एकादशः पाठः

qr11






वर्णोच्चारण-शिक्षा २

पूर्वस्यां व कक्षायां ‘मनुष्येण वाग्-उत्पत्ति-प्रक्रिया’ कथं भवतीति वयं सामान्यतः दृष्टवन्तः। तत्रैव ‘आर्यस्य’ अभ्यन्तरे वर्णानाम् उत्पत्तौ त्रीणि तत्त्वानि आवश्यकानि भवन्ति—

Screenshot 2026-05-11 120451

(क) स्थानम्, (ख) करणम्, (ग) आभ्यन्तर-प्रयत्नः। च इदानीं वयम् अवलोकिष्यन्तः। तत्र (क) घट स्थानानि, (ख) घट करणानि इति उपयोगि-विषये वयं पञ्चम्यां कक्षायाम् एव विस्तरेण ज्ञातवन्तः, यथा— अस्मिन् पाठे – (ग) आभ्यन्तर-प्रयत्नः - इत्यस्य विषये विस्तरेण अवगच्छामः –

(ग) आभ्यन्तर-प्रयत्नः:

आस्यस्य अभ्यन्तरे करणं येन प्रयत्नेन स्थानं स्पृशति, स्थानस्य समीपं वा याति, सः प्रयत्नः— ‘आभ्यन्तर-प्रयत्नः’ इति उच्यते। आभ्यन्तर-प्रयत्नः पञ्चविधः भवति—

(१) स्पष्ट-प्रयत्नः:

करणं यदा स्थानं ‘स्पष्ट-रूपेण’ स्पृशति, तदा करणस्य ‘स्पष्ट-प्रयत्नः’ भवति। करणस्य स्पष्ट-प्रयत्नेनस्थाने स्पर्श-व्यञ्जनानि उत्पद्यन्ते।

उदाहरणार्थम् अत्र मूर्धन्य-वर्णान् पश्यामः —

उदाहरणम्— मूर्धन्याः वर्णाः

(२) ईषत्-स्पष्ट-प्रयत्नः:

Screenshot 2026-05-11 120525

करणं यदा स्थानं ‘खल्वम्’ एव स्पृशति, तदा करणस्य ‘ईषत्-स्पष्ट-प्रयत्नः’ भवति। करणस्य ईषत्-स्पष्ट-प्रयत्नेनस्थाने अन्तःस्थ-व्यञ्जनानि जायन्ते।

Screenshot 2026-05-11 120609

उदाहरणम्— मूर्धन्याः वर्णाः

(३) ईषद्-विवृत-प्रयत्नः:

करणं यदा स्थानं न स्पृशति, परन्तु स्थानस्य बहु समीपं याति, तदा उभयोः स्थान-करणयोः मध्ये ‘लघु: विवरः’ इव स्वल्पः अन्तरालः जायते, तदा करणस्य ‘ईषद्-विवृत-प्रयत्नः’ भवति।

करणस्य ईषद्-विवृत-प्रयत्नेनस्थाने ऊष्म-व्यञ्जनानि जायन्ते, तथा च
स्थाने अयोगवाहौ – अनुस्वार-विसर्गौ अपि जायते।

उदाहरणम्— मूर्धन्याः वर्णाः

Screenshot 2026-05-11 120650

(४) विवृत-प्रयत्नः:

करणं यदा स्थानं न स्पृशति, अपितु स्थानस्य किञ्चित् समीपं याति, तदा उभयोः स्थान-करणयोः मध्ये ‘स्फुट: विवरः’ इव अन्तरालः जायते, तदा करणस्य ‘विवृत-प्रयत्नः’ भवति।

करणस्य विवृत-प्रयत्नेनस्थाने (अ-कारं विहाय अन्ये सर्वे) स्वराः उच्चार्यन्ते।

उदाहरणम्— मूर्धन्याः वर्णाः

Screenshot 2026-05-11 120719

कण्ठ्य-तालव्य-मूर्धन्य-दन्त्य-ओष्ठ्येषु पञ्च-प्रकारेषु वर्णेषु —
स्थान-करणयोः मध्ये उपयुक्ताः चतुर्विधाः आभ्यन्तर-प्रयत्नाः दृश्यन्ते।

(५) संवृत-प्रयत्नः:

स्वेषु ‘अ-कारः’ कश्चिद् विशिष्टः स्वरः अस्ति। ‘अ-वर्णस्य’ त्रयः उपभेदाः वयं पूर्वं दृष्टवन्तः— अ-कारः (ह्रस्वः), आ-कारः (दीर्घः), अ३-कारः (प्लुतः) इति।

एते त्रयः अपि ‘स्वराः’, ‘कण्ठ्य-वर्णाः’ च सन्ति। कण्ठ्य-वर्णेषु ‘स्वस्थानम् एव करणं भवति’ इति वयं पूर्वं दृष्टवन्तः। अर्थात्, कण्ठ्य-वर्णानां —
स्थानम् अपि कण्ठः (कण्ठस्य पृष्ठ-भागः)
करणम् अपि कण्ठः (कण्ठस्य अग्र-भागः)

एतेषु त्रिषु अ-वर्णेषु (ह्रस्व-दीर्घ-प्लुतेषु) —

  • केवलम् आ-कारस्य (दीर्घस्य), अ३-कारस्य (प्लुतस्य) च, द्रुतोः एव उच्चारणे — कण्ठे स्थान-करणयोः मध्ये ‘स्फुटः विवरः’ इव अन्तरालः भवति। अतः, अन्य-स्वराणाम् इव एतयोः द्रुत-दीर्घ-प्लुतयोः अपि पूर्ववत् ‘विवृत-प्रयत्नः’ एव भवति।
  • परन्तु, अ-कारस्य (ह्रस्वस्य) उच्चारणे तु तथा न भवति। अत्र तु कण्ठे स्थान-करणयोः मध्ये ‘संकोचः’ भवति। अर्थात्, अत्र ‘कण्ठः’ संकुचितः, संकीर्णः वा भवति। कण्ठस्य अयं ‘संकोचः’, ‘संकीर्णता’ वा ‘संवृतम्’ इति कथ्यते।

अतः, विशेषरूपेण अ-कारस्य (ह्रस्वस्य) उच्चारणे ‘संवृत-प्रयत्नः’ भवति। कण्ठे करणस्य संवृत-प्रयत्नेन
स्थाने अ-कारः उच्चार्यते।

अ-कारः

Screenshot 2026-05-11 120901 Screenshot 2026-05-11 120747

केवलं कण्ठ-स्थाने एव संवृत-प्रयत्नः भवति,
तदपि केवलम् अ-कारस्य उच्चारणार्थम् एव।

flute-diagram

अस्ये विद्यमानानाम् एतेषां स्थान-करण-आभ्यन्तर-प्रयत्नानां सम्यक्-ज्ञानेन, तथा पुनःपुनः अभ्यासेन च वयं प्रत्येक-वर्णस्य एवञ्च सर्वेषां शब्दानां सुस्पष्टं शुद्धं च उच्चारणं कर्तुं प्रभवामः।

एवमेव ‘वर्णमालायां स्वर-व्यञ्जनयोः मध्ये का भिन्नता?’ इत्यपि यथावत् अवबोधामः। पुनश्च, व्यञ्जनानां मध्ये अपि — स्पर्शाः, अन्तःस्थाः, ऊष्माणः, अयोगवाहाः चेति ये भेदाः सन्ति, तेषाम् अपि परस्पर-भिन्नतां यथोचितम् अवगच्छामः।

Screenshot 2026-05-11 103524
Screenshot 2026-05-11 103602

वर्णानां भेद-उपभेदानां मध्ये परस्परं या: भिन्नता: सन्ति, ताः संक्षेपेण अत्र पश्यामः—

वर्णानां द्वौ मुख्य-भेदौ
स्वरः व्यञ्जनम्
१. स्वतन्त्रः वर्णः ।
उच्चारणार्थम् अन्य-वर्णः न आवश्यकः
परतन्त्रः वर्णः ।
उच्चारणार्थम् आधार-स्वरः आवश्यकः
२. एकमात्रः / द्विमात्रः / त्रिमात्रः वा अर्धमात्रः नित्यम्
३. स्वराः (१३) – विवृत-प्रयत्नः
अ-कारः (०१) – संवृत-प्रयत्नः
स्पर्शी (२५) – स्पृष्ट-प्रयत्नः
अन्तःस्थाः (०४) – ईषत्-स्पृष्ट-प्रयत्नः
ऊष्माणः (०४) – ईषद्-विवृत-प्रयत्नः
अयोगवाही (०२)
स्वराणां* द्वौ भेदौ
समानाक्षर-स्वरः सन्ध्यक्षर-स्वरः
१. एक-स्थानी द्वि-स्थानी
२. ह्रस्वः उपभेदः भवति
ह्रस्वः एव प्रथमः उपभेदः
अत्र, ह्रस्व-दीर्घ-प्लुताः – त्रयः उपभेदाः
ह्रस्वः उपभेदः न भवति
दीर्घः एव प्रथमः उपभेदः
अत्र, दीर्घ-प्लुतौ – द्वौ उपभेदौ

