लघुरूपकम् अन्यतमम्। महाभारते प्रतिपादितः बकासुरवधः अस्य कथावस्तु। अयं पाठ्य-भागः एकचक्रम् इति रूपकस्य तृतीय-चतुर्थाङ्काभ्याम् उद्धृतः ।
अङ्कद्वयस्य पूर्वकथाप्रसङ्गःपाण्डवाः एकचक्रनगरे कस्यचित् ब्राह्मणस्य गृहे निवसन्ति। गृहस्वामिनः गृहे रोदनध्वनिं श्रुत्वा तत्र गता पाण्डवानां माता कुन्ती रोदनकारणं पृच्छति। ततः शोकाकुलेन परिवारेण सा ज्ञापिता यत् एकचक्रमगरवासिनां नातिदूरस्थितेन बकनामना असुरेण सह सन्धिनियमानुसारं प्रतिदिनं करिचत् नगरवासी स्वेच्छया असुरस्य भक्ष्यं भवेत्, तद्दिने पर्यायेण तस्यैव ब्राह्मणपरिवारस्य बलिदानस्य वारः आसीत् इति। तेषां दुःस्थितिं ज्ञात्वा स्वपुत्रेषु एकं बकासुरस्य समीपं प्रेषयामीति कुन्ती प्रतिज्ञां कृतवती।
इमं विषयं ज्ञात्वा ब्राह्मणेन कृतस्य उपकारस्य प्रत्युपकारकालः सन्निहितः इति भावयन् भीमः मृष्टान्न-भाण्डसहितः बकासुरस्य समीपं गन्तुम् उच्युक्तः भवति।
कुन्ती पुत्र ! किञ्चित् प्रतिश्रुतं मया प्रतिवेशिने ब्राह्मणाय।
भीमः सम्यगनुष्ठितम्। आतिथेयः किल तत्र भवान् उपकर्ता वसति प्रदानेन।
कुन्ती आकर्णय, अस्य एकचक्रस्य पुरस्यादूरे पर्वते वसति बकनामा दैत्यः।
भीमः श्रुतं तस्य दुरात्मनो वृत्तम्। पर्यायक्रमेण तस्मै बलिमाहरन्ति पौराः।
कुन्ती श्वः प्रभाते भवत्यस्य विप्रस्य पर्यायः ।
भीमः बाढम् ।
कुन्ती न चैतावत् । मानभुोजी स राक्षसः श्रूयते । भोज्यसमाहारे मानुषोऽपि तस्मै प्रेषयितव्यः । तस्माद् बालकस्य पिता तपस्वी शोचति ।
भीमः विदितमवशिष्टम् । मत्युग्रेषु कोऽपि प्रेषयिष्यत इति भवत्या प्रतिश्रुतम् ।
कुन्ती (मौनमवलम्बते)
भीमः मातः ! नास्त्यत्र किमप्यनुशोचितव्यम् । क्षत्रियाण्या यदुचितं तदनुष्ठितम् । युक्तोऽयं प्रतिश्रवः । श्रोत्रियोऽयं प्रतिवेशी प्रत्युपकारमर्हति । पश्य —
भैक्षप्रदानेन चिरं परैरुपकृता वयम् ।
कृतं प्रतिकृतं भूयादेष धर्मः सनातनः ॥
कुन्ती वत्स भीम ! अनुरूपमभिहितं भरतवंशप्रदीपेन मम पुत्रेण । भक्ष्यभोज्यादिकं मृष्टान्नं शकटपूरं पूरयित्वा प्रेषणीयं भवति राक्षसाय । तदेतत् सज्जीक्रियतामिति प्रेरयिष्यामि ब्राह्मणकुटुम्बम् ।
भीमः अहो ! प्रियं मे । सज्जीक्रियताम् । अपरमिदं प्रियमनुष्ठितं मे भवत्या । प्रभूतमुपाहरिष्यते भोजनम् ।

युधिष्ठिरः (विलोक्य) अये ! हर्षेण उत्फुल्लाक्ष इव वत्सो भीमः ।
भीमः प्रभूतमुपस्थितं मे भोजनम् ।
अर्जुनः स्थाने खलु प्रहर्षः औदरिकस्य ।
नकुलः ओष्ठौ स्फुरतः इवाग्रजस्य ।
भीमः पश्यत, बाहू अपि स्फुरतः ।
सहदेवः अपि हस्तद्वयेन भोक्ष्यसे ?
