Table of Contents
एकादशः पाठः
वर्णोच्चारण-शिक्षा २
पूर्वस्यां व कक्षायां ‘मनुष्येण वाग्-उत्पत्ति-प्रक्रिया’ कथं भवतीति वयं सामान्यतः दृष्टवन्तः। तत्रैव ‘आर्यस्य’ अभ्यन्तरे वर्णानाम् उत्पत्तौ त्रीणि तत्त्वानि आवश्यकानि भवन्ति—
(क) स्थानम्, (ख) करणम्, (ग) आभ्यन्तर-प्रयत्नः। च इदानीं वयम् अवलोकिष्यन्तः। तत्र (क) घट स्थानानि, (ख) घट करणानि इति उपयोगि-विषये वयं पञ्चम्यां कक्षायाम् एव विस्तरेण ज्ञातवन्तः, यथा— अस्मिन् पाठे – (ग) आभ्यन्तर-प्रयत्नः - इत्यस्य विषये विस्तरेण अवगच्छामः –
(ग) आभ्यन्तर-प्रयत्नः:
आस्यस्य अभ्यन्तरे करणं येन प्रयत्नेन स्थानं स्पृशति, स्थानस्य समीपं वा याति, सः प्रयत्नः— ‘आभ्यन्तर-प्रयत्नः’ इति उच्यते। आभ्यन्तर-प्रयत्नः पञ्चविधः भवति—
(१) स्पष्ट-प्रयत्नः:
करणं यदा स्थानं ‘स्पष्ट-रूपेण’ स्पृशति, तदा करणस्य ‘स्पष्ट-प्रयत्नः’ भवति। करणस्य स्पष्ट-प्रयत्नेन → स्थाने स्पर्श-व्यञ्जनानि उत्पद्यन्ते।
उदाहरणार्थम् अत्र मूर्धन्य-वर्णान् पश्यामः —
उदाहरणम्— मूर्धन्याः वर्णाः
(२) ईषत्-स्पष्ट-प्रयत्नः:
करणं यदा स्थानं ‘खल्वम्’ एव स्पृशति, तदा करणस्य ‘ईषत्-स्पष्ट-प्रयत्नः’ भवति। करणस्य ईषत्-स्पष्ट-प्रयत्नेन → स्थाने अन्तःस्थ-व्यञ्जनानि जायन्ते।
उदाहरणम्— मूर्धन्याः वर्णाः
(३) ईषद्-विवृत-प्रयत्नः:
करणं यदा स्थानं न स्पृशति, परन्तु स्थानस्य बहु समीपं याति, तदा उभयोः स्थान-करणयोः मध्ये ‘लघु: विवरः’ इव स्वल्पः अन्तरालः जायते, तदा करणस्य ‘ईषद्-विवृत-प्रयत्नः’ भवति।
करणस्य ईषद्-विवृत-प्रयत्नेन → स्थाने ऊष्म-व्यञ्जनानि जायन्ते, तथा च
→ स्थाने अयोगवाहौ – अनुस्वार-विसर्गौ अपि जायते।
उदाहरणम्— मूर्धन्याः वर्णाः
(४) विवृत-प्रयत्नः:
करणं यदा स्थानं न स्पृशति, अपितु स्थानस्य किञ्चित् समीपं याति, तदा उभयोः स्थान-करणयोः मध्ये ‘स्फुट: विवरः’ इव अन्तरालः जायते, तदा करणस्य ‘विवृत-प्रयत्नः’ भवति।
करणस्य विवृत-प्रयत्नेन → स्थाने (अ-कारं विहाय अन्ये सर्वे) स्वराः उच्चार्यन्ते।
उदाहरणम्— मूर्धन्याः वर्णाः
कण्ठ्य-तालव्य-मूर्धन्य-दन्त्य-ओष्ठ्येषु पञ्च-प्रकारेषु वर्णेषु —
स्थान-करणयोः मध्ये उपयुक्ताः चतुर्विधाः आभ्यन्तर-प्रयत्नाः दृश्यन्ते।
(५) संवृत-प्रयत्नः:
स्वेषु ‘अ-कारः’ कश्चिद् विशिष्टः स्वरः अस्ति। ‘अ-वर्णस्य’ त्रयः उपभेदाः वयं पूर्वं दृष्टवन्तः— अ-कारः (ह्रस्वः), आ-कारः (दीर्घः), अ३-कारः (प्लुतः) इति।