* अत्र केवलं शुद्ध-स्वराः (अर्थात् निरनुनासिकाः स्वराः) एव गण्यन्ते, न तु अनुनासिक-स्वराः ।

व्यञ्जनानां चत्वारः भेदाः
स्पर्शी-व्यञ्जनम् अन्तःस्थ-व्यञ्जनम् ऊष्म-व्यञ्जनम् अयोगवाह-व्यञ्जनम्
१. साधारण-व्यञ्जनम्
आधार-स्वरः – पश्चात् पूर्वं वा, उभयत्र सम्भवति
विशिष्ट-व्यञ्जनम्
आधार-स्वरः – नित्यं पूर्वमेव
२. स्पृष्ट-प्रयत्नः ईषत्-स्पृष्ट-प्रयत्नः ईषद्-विवृत-प्रयत्नः ईषद्-विवृत-प्रयत्नः
सर्वे शब्देन भाषन्ते
शब्दः अर्थः हिन्दी English
प्रयत्नः उच्चारणे प्रयुज्यमान बलम् उच्चारण में प्रयुक्त ‘बल’ अथवा ‘दबाव’ ‘Effort’ in Speech
अभ्यन्तरे अन्तः अन्दर Inside
आभ्यन्तरम् अन्तःस्थितम् अन्दर स्थित Internal
आभ्यन्तर-प्रयत्नः अन्तःप्रयत्नः / आस्यस्य अभ्यन्तरे करणस्य स्थानं प्रति प्रयुक्तं बलम् मुख के अन्दर, करण का – स्थान के प्रति प्रयुक्त ‘बल’ अथवा ‘दबाव’ ‘Internal-Effort’ in Articulation (exerted by the ‘Tool’ towards the ‘Place’, inside the Head)
स्पृष्टः स्पर्शी कृतः स्पर्श किया हुआ Touched
ईषत् अल्पम् थोड़ा Slightly / Little
ईषत्-स्पृष्टः अल्पं स्पर्शी कृतः थोड़ा स्पर्श किया हुआ Slightly Touched
विवृतः उद्घाटितः खुला हुआ Opened
विवरः छिद्रः / अन्तरालः अन्तराल Opening / Gap
ईषद्-विवृतः अल्पम् उद्घाटितः थोड़ा खुला हुआ Slightly Opened
संवृतः अविवृतः सिकुड़ा हुआ Constrained / Contracted
संकोचः संकोचनम् सिकुड़ना Compress
संकुचितः संकीर्णः / संकोचं कृतः सिकुड़ा गया Constricted / Narrow
Screenshot 2026-05-11 114354

Screenshot 2026-05-11 114435
Screenshot 2026-05-11 114521
Screenshot 2026-05-11 114601
स्वाध्यायान्मा प्रमदः