भीमः तदपि भविष्यति । न केवलं भोजनमुपस्थितम् । आयोधनमपि ।
युधिष्ठिरः आयोधनमिति । केन ?
भीमः बकासुरेण ।
युधिष्ठिरः अम्ब ! किमिदानीमुपक्षिप्तम् ?
कुन्ती पुत्रकाः ! बकासुरस्य भोजनपरिकल्पनं जानीथ पौराणाम् । तदिदानीं पर्यायपतितं प्रतिवेशिनो ब्राह्मणस्य ।
युधिष्ठिरः ततस्ततः ।
कुन्ती स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते ।
युधिष्ठिरः ज्ञातमवशिष्टं मातः ! न खलु भवत्या अध्यवसितं समर्थये । यस्य वीरस्य भुजबलमाश्रित्य वयं सुखं शेमहे, यच्च चिन्तयन् दुर्योधनो निद्रां न लभते, तस्य भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ?
भीमः धर्मं विजानता भवता धर्मसङ्ग्राहोऽत्र द्रष्टव्यः । न हि मातुराज्ञा प्रत्यादेशमर्हति ।
युधिष्ठिरः वत्स भीमसेन ! बलवान् मानुषभोजी स राक्षसः इति श्रूयते ।
भीमः ततः किम् ? राक्षसध्वंसी भीमः स्मर्यते । अलं विशङ्कया । हनिष्यामि तं दुरात्मानम् ।
अर्जुनः धनुर्धरोऽहमनुगमिष्यामि ।
भीमः मा मैवम् । न हि खरदंष्ट्रो मृगाधिपः सहायमपेक्षते ।
इमौ हि पीवरौ बाहू सहायौ सहजौ मम ।
बकं विध्वंसयिष्यामि सिंहः क्षुद्रमृगं यथा ॥

बकः मानुषापसद, परिवेषय मे भोजनम् ।
भीमः सर्वं परिवेषितं मदीय-जठरस्थाय भगवते हुताशनाय । त्वां धर्मदूषणं हन्तुम् आगतोऽहम् ।
बकः कथं, कः खलु अधर्मः मया सेवितः ?
भीमः नरभक्षणम् ।
बकः नरभक्षणं नाम मांसाशिनां राक्षसानां धर्मः ।
भीमः नररक्षणं नाम भूमिपालानां क्षत्रियाणां धर्मः ।
बकः क्षत्रियोऽसि ?
भीमः बाढम्, क्षत्रियोऽस्मि ।
रक्षिता साधुलोकानां वरिष्ठो बाहुशालिनाम् ।
निषूदको हिडिम्बस्य मृत्युश्चास्मि भवादृशाम् ॥
बकः अहह ! मम मित्रस्य हिडिम्बस्य हन्ता कौन्तेयो भवान् ?
भीमसेनः कामम् ! कौन्तेयोऽस्मि भीमसेनः ।
बकः इदमस्ति मे भागधेयम् । चिरान्विष्टो मृगः स्वयमुत्पत्तितो व्याघ्रगह्यम् । श्लाघनीयोऽसि मे रिपुः ।p
भीमसेनः इदं मे स्वस्त्ययनं यन्मां श्लाघनीयं रिपुं मन्यसे । अनुवर्तस्व ते मित्रं हिडिम्बम् ।
बकः वाचाट ! क्षत्रियडिम्भ, गृहाण शस्त्रम् । शातयामि ते दर्पम् ।
भीमसेनः अलं शस्त्रग्रहणविदम्बनेन, त्वन्मस्तकास्थिभिदुरोऽस्ति ममैष मुष्टिः ।
(उभौ प्रहरतः । मल्लयुद्धं प्रवर्तते । हतः पतति बकः ।)

सर्वं शब्देन भासते
| शब्दः | अर्थः | हिन्दी | English | मातृभाषया अर्थं लिखत |
|---|---|---|---|---|
| अभिहितम् (अभि + √धा + क्त, नपुं.प्र.ए.व.) | उक्तम् | उक्त | Said | |
| आकर्णय (आ + कर्ण + णिच्, लोट्, म.पु.ए.व.) | शृणु | सुनो | Listen | |
| आतिथेयः (पुं.प्र.ए.व.) | अतिथौ साधुः, अतिथिसेवाकारकः | अतिथि की सेवा करने वाला | Host | |
| आयोधनम् (नपुं.द्वि.ए.व.) | युद्धम् | युद्ध | Battle | |
| उत्फुल्लाक्षः (बहुव्रीहि, पुं.प्र.ए.व.) | उत्फुल्ले अक्षिणी यस्य सः, विकसितनयनः | विकसितनयन | One with wide-open eyes | |