एते त्रयः अपि ‘स्वराः’, ‘कण्ठ्य-वर्णाः’ च सन्ति। कण्ठ्य-वर्णेषु ‘स्वस्थानम् एव करणं भवति’ इति वयं पूर्वं दृष्टवन्तः। अर्थात्, कण्ठ्य-वर्णानां —
→ स्थानम् अपि कण्ठः (कण्ठस्य पृष्ठ-भागः)
→ करणम् अपि कण्ठः (कण्ठस्य अग्र-भागः)
एतेषु त्रिषु अ-वर्णेषु (ह्रस्व-दीर्घ-प्लुतेषु) —
- केवलम् आ-कारस्य (दीर्घस्य), अ३-कारस्य (प्लुतस्य) च, द्रुतोः एव उच्चारणे — कण्ठे स्थान-करणयोः मध्ये ‘स्फुटः विवरः’ इव अन्तरालः भवति। अतः, अन्य-स्वराणाम् इव एतयोः द्रुत-दीर्घ-प्लुतयोः अपि पूर्ववत् ‘विवृत-प्रयत्नः’ एव भवति।
- परन्तु, अ-कारस्य (ह्रस्वस्य) उच्चारणे तु तथा न भवति। अत्र तु कण्ठे स्थान-करणयोः मध्ये ‘संकोचः’ भवति। अर्थात्, अत्र ‘कण्ठः’ संकुचितः, संकीर्णः वा भवति। कण्ठस्य अयं ‘संकोचः’, ‘संकीर्णता’ वा ‘संवृतम्’ इति कथ्यते।
अतः, विशेषरूपेण अ-कारस्य (ह्रस्वस्य) उच्चारणे ‘संवृत-प्रयत्नः’ भवति। कण्ठे करणस्य संवृत-प्रयत्नेन
→ स्थाने अ-कारः उच्चार्यते।
अ-कारः
केवलं कण्ठ-स्थाने एव संवृत-प्रयत्नः भवति,
तदपि केवलम् अ-कारस्य उच्चारणार्थम् एव।
अस्ये विद्यमानानाम् एतेषां स्थान-करण-आभ्यन्तर-प्रयत्नानां सम्यक्-ज्ञानेन, तथा पुनःपुनः अभ्यासेन च वयं प्रत्येक-वर्णस्य एवञ्च सर्वेषां शब्दानां सुस्पष्टं शुद्धं च उच्चारणं कर्तुं प्रभवामः।
एवमेव ‘वर्णमालायां स्वर-व्यञ्जनयोः मध्ये का भिन्नता?’ इत्यपि यथावत् अवबोधामः। पुनश्च, व्यञ्जनानां मध्ये अपि — स्पर्शाः, अन्तःस्थाः, ऊष्माणः, अयोगवाहाः चेति ये भेदाः सन्ति, तेषाम् अपि परस्पर-भिन्नतां यथोचितम् अवगच्छामः।
वर्णानां भेद-उपभेदानां मध्ये परस्परं या: भिन्नता: सन्ति, ताः संक्षेपेण अत्र पश्यामः—
| वर्णानां द्वौ मुख्य-भेदौ | ||
|---|---|---|
| स्वरः | व्यञ्जनम् | |
| १. | स्वतन्त्रः वर्णः । उच्चारणार्थम् अन्य-वर्णः न आवश्यकः | परतन्त्रः वर्णः । उच्चारणार्थम् आधार-स्वरः आवश्यकः |
| २. | एकमात्रः / द्विमात्रः / त्रिमात्रः वा | अर्धमात्रः नित्यम् |
| ३. | स्वराः (१३) – विवृत-प्रयत्नः अ-कारः (०१) – संवृत-प्रयत्नः | स्पर्शी (२५) – स्पृष्ट-प्रयत्नः अन्तःस्थाः (०४) – ईषत्-स्पृष्ट-प्रयत्नः ऊष्माणः (०४) – ईषद्-विवृत-प्रयत्नः अयोगवाही (०२) |
| स्वराणां* द्वौ भेदौ | ||
|---|---|---|
| समानाक्षर-स्वरः | सन्ध्यक्षर-स्वरः | |
| १. | एक-स्थानी | द्वि-स्थानी |
