Table of Contents
आसीत् युगानाम् आरम्भे प्रजानां प्रियः नाभिनामकः कश्चन महाराजः । सः राजनीतौ युद्धतन्त्रे प्रशासनादिषु च समर्थः । तस्य पत्नी मरुदेवी बुद्धिमती करुणाशालिनी च। तयोः एव प्रियपुत्रः ऋषभः । ऋषभः सर्वगुणसम्पन्नः, अधीतविद्यः, राजनीतिज्ञश्च आसीत्। यौवनेन विलसन्तं तं राजकुमारं वीक्ष्य नाभिः तस्मै राज्यभारं समर्पयितुम् अचिन्तयत्।
अथैकदा समाजे दुर्भिक्षादयः समस्याः समुदभवन्। जनेषु परस्परं विद्वेषादयः भावनाः आविरभवन्। तदा नाभिः "अयं कालः ऋषभस्य राजनीतेः परीक्षार्थं सुयोग्यः” इति मन्यमानः तस्मै राज्यं समर्पितवान्। ऋषभः यदा राजा अभवत् तदा सः आदौ जनानां समस्याः काः, दुर्भिक्षस्य कारणं किं, जनेषु कुतः परस्परं
विद्वेषः, समस्यानां समाधानोपायाः के इत्यादिषु विषयेषु चिन्तनं कृतवान्। तेन काचित् स्पष्टकल्पना प्राप्ता यत् जनानाम् आलस्यं, कृषिकार्ये न्यूनता, प्रजासु उत्पादनक्षमतायाः अभावः चेत्येतादृश्यः मूलसमस्याः सन्ति इति। अतः सः मूलसमस्यानां परिष्काराय जनानां सुखमय-जीवनाय च विविधाः योजनाः रचितवान्। विशेषरूपेण कृषिकार्य, विविधपदार्थेः भोजननिर्माणं, तन्तुभिः वस्त्रनिर्माणं, गवाम् अश्वादीनां पशूनां पालनं चेत्यादीनि जीवन-कौशलानि प्रशिक्षितवान्। काष्ठैः धातुभिः शिलाभिः
च गृहोपयोगिनां वस्तूनां निर्माणं, पात्रनिर्माणं, गृहनिर्माणं, नगरनिर्माणादिकं च प्रशिक्षितवान्। तेन क्रमशः जनाः सक्रियाः अभवन् जीवनपद्धतिं च परिवर्तितवन्तः । क्रमशः जनानाम् आर्थिकस्थितिः अपि सुदृढा जाता। स्वयमेव गृहाणां विविधभोज्यपदार्थानां नित्योपयोगिवस्तूनां च निर्माणं कर्तुम् आरब्धवन्तः। कृषिकार्याणि अपि प्रचुरतया आरब्धानि । तेन जनानां समस्याः स्वयमेव परिहृताः, राज्यं पुनः सुभिक्षं चाभवत्। जनाः
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥
ऋषभः जनानां जीवने शान्तिं सुरक्षां न्यायिकव्यवस्थां च पुनः सुदृढां कृतवान्। एवम् ऋषभस्य दक्षशासनेन कौशलेन च विनितानाम्नः नगरस्य निर्माणम् अभवत्। समाजस्य उत्कर्षेण सः जनानां मनस्सु सुप्रतिष्ठितं स्थानं प्राप्तवान्। अतः तं प्रजाः प्रेम्णा राजा ऋषभदेवः इति कथयन्ति स्म। ऋषभदेवः समाजस्य उत्कर्षेण सह साम्राज्यस्यापि विस्तारं कृतवान् । एतादृशस्य महाराजस्य पुत्राः अपि शौर्येण पराक्रमेण बुद्धिबलेन च विश्वप्रसिद्धाः आसन्। तादृशेषु शते पुत्रेषु विशेषरूपेण भरतः बाहुबलिः च अत्यन्तं सुविख्यातौ। तथैव ऋषभस्य पुत्रीषु ब्राह्मी सुन्दरी चेति द्वे कन्ये अपि गणितादिषु शास्त्रेषु प्रवीणे प्रसिद्धे च आस्ताम् ।