| औदारिकः (उदर + इक्, पुं.प्र.ए.व.) | भोजनप्रियः | केवल पेट भरने वाला | One who just eats continuously | |
| कामम् (अव्ययम्) | निश्चयेन | निश्चित ही | Certainly | |
| जठरस्थाय (पुं.च.ए.व.) | जठरे तिष्ठति इति, तस्मै | पेट में विद्यमान के लिए | For what is inside the stomach | |
| निषूदकः (पुं.प्र.ए.व.) | विनाशकः | विनाशक | Destroyer | |
| क्षुद्रमृगम् (पुं.द्वि.ए.व.) | क्षुद्रः मृगः तम् | छोटे पशु को | Small animal | |
| क्षत्रियाण्या (स्त्री.तृ.ए.व.) | क्षत्रियस्य पत्नी, तया | क्षत्रिय की पत्नी से | By the wife of Kshatriya | |
| परिदेवयते (परि + √दिव् + णिच्, आ.प.प्र.पु.ए.व.) | विलपति | विलाप करता है | Laments | |
| परिवेषय (परि + √विष् + लोट्, म.पु.ए.व.) | स्थापय | तुम परोसो | (You) Serve | |
| पीवरौ (पुं.प्र.द्वि.व.) | स्थूलौ (दो) | (दो) स्थूल | Two Stout | |
| पौराः (पुं.प्र.ब.व.) | नागरिकाः | नागरिक | Citizens | |
| प्रतिवेशी (पुं.प्र.ए.व.) | निकट गृहवासी | पड़ोसी | Neighbour | |
| प्रतिश्रुतम् (प्रति + √श्रु + क्त, पुं.द्वि.ए.व.) | प्रतिज्ञातम् | प्रतिज्ञात | Promised | |
| प्रभूतम् (पुं.द्वि.ए.व.) | अधिकम् | अधिक | Abundant | |
| प्रतिश्रवः (पुं.प्र.ए.व.) | प्रतिज्ञा वचन | प्रतिज्ञा | Promise | |
| प्रत्यादेशम् (पुं.द्वि.ए.व.) | अनुल्लङ्घनम् | अवज्ञा | Disobedience | |
| बाढम् (अव्ययम्) | नूनम् | निश्चित | Certainly | |
| मल्लयुद्धम् (पुं.द्वि.ए.व.) | मल्लानां युद्धम् | पहलवानों का युद्ध | Wrestling | |
| मानुषापसद (सप्तमी-तत्पुरुषः, पुं.सं.ए.व.) | मानुषेषु अपसद | निकृष्ट मानव | O' Human of low cadre | |
| मृष्टान्नम् (कर्मधारय) | मृष्टम् अन्नम् | स्वादिष्ट भोजन | Tasty Food | |
| वाचाट (पुं.सं.ए.व.) | प्रलापक | डींग मारने वाले | O' Boastful | |
| विप्रस्य (पुं.ष.ए.व.) | ब्राह्मणस्य | ब्राह्मण का | Of Brahmana | |
| विशङ्कया (स्त्री.तृ.ए.व.) | विशेषसंशयेन | विशिष्ट संशय से | By the doubt | |
| व्याघ्रगह्यम् (पुं.द्वि.ए.व.) | व्याघ्रस्य गह्यम् | बाघ का निवास स्थान | Tiger-Cave | |
| श्रोत्रियः (पुं.प्र.ए.व.) | श्रोत्रम् अधीते इति | जिसने वेद पढ़ा हो | One who has read the Vedas | |
| हनिष्यामि (√हन् + लृट्, उ.पु.ए.व.) | वधं करिष्यामि | मार दूँगा | Will kill | |
| हुताशनाय (पुं.च.ए.व.) | हुतम् अशनम् | अग्नि को | For the Fire |
अन्न इदम् अवधेयम्
श्लोकानां भावार्थः
१. वयं नागरिकैः बहुकालं भिक्षा-प्रदानेन पोषिताः । उपकृतमेतत् प्रत्युपकृतं भवेत् इति एषः शाश्वतः धर्मः ।
२. एतौ हि, पुष्टौ, भुजौ, मम सहजातौ उपकारकौ । सिंहः तुच्छं वन्यप्राणिनमिव, अहं, बकनामानम् असुरं विनाशयिष्यामि ।
अभ्यासाद् जायते सिद्धिः
१. अधः प्रदत्तप्रश्नानाम् उत्तराणि एकपदेन लिखत—
(क) भीमस्य जननी का ?