| २. | ह्रस्वः उपभेदः भवति ह्रस्वः एव प्रथमः उपभेदः अत्र, ह्रस्व-दीर्घ-प्लुताः – त्रयः उपभेदाः | ह्रस्वः उपभेदः न भवति दीर्घः एव प्रथमः उपभेदः अत्र, दीर्घ-प्लुतौ – द्वौ उपभेदौ |
* अत्र केवलं शुद्ध-स्वराः (अर्थात् निरनुनासिकाः स्वराः) एव गण्यन्ते, न तु अनुनासिक-स्वराः ।
| व्यञ्जनानां चत्वारः भेदाः | ||||
|---|---|---|---|---|
| स्पर्शी-व्यञ्जनम् | अन्तःस्थ-व्यञ्जनम् | ऊष्म-व्यञ्जनम् | अयोगवाह-व्यञ्जनम् | |
| १. | साधारण-व्यञ्जनम् आधार-स्वरः – पश्चात् पूर्वं वा, उभयत्र सम्भवति | विशिष्ट-व्यञ्जनम् आधार-स्वरः – नित्यं पूर्वमेव | ||
| २. | स्पृष्ट-प्रयत्नः | ईषत्-स्पृष्ट-प्रयत्नः | ईषद्-विवृत-प्रयत्नः | ईषद्-विवृत-प्रयत्नः |
| शब्दः | अर्थः | हिन्दी | English |
|---|---|---|---|
| प्रयत्नः | उच्चारणे प्रयुज्यमान बलम् | उच्चारण में प्रयुक्त ‘बल’ अथवा ‘दबाव’ | ‘Effort’ in Speech |
| अभ्यन्तरे | अन्तः | अन्दर | Inside |
| आभ्यन्तरम् | अन्तःस्थितम् | अन्दर स्थित | Internal |
| आभ्यन्तर-प्रयत्नः | अन्तःप्रयत्नः / आस्यस्य अभ्यन्तरे करणस्य स्थानं प्रति प्रयुक्तं बलम् | मुख के अन्दर, करण का – स्थान के प्रति प्रयुक्त ‘बल’ अथवा ‘दबाव’ | ‘Internal-Effort’ in Articulation (exerted by the ‘Tool’ towards the ‘Place’, inside the Head) |
| स्पृष्टः | स्पर्शी कृतः | स्पर्श किया हुआ | Touched |
| ईषत् | अल्पम् | थोड़ा | Slightly / Little |
| ईषत्-स्पृष्टः | अल्पं स्पर्शी कृतः | थोड़ा स्पर्श किया हुआ | Slightly Touched |
| विवृतः | उद्घाटितः | खुला हुआ | Opened |
| विवरः | छिद्रः / अन्तरालः | अन्तराल | Opening / Gap |
| ईषद्-विवृतः | अल्पम् उद्घाटितः | थोड़ा खुला हुआ | Slightly Opened |
| संवृतः | अविवृतः | सिकुड़ा हुआ | Constrained / Contracted |
| संकोचः | संकोचनम् | सिकुड़ना | Compress |
| संकुचितः | संकीर्णः / संकोचं कृतः | सिकुड़ा गया | Constricted / Narrow |
तत्र पाणिनीय-शिक्षा-सूत्राणि
| सूत्राणि | अर्थः |
|---|---|
| आभ्यन्तर-प्रयत्न-प्रकरणम् | |
| प्रयत्नोऽपि द्विविधः । | (वर्णोच्चारणार्थ) ‘प्रयत्नः’ द्विप्रकारकः भवति । |
| आभ्यन्तरो बाह्यश्च । | ‘आभ्यन्तर-प्रयत्नः’ ‘बाह्य-प्रयत्नः’ च इति (एतौ द्वौ प्रकारौ भवतः) । |
| स्वस्थाने आभ्यन्तरस्तावत् । | वर्णस्य स्वकीयं स्थानं प्रति (करणस्य) यः प्रयत्नः, सः → ‘आभ्यन्तर-प्रयत्नः’ भवति । |