जैनसम्प्रदायानुगुणं 'ब्राह्मीलिप्याः' विकासः ब्राह्मीद्वारैव कृता इति श्रूयते । तस्यामेव लिप्यां शिलालेखाः उपलभ्यन्ते एवं सर्वोन्मुखसमृद्ध्या ऋषभदेवः जीवने प्राप्तानन्दः परमसुखी च आसीत्। परं को वा जानाति विधिलिखितम् । ऋषभदेवस्यापि जीवने काचित् तादृशी घटना संवृत्ता यया तस्य जीवनमेव परिवर्तितम्। उच्यते हि –
दैवाधीनं जगत्सर्वं जन्मकर्मशुभावहम् ।
संयोगश्च वियोगश्च न च दैवात्परं बलम् ॥
एकदा ऋषभदेवः राजप्रासादे नृत्यकलाप्रदर्शनम् आयोजितवान्। तत्र आगता काचित् नर्तकी नृत्यकलां प्रदर्शयन्ती सहसा भूमौ पतित्वा मृता। अनया घटनया ऋषभदेवस्य मनः सहसा विक्षुब्धम् अभवत्। कथं काचित् आरोग्यवती स्त्री सहसा मरणं प्राप्तवती, किं नाम जीवनम्, कथं जीवनीयम्, इत्यादयः अनेके प्रश्नाः तस्य बुद्धौ आविरभवन्। इह संसारे किमपि शाश्वतं नास्ति, इदं सुखं स्थायि नास्ति इति विचिन्त्य स्थिरसुखस्य प्राप्त्यर्थं सः सर्वमपि परित्यज्य भिक्षुरूपेण प्रस्थितवान्। स्वस्य विशालं साम्राज्यं स्वपुत्रेषु विभक्तवान् । विशेषतया 'विनिता' राज्यं भरताय तक्षशिलां बाहुबलये च समर्थ्य जीवनस्य परमसत्यम् अन्वेष्टुं प्रस्थितोऽयं महामुनिः । तम् अनेके जनाः शिष्यरूपेण अनुसृतवन्तः । ऋषभदेवः तदारभ्य अरण्येषु मौनेन ध्यानं निरन्तरम् अध्ययनं च करोति स्म। सः अध्ययने गभीरध्याने च तथा लीनः भवति स्म येन सः भोजनपानादिकमपि विस्मृत्य बहुकालं यावत् स्वाभाविकरूपेण निराहारम् अकरोत्। परं तस्य अनुयायिनः तथा निराहारं स्थातुं कष्टम् अनुभवन्ति स्म। किन्तु ते ऋषभदेवं त्यक्त्वा गन्तुमपि न इच्छन्ति स्म। ते अरण्ये विद्यमानेभ्यः वृक्षेभ्यः फलानि शाकानि वा चित्वा जीवनं यापयन्ति स्म।
कदाचित् तेषाम् एतादृशं व्यवहारं दृष्ट्वा जैनसन्यासिनः वृक्षेभ्यः फलानि शाकानि वा न चिनुयुः इति बोधनार्थं स्वयं भिक्षार्थं प्रस्थितः । अनुयायिनः अपि तस्य आचरणेन प्रभाविताः सन्तः भिक्षार्थं गताः । ग्रामेषु प्रतिगृहं गत्वा भिक्षां प्राप्य जीवनं निर्वर्तयन्ति स्म। परम् ऋषभः पूर्वं भोजनार्थं मौनेन भिक्षायाचनं करणीयमिति मौनेन प्रतिगृहं भिक्षायाचनम् आरब्धवान्। परं तत्रत्याः जनाः तेषां प्रियं महाराजं दृष्ट्वा भिक्षायां किं दातव्यमिति सम्भ्रान्ताः सन्तः तस्मै आभरणानि अनर्घवस्तूनि च यच्छन्ति स्म। परं भिक्षायां भोजनपदार्थः देयः इति न केनापि चिन्तितम् । फलतः ऋषभदेवस्य दिने दिने सकष्टम् उपवासः करणीयः आपतितम्। कदाचित् ऋषभदेवः भोज्यपदार्थानाम् अभावे चतुःशतं दिनानि नैरन्तर्येण उपवासं कृतवान्। एकदा पर्यटनावसरे सः हस्तिनापुरस्य