(ख) कुन्त्या निश्चितं कः न समर्थयति ?
(ग) पाण्डवानाम् उपकर्ता कः ?
(घ) कं चिन्तयन् दुर्योधनः निद्रां न लभते ?
(ङ) पाण्डवाः कुत्र निवसन्ति स्म ?
(च) भरतवंशप्रदीपः कः ?
(छ) कः भृशं परिदेवयते ?
२. पूर्णवाक्येन उत्तरं लिखत—
(क) “भैक्षप्रदानेन.........” इति श्लोकानुसारं सनातनः धर्मः कः ?
(ख) बकनामा दैत्यः कुत्र वसति ?
(ग) कुन्ती किं प्रतिश्रुतवती ?
(घ) भीमस्य अग्रजः कः ?
(ङ) का प्रत्यादेशं न अर्हति ?
(च) पौराः बकासुराय कथं बलिम् आहरन्ति ?
(छ) क्षत्रियाणां धर्मः कः ?
३. अधस्तात् दत्तानि वाक्यानि केन कं प्रति उक्तानि इति निर्दिशत—
| क्र.सं. | वाक्यानि | केन / कया | कं / कां प्रति |
|---|---|---|---|
| यथा — | तस्माद् बालकस्य पिता तपस्वी शोचति | कुन्त्या | भीमम् |
| १. | न हि मातुराज्ञा प्रत्यादेशमर्हति | ||
| २. | न हि खरदंष्ट्रो मृगाधिपः सहायमपेक्षते | ||
| ३. | क्षत्रियाण्या यदुचितं तदनुष्ठितम् | ||
| ४. | अपि हस्तद्वयेन भोक्ष्यसे | ||
| ५. | तस्य भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ? | ||
| ६. | नरभक्षणं नाम मांसाशिनां राक्षसानां धर्मः |
४. रेखाङ्कितपदेषु सन्धिं विभज्य सन्धिनाम लिखत—
यथा - न चैतावत् ।
....... च ....... + ....... एतावत् ....... (वृद्धि-सन्धिः )
(क) सम्यगनुष्ठितम्।
............ + ............ ( ............)
(ख) पुरस्यादूरवर्तिनि पर्वते वसति बकनामा दैत्यः ।
............ + ............ ( ............ )
(ग) श्रुतं तस्य दुरात्मनो वृत्तम्।
............ + ............ ( ............ )
(घ) भोज्यसमाहारे मानुषोऽपि तस्मै प्रेषयितव्यः ।
............ + ............ ( ............ )
(ङ) मातः ! नास्त्यत्र किमप्यनुशोचितव्यम्।
............ + ............ ( ............ )
(च) क्षत्रियाण्या यदुचितं तदनुष्ठितम्।
............ + ............ ( ............ )
(छ) स खल्वेक पुत्रस्तपस्वी भृशं परिदेवयते।
............ + ............ ( ............ )
(ज) कथं नु त्वया सङ्कल्पितम्।
............ + ............ ( ............ )
(झ) धर्मसङ्ग्रहोऽत्र द्रष्टव्यः।
............ + ............ ( ............ )
(ञ) मानुषभोजी स राक्षस इति श्रूयते।
............ + ............ ( ............ )
५. पर्यायवाचि-पदानां मेलनं कुरुत —
यथा - पिता - जनकः
(क) आयोधनम्
१. ब्राह्मणः
(ख) विप्रः
२. जननी
(ग) असुरः
३. अग्निः
(घ) अम्ब
४. दैत्यः
(ङ) हुताशनः
५. युद्धम्
६. अधोलिखितानां पदानां विपरीतार्थक-शब्दान् लिखत —
यथा - पीवरः कृशः
(क) उपकृतः ..............
(ख) अग्रजस्य ..............
(ग) उचितम् ..............
(घ) हर्षः ..............