| स्पृष्ट-करणाः – स्पर्शीः । | स्पर्शीनां वर्णानाम् उच्चारणे, करणं → ‘स्पृष्ट-प्रयत्नेन’ स्थानं (स्पष्टरूपेण) स्पृशति । |
| ईषत्-स्पृष्ट-करणाः – अन्तस्थाः । | अन्तःस्थानां वर्णानाम् उच्चारणे, करणम् → ‘ईषत्-स्पृष्ट-प्रयत्नेन’ स्थानं (स्वल्पं) स्पृशति । |
| ईषद्-विवृत-करणाः – ऊष्माणः । | ऊष्मणां वर्णानाम् उच्चारणे, करणम् → ‘ईषद्-विवृत-प्रयत्नेन’ स्थानं प्रति (समीपे) याति । |
| विवृत-करणाः – स्वराः । | स्वराणां वर्णानाम् उच्चारणे, करणं → ‘विवृत-प्रयत्नेन’ स्थानं प्रति (किञ्चित् दूर-पर्यन्तं) याति । |
| संवृतस्वकारः । | [संवृतः तु अकारः] अ-कारस्य (ह्रस्वस्य) वर्णस्य उच्चारणे करणं → ‘संवृत-प्रयत्नेन’ स्थानं प्रति संकुचितं भवति । |
| इत्येषोऽन्तःप्रयत्नः । | अत्र पर्यन्तम् एषः उच्चार्यमाणस्य ‘आभ्यन्तर-प्रयत्नः’ चर्चितः । |
१. अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत —
- वर्णानाम् उत्पत्त्यर्थं कति आवश्यकानि तत्त्वानि भवन्ति ?
- कति स्थानानि सन्ति ?
- आभ्यन्तर-प्रयत्नः कतिविधः ?
- करणं यदा स्थानं स्पष्टरूपेण स्पृशति, तदा करणस्य कः प्रयत्नः भवति ?
- अवर्णस्य कति उपभेदाः सन्ति ?
- संवृत-प्रयत्नः कुत्र भवति ?
२. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत —
- आभ्यन्तर-प्रयत्नः कः उच्यते ?
- ईषत्स्पृष्ट-प्रयत्नः कदा भवति ?
- करणस्य विवृत-प्रयत्नेन के स्वराः उच्चार्यन्ते ?
- आभ्यन्तर-प्रयत्नाः कत्र दृश्यन्ते ?
- आभ्यन्तर-प्रयत्ने स्वेषु विशिष्टः स्वरः कः अस्ति ?
३. अधोलिखितानां वर्णानां क-स्तम्भेन सह मेलनं कुरुत —
क-स्तम्भः
- विवृत-प्रयत्नः
- स्पृष्ट-प्रयत्नः
- ईषत्स्पृष्ट-प्रयत्नः
- ईषद्विवृत-प्रयत्नः
- संवृत-प्रयत्नः
ख-स्तम्भः
- वू
- शू
- त्रे
- अ
- धू
४. अधोलिखितानां वाक्यानाम् उत्तराणि आम्/ न इति सन्दर्भानुसारे लिखत —
- ‘ऐ’ वर्णः सन्ध्यक्षरम् अस्ति । (आम् / न) ................
- ‘ए’ वर्णः सन्ध्यक्षरम् अस्ति । (आम् / न) ................
- ‘झ’ वर्णः स्पर्शी अस्ति । (आम् / न) ................
- ‘र’ वर्णः स्पर्शेषु परिगण्यते । (आम् / न) ................
- ‘य, र, ल, व’ वर्णाः ऊष्माणः सन्ति । (आम् / न) ................
५. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत —
- स्वराः स्वतन्त्रवर्णाः सन्ति ।
- व्यञ्जनानि अर्धमात्रिकाणि भवन्ति ।
- स्वराणां द्वौ भेदौ भवतः ।
- ह्रस्वस्य उपभेदाः न भवन्ति ।
- व्यञ्जनानां चत्वारः भेदाः भवन्ति ।