समीपे स्थितस्य इक्षुक्षेत्रस्य पार्श्वमार्गात् गच्छति स्म। तच्च इक्षुक्षेत्रं तस्यैव प्रपौत्रस्य श्रेयांसस्य आसीत्। सः श्रेयांसः प्रपितामहाय पानार्थम् इक्षुरसं दत्तवान् । अनेन ऋषभदेवस्य दीर्घकालिकः उपवासः समाप्तः । तच्च वैशाखमासस्य अक्षयतृतीया-दिनम् आसीत्। अतः जैनसम्प्रदाये 'वर्षतपपारणामहोत्सवः' अधुनापि गुजराते पदलिप्तपुरम् (पालीताणा) उत्तरप्रदेशे हस्तिनापुरं चेत्यादिषु पवित्रतीर्थेषु आचर्यते। अत्र त्रयोदशमासानां वैकल्पिकदिनेषु उपवासं कुर्वन्ति । अन्ते अक्षयतृतीयादिने इक्षुरसेन उपवासस्य समापनं कुर्वन्ति ।
एवं दीर्घकालिकोपवासेन निरन्तराध्ययनेन कठोरतपसा च ऋषभदेवः फाल्गुनमासस्य कृष्णपक्षे एकादश्यां तिथौ प्रयागराजे अक्षयवटवृक्षस्य अधः केवलज्ञानं प्राप्तवान्। अयमेव जैनसम्प्रदाये आदिमः तीर्थङ्करः प्रभुः नाथः इत्यतः 'आदिनाथः' इति ख्यातः । ऋषभदेवः जनानां मार्गदर्शनार्थं भिक्षुः भिक्षुणी श्रावकः श्राविका चेति क्रमं रचितवान्। स एव क्रमः जैनसङ्घः इति प्रसिद्धः वर्तते।
तेषां परमो मन्त्रः नवकारमन्त्रः इति प्रसिद्धः यच्च प्राकृतभाषायां वर्तते
"णमो अरिहन्ताणं,
णमो सिद्धाणं,
णमो आयरियाणं,
णमो उवज्झायाणं,
णमो लोए सव्वसाहूणं"
अस्य अर्थः भवति नमामि अरिहन्तॄन्, नमामि सिद्धान्, नमामि आचार्यान्, नमामि उपाध्यायान्, नमामि लोके सर्वसाधून् इति। अयं सर्वेषां जैनानां परमपावनः मन्त्रः अस्ति। प्रतिवर्षम् अप्रैल्-मासस्य नवमे दिनाङ्के जैनजनाः सामूहिकरूपेण अस्य मन्त्रस्य जपादिकं कृत्वा उत्सवम् आचरन्ति। अतः अस्य दिवसस्य 'नवकारमहामन्त्रदिवसः' इति ख्यातिः वर्तते। एषः मन्त्रः पञ्चपरमेष्ठिभ्यः (अरिहन्तारः, सिद्धाः, आचार्याः, उपाध्यायाः, सर्वे साधवः च) प्रणामं समर्पयति । वसुधैवकुटुम्बकम् इत्यस्य अनुरूपेण विश्वशान्त्यै कोटिशैः जनैः गीयमानः परमोमन्त्रः अयं णमोकारमन्त्रः ।
जैनमतस्य प्रमुखाः सिद्धान्ताः - अहिंसा परमो धर्मः (मनसा, वाचा, कर्मणा च अहिंसापालनम्), अनेकान्तवादः (सत्यस्य अनेके पक्षाः भवन्ति), स्याद्वादः (प्रत्येकं वचनं सापेक्षं “स्यादिति” रूपेण ग्राह्यम्), अपरिग्रहः (आवश्यकात् अधिकं संग्रहः न करणीयः) इत्यादयः । एतेषां दर्शनानां मध्ये - सम्यग्दर्शनम्, सम्यग्ज्ञानम्, सम्यक्चरित्रम् इति त्रीणि रत्नानि उच्यन्ते। तथा च प्राणिमात्रहिताय पञ्चमहाव्रतानि - सत्यम्, अहिंसा, अस्तेयम्, अपरिग्रहः, ब्रह्मचर्यं च आचरितुं कल्याणकरम् इति निगद्यते ।
सर्वे शब्दा भारते
| शब्द: | अर्थ: | हिन्दी | English | मातृभाषया अर्थ लिखत |
|---|---|---|---|---|