७. मञ्जूषातः समुचितं विशेषणपदं चित्वा लिखत—
क्षत्रियाणी, शकटपूरं, प्रतिवेशी, खरदंष्ट्रः, जठरस्थः, कौन्तेयः, पीवरौ
यथा - पीवरौ बाहू
(क) ............. मृष्टान्नम्
(ख) ............. ब्राह्मणः
(ग) ............. मृगाधिपः
(घ) ............. भीमः
(ङ) ............. कुन्ती
(च) ............. हुताशनः
८. समस्तपदानि लिखत—
यथा - मृष्टम् अन्नं शकटपूरं पूरयित्वा प्रेषणीयम् । मृष्टान्नम्
(क) वीरस्य भुजयोः बलम् आश्रित्य वयं सुखं शेमहे। ..............
(ख) भवता धर्माणां सङ्ग्रहः द्रष्टव्यः । ..............
(ग) नहि मातुः आज्ञा प्रत्यादेशमर्हति। ..............
(घ) धनुः धरति इति अहम् अनुगमिष्यामि । ..............
(ङ) नहि खरदंष्ट्रः मृगाणाम् अधिपः सहायमपेक्षते। ..............
(च) अस्य पुरस्य न दूरे वर्तते पर्वते वसति बकनामा दैत्यः । ..............
९. अधोलिखितवाक्यानाम् उचितभावैः सह सम्मेलनं कुरुत—
यथा – प्रभूतमुपस्थितं मे भोजनम्।
हर्षः
(क) धनुर्धरोऽहमनुगमिष्यामि।
१. हासः
(ख) भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ?
२. निराशा
(ग) अपि हस्तद्वयेन भोक्ष्यसे ?
३. ग्लानिः
(घ) हनिष्यामि तं दुरात्मानम्।
४. अधिकारः
(ङ) स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते।
५. ओजः
(च) मानुषापसद, परिवेषय मे भोजनम्।
६. धैर्यम्
१०. वाच्यपरिवर्तनं कुरुत—
कर्तृवाच्यम् कर्मवाच्यम्
यथा - भवत्या प्रतिश्रुतम् । 'भवती प्रतिश्रुतवती ।'
(क) क्षत्रियाण्या अनुष्ठितम्। .....................
(ख) भवत्या सज्जीक्रियताम्। .....................
(ग) भवत्या उपक्षिप्तम्। .....................
(घ) त्वया सङ्कल्पितम्। .....................
(ङ) भवता धर्मसङ्ग्रहः द्रष्टव्यः । .....................
(च) पौरजनैः मानुषः प्रेषयितव्यः । .....................
स्वाध्यायान्मा प्रमदः
कवि: विद्वान् एनू रङ्गनाथशर्मा
जननम् ७.४.१९२६, देहत्यागः २०१४
जन्मस्थानम् नडळल्ली ग्रामः, शिवमोग्गमण्डलम्, कर्णाटकराज्यम्।
उपाधयः महामहोपाध्यायः, विद्यावारिधिः, व्याकरणशास्त्रप्रवीणः । राष्ट्रप्रशस्तिभाक् राज्यप्रशस्तिभाक् च ।
कृतयः अयम् आचार्यः स्वरचित-ग्रन्थाः, अनूदित-ग्रन्थाः, व्याख्यानग्रन्थाः इति परश्शतान् लेखान् ग्रन्थान् च अलिखत्। संस्कृतभाषया - बाहुबलिविजयम्, एकचक्रम्, कुसुमाञ्जलिः, श्रीशङ्करचरितामृतम् इत्यादयः कृतयः प्रसिद्धाः । अयं विद्वान् व्याकरण-शास्त्रे अलङ्कारशास्त्रे अद्वैत वेदान्ते निष्णातः । बेङ्गलूरुस्थे चामराजेन्द्र-संस्कृत-महाविद्यालये व्याकरणप्राध्यापकः सन् चिरं सुरभारत्याः सेवाम् अकुरुत ।
अमरकोषः
- 1. असुरः असुरा दैत्य-दैतेयदनुजेन्द्रारिदानवाः ।
- 2. आयोधनम् युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ।
- 3. तनयः आत्मजस्तनयः सूनुः स्त्रियः पुत्रस्त्रियां त्वमी ।
यस्तु क्रियावान् मनुजः स विद्वान्
- 1. अस्य रूपकस्य अभिनय-अंशान् ज्ञात्वा स्वशालायाम् अभिनयं कुरुत ।
- 2. अस्मिन् रूपके विद्यमानानां पात्राणां नामानि विलिख्य तेषां विषये टिप्पणीं लिखत ।
- 3. विद्यालयस्य ग्रन्थालयं गत्वा महाभारतस्य विविधपात्राणां विषये पठित्वा मित्रैः सह आलोचनां कुरुत ।