तत्र पाणिनीय-शिक्षा-सूत्राणि

सूत्राणि अर्थः
आभ्यन्तर-प्रयत्न-प्रकरणम्
प्रयत्नोऽपि द्विविधः । (वर्णोच्चारणार्थ) ‘प्रयत्नः’ द्विप्रकारकः भवति ।
आभ्यन्तरो बाह्यश्च । ‘आभ्यन्तर-प्रयत्नः’ ‘बाह्य-प्रयत्नः’ च इति (एतौ द्वौ प्रकारौ भवतः) ।
स्वस्थाने आभ्यन्तरस्तावत् । वर्णस्य स्वकीयं स्थानं प्रति (करणस्य) यः प्रयत्नः, सः → ‘आभ्यन्तर-प्रयत्नः’ भवति ।
स्पृष्ट-करणाःस्पर्शीः । स्पर्शीनां वर्णानाम् उच्चारणे, करणं → ‘स्पृष्ट-प्रयत्नेन’ स्थानं (स्पष्टरूपेण) स्पृशति ।
ईषत्-स्पृष्ट-करणाःअन्तस्थाः । अन्तःस्थानां वर्णानाम् उच्चारणे, करणम् → ‘ईषत्-स्पृष्ट-प्रयत्नेन’ स्थानं (स्वल्पं) स्पृशति ।
ईषद्-विवृत-करणाःऊष्माणः । ऊष्मणां वर्णानाम् उच्चारणे, करणम् → ‘ईषद्-विवृत-प्रयत्नेन’ स्थानं प्रति (समीपे) याति ।
विवृत-करणाःस्वराः । स्वराणां वर्णानाम् उच्चारणे, करणं → ‘विवृत-प्रयत्नेन’ स्थानं प्रति (किञ्चित् दूर-पर्यन्तं) याति ।
संवृतस्वकारः । [संवृतः तु अकारः] अ-कारस्य (ह्रस्वस्य) वर्णस्य उच्चारणे करणं → ‘संवृत-प्रयत्नेन’ स्थानं प्रति संकुचितं भवति ।
इत्येषोऽन्तःप्रयत्नः । अत्र पर्यन्तम् एषः उच्चार्यमाणस्य ‘आभ्यन्तर-प्रयत्नः’ चर्चितः ।
अभ्यासाद् जायते सिद्धिः

१. अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत —

  1. वर्णानाम् उत्पत्त्यर्थं कति आवश्यकानि तत्त्वानि भवन्ति ?
  2. कति स्थानानि सन्ति ?
  3. आभ्यन्तर-प्रयत्नः कतिविधः ?
  4. करणं यदा स्थानं स्पष्टरूपेण स्पृशति, तदा करणस्य कः प्रयत्नः भवति ?
  5. अवर्णस्य कति उपभेदाः सन्ति ?
  6. संवृत-प्रयत्नः कुत्र भवति ?

२. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत —

  1. आभ्यन्तर-प्रयत्नः कः उच्यते ?
  2. ईषत्स्पृष्ट-प्रयत्नः कदा भवति ?
  3. करणस्य विवृत-प्रयत्नेन के स्वराः उच्चार्यन्ते ?
  4. आभ्यन्तर-प्रयत्नाः कत्र दृश्यन्ते ?
  5. आभ्यन्तर-प्रयत्ने स्वेषु विशिष्टः स्वरः कः अस्ति ?

३. अधोलिखितानां वर्णानां क-स्तम्भेन सह मेलनं कुरुत —

क-स्तम्भः

  1. विवृत-प्रयत्नः
  2. स्पृष्ट-प्रयत्नः
  3. ईषत्स्पृष्ट-प्रयत्नः
  4. ईषद्विवृत-प्रयत्नः
  5. संवृत-प्रयत्नः

ख-स्तम्भः

  1. वू
  2. शू
  3. त्रे
  4. धू

४. अधोलिखितानां वाक्यानाम् उत्तराणि आम्/ न इति सन्दर्भानुसारे लिखत —

  1. ‘ऐ’ वर्णः सन्ध्यक्षरम् अस्ति । (आम् / न) ................
  2. ‘ए’ वर्णः सन्ध्यक्षरम् अस्ति । (आम् / न) ................
  3. ‘झ’ वर्णः स्पर्शी अस्ति । (आम् / न) ................
  4. ‘र’ वर्णः स्पर्शेषु परिगण्यते । (आम् / न) ................
  5. ‘य, र, ल, व’ वर्णाः ऊष्माणः सन्ति । (आम् / न) ................

५. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत —

  1. स्वराः स्वतन्त्रवर्णाः सन्ति ।
  2. व्यञ्जनानि अर्धमात्रिकाणि भवन्ति ।
  3. स्वराणां द्वौ भेदौ भवतः ।
  4. ह्रस्वस्य उपभेदाः न भवन्ति ।
  5. व्यञ्जनानां चत्वारः भेदाः भवन्ति ।

६. वर्णसमुच्चयं पाठात् चित्वा लिखत —

वर्णाः:
(क) एकस्थानी-वर्णाः
(ख) स्पर्श-व्यञ्जनानि
(ग) अयोगवाह-व्यञ्जनानि
(घ) ऊष्म-व्यञ्जनानि
(ङ) द्विस्थानी-वर्णाः