| अचिन्तयत् (√चिन्त्+लङ्, प्र.पु.ए.व.) | चिन्तितवान् | विचार किया | Considered | |
| अधीतविद्यः (बहुव्रीहि, पुं.प्र.ए.व.) | अधीता विद्या येन | पढ़ा-लिखा | Learned | |
| अनर्घ्यवस्तूनि (कर्मधारय, नपुं.प्र.ब.व.) | अनर्घाणि वस्तूनि | अनमोल वस्तुएँ | Precious items | |
| अनुयायिनः (पुं.प्र.ब.व.) | अनुगामिनः | अनुयायी | Followers | |
| अनेकान्तवादः (पुं.प्र.ए.व.) | सर्वस्य बहुपक्षवादः | अनेकान्तवाद | Doctrine of multiplicity of viewpoints | |
| अपरिग्रहः (नञ्-तत्पुरुषः, प्र.ए.व.) | न परिग्रहः | आवश्यकता से अधिक ग्रहण न करना | Non-possession | |
| अरिहन्ताणम् | जितशत्रूणाम् | अरिहंतों का | Conquerors of enemies (Arihantas) | |
| आरम्भे (पुं.स.ए.व.) | आदौ | आरम्भ में | At the beginning | |
| आलस्यम् (नपुं.प्र.ए.व.) | प्रमादः | आलस्य | Laziness | |
| इक्षुक्षेत्रम् (षष्ठी-तत्पुरुषः, नपुं.प्र.ए.व.) | इक्षोः (मधुदण्डस्य) क्षेत्रम् | गन्ने का खेत | Sugarcane field | |
| उत्पादनक्षमता (स्त्री.प्र.ए.व.) | उत्पादस्य क्षमता | उत्पादन की क्षमता | Productivity | |
| उपवासः (पुं.प्र.ए.व.) | निराहारव्रतम् | उपवास | Fasting | |
| कठोरतपसा (कर्मधारय, पुं.तृ.ए.व.) | कठोरेण तपसा | कठोर तप से | With severe penance | |
| करुणाशालिनी (स्त्री.प्र.ए.व.) | दयायुक्ता | दयालु | Compassionate | |
| केवलज्ञानम् (नपुं.प्र./द्वि.ए.व.) | केवलस्य ज्ञानम् | केवलज्ञान | Absolute knowledge | |
| तीर्थङ्करः (पुं.प्र.ए.व.) | धर्ममार्गदर्शकः | तीर्थंकर | Tirthankara | |
| दुर्भिक्षम् (अव्ययीभावः, नपुं.प्र.ए.व.) | भिक्षायाः अभावः | अकाल | Famine | |
| दैवाधीनम् (षष्ठी-तत्पुरुषः) | दैवस्य अधीनम् | भाग्य के अधीन | Dependent on fate | |
| नवकारमन्त्रः | जैनार्थिमन्त्रः | नवकार मंत्र | Navkar mantra | |
| नित्योपयोगिवस्तूनाम् | प्रतिदिनोपयोगिनां वस्तूनाम् | नित्य उपयोग की वस्तुओं के | Daily essentials | |
| निराहारम् | भोजनरहितम् | निराहार | Without food | |
| न्यायिकव्यवस्था | न्यायसंबन्धिनी व्यवस्था | न्याय व्यवस्था | Judicial system | |
| परित्यज्य | त्यक्त्वा | त्यागकर | Abandoning | |
| परिकाराय | निवारणाय | समाधान के लिए | For rectification | |
| परिहताः | निवारिताः | निवारण किया | Solved | |
| प्रजानाम् | जनानाम् | प्रजाओं का | Of citizens | |
| प्रशासनादिषु | शासनक्रियासु | प्रशासन आदि में | In administration etc. | |
| ब्राह्मी लिपिः | ब्राह्मणानी लिपिः | ब्राह्मी लिपि | Brahmi script | |
| भिक्षार्थम् | याचनायै | भिक्षा के लिए | For alms | |
| युद्धतन्त्रे | संग्रामशास्त्रे | युद्ध-तंत्र में | In war-strategy | |
| राजनीतौ | राजधर्मे | राजनीति में | In politics | |
| विद्वेषः | वेषम् | द्वेष | Hatred | |
| विधिलिखितम् | विधिना लिखितम् | नियति-निर्धारित | Predestined | |
| वियोगः | पृथक्करणम् | वियोग | Separation | |
| विक्षुब्धम् | उद्विग्नम् | विचलित | Agitated | |
| शाश्वतम् | नित्यम् | शाश्वत | Eternal | |
| शिलालेखाः | शिलासु लिखिताः लेखाः | शिला-लेख | Inscriptions | |
| सङ्घः | समूहः | संघ | Community | |
| समाधानोपायाः | निवारणमार्गाः | समाधान के उपाय | Solutions | |
| सम्भ्रान्तः | किंकर्तव्यविमूढः | विस्मय के साथ | Perplexed | |
| संयोगः | मेलनम् | संयोग | Union | |
| सुप्रतिष्ठितम् | दृढरूपेण स्थापितम् | अच्छी तरह स्थापित | Well established |
अत्र इदम् अवधेयम्
प्राकृतभाषा
भारते भाषासम्पदा अतीव समृद्धा अस्ति। कस्मिंश्चित् कालघट्टे अनेकाः प्राकृतभाषाः सामान्यजनानां संवादोपयोगिन्यः आसन् ।
प्राकृतभाषाः -
• आर्षप्राकृतम् • मागधीप्राकृतम् • शौरसेनीप्राकृतम् • महाराष्ट्रप्राकृतम् • पैशाचिप्राकृतम् • चूलिकाप्राकृतम् • अपभ्रंशप्राकृतम् इत्यादयः ।
जैनागमाः अर्धमागधीभाषायां लिखिताः । महाराष्ट्रप्राकृते महाकविः हालः गाथासप्तशती इति सुप्रसिद्धं काव्यं लिखितवान् । शौरसेनीप्राकृते बहवः नाट्यग्रन्थाः रचिताः सन्ति। अनेन ज्ञायते यत् प्राकृतभाषा न केवलं संवादोपयोगिनी अपितु उच्चकोटिसाहित्यस्य वाहिनी आसीत्। एवं संस्कृतं यदि स्रोतस्विनी नदी, तर्हि प्राकृतं तस्या एव सरलः प्रवाहः अस्ति। उभयोर्मध्ये अविच्छिन्नः सम्बन्धः अस्ति ।
संस्कृत-वाक्यानां प्राकृतानुवादः -
संस्कृतम् प्राकृतम्
(१) अहं विद्यालयं गच्छामि। अहं विज्जालयं गच्छामि / गच्छमि / गच्छेमि / गच्छं ।
(२) सः जलं पिबति । सो जलं पिवइ।
(३) बालकः पद्यं पठति । बालओ पोत्थं पढइ / पढए / पढदि/पढदे।
(४) भवान् कुत्र गच्छति । भवतो कत्थ गच्छउ ।
(५) अहं फलानि खादामि। अहं फलाइं / फलाणि खामि ।
(६) एतत् मम मित्रम् अस्ति । एसो मम/मज्झ मित्तो/मित्तं अत्थि ।
अभ्यासाद् जायते सिद्धिः
१. एकपदेन उत्तरं लिखत -
(क) ऋषभेण निर्मितस्य नगरस्य नाम किम् ?
(ख) ऋषभस्य प्रसिद्धे द्वे कन्ये के?
(ग) कस्यां लिप्यां नैकानि शास्त्राणि लिपिबद्धानि ?
(घ) विनिता नामकं राज्यं ऋषभः कस्मै समर्पितवान् ?
(ङ) ऋषभः बाहुबलिने किं राज्यं प्रदत्तवान् ?
(च) प्रजाः भिक्षायां कानि वस्तूनि यच्छन्ति स्म ?
२. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत -
(क) देशे काः समस्याः सन्ति इति ऋषभदेवस्य कल्पना प्राप्ता ?
(ख) महाराजः केषु कार्येषु प्रजाः प्रशिक्षितवान् ?
(ग) ऋषभदेवस्य जीवनपरिवर्तिनी घटना का आसीत् ?
(घ) ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः कथम् अभवत् ?
(ङ) ऋषभदेवः कदा कुत्र च केवलज्ञानं प्राप्तवान् ?
(च) जनानां मार्गदर्शनार्थं कं क्रमं रचितवान् ?
३. समस्तपदानि लिखत
विग्रहवाक्यम् समस्तपदम्
(क) महान् च असौ राजा च ..................
(ख) प्रजानां सुखम् ..................
(ग) मूलाः समस्याः ..................
(घ) भोजनस्य निर्माणम् ..................
(ङ) आर्थिकी स्थितिः ..................
(च) प्राप्तः आनन्दःयेन सः ..................
(छ) विधिना लिखितम् ..................
(ज) गृहं गृहं प्रति ..................
(झ) ब्राह्मीनामा लिपिः ..................
४. वाक्यानि उदाहरणानुसारं परिवर्तयत
यथा - जनैः स्वयमेव निर्माणकार्यम् आरब्धम् ।
'जनाः स्वयमेव निर्माणकार्यम् आरब्धवन्तः ।
(क) महाराजेन राज्यं समर्पितम् ।
...............................
(ख) केनापि तत् न चिन्तितम्।
...............................
(ग) ऋषभदेवेन दीर्घकालिकः उपवासः कृतः ।
...............................
(घ) जनैः जीवनपद्धतिः परिवर्तिता ।
...............................
(ङ) ऋषभेण योजना कृता।
...............................
५. सन्धिं कुरुत -
(क) इति + अतः ...............................
(ख) च + इति ...............................
(ग) देवस्य + अपि ...............................
(घ) तथा + एव ...............................
(ङ) इति + एतादृशाः ...............................
(च) ब्राह्मीद्वारा + एव ...............................
(छ) प्रस्थितः + अयम् ...............................
स्वाध्यायान्मा प्रमदः
१. जैनधर्मस्य चतुर्विंशतिः तीर्थङ्कराः
(१) ऋषभदेवः (आदिनाथः)
• प्रथमः तीर्थङ्करः, 'आदिनाथः' इति प्रसिद्धः ।
• आद्यः धर्मोपदेशकः, कृषिः, लिपिः, कला, व्यवसायः च जगति आरब्धाः ।
२. जैनधर्मस्य प्रमुखतीर्थस्थानानि -
(१) सम्मेतशिखरम् (पारसनाथ पर्वतः, झारखण्डः)
(२) श्रवणबेलगोळः (कर्नाटकम्)
(३) पावापुरी (बिहारः)
(४) रैवतकः (गिरनारः) पर्वतः (गुजरातः)
(५) शत्रुञ्जयपर्वतः (पदलिप्तपुरम् - पालीताणा, गुजरातः)
(६) राजगृहम् (बिहारः)
(७) अयोध्या (उत्तरप्रदेश:)
(८) काशी (वाराणसी) (उत्तरप्रदेश:)
(९) चम्पापुरम् (भागलपुर, बिहारः)
(१०) हस्तिनापुरम् (उत्तरप्रदेश:)
(११) मिथिला (बिहारः)
(१२) द्वारिका (गुजरातः)
यस्तु क्रियावान् मनुजः स विद्वान्
१. जैनसम्प्रदायानुसारं भोजनपद्धतिं लिखत। (किं खादन्ति ? कस्मिन् समये खादन्ति ?)
२. पञ्चमहाव्रतानि लिखत ।
३. णमोकारमहामन्त्र-दिवसस्य विषये किं जानन्ति इत्युपरि कक्षायां वदत।
४. पञ्चमहाव्रतेषु कस्यापि एकस्य व्रतस्य विषये सहपाठिनां पुरतः आगत्य वदत ।
