परिशिष्टम् १
अन्वयः
सामान्यतः श्लोकेषु कर्तृपद कर्मपद तृतीयादिविभक्त्यन्त पद क्रियापद विशेषणादिक च छन्दसः अनुगुणं पूर्वापरं भवितुमर्हति । तेन पठितारः पदानां मध्ये परस्परं सम्बन्धं (अन्वयं) कल्पयितुं कदाचित् कष्टम् अनुभवन्ति । अतः श्लोकेषु विद्यमानानां पदानां परस्परं सम्बन्धं सरलरूपेण ज्ञातुं कश्चन क्रमः ज्ञातव्यः । तदनन्तरमेव श्लोकस्य अर्थमवगन्तुं शक्यते ।
एतयोः विधयोः ज्ञानेन छात्राः श्लोके विद्यमानानां पदानां सम्बन्धं ज्ञात्वा
श्लोकस्य अर्थं भावं च अवगन्तुं शक्नुवन्ति।
दण्डान्वयः (दण्डवत् अन्वयः दण्डान्वयः)—
आदौ विशेषणं योज्यं विशेष्यं तदनन्तरम्।
कर्ता-णमूल-ल्यप्-प्रभृतयेवं पूर्व दण्डान्वये भवेत्।।
कर्तृपदं कर्मपदं क्रियापदं चेति प्राधानिकी वाक्यरचनाशैली वर्तते।
अस्मिन् अन्वयक्रमे विशेषणानि क्रमशः तत्तदस्य पूर्व प्रयुक्तानि भवन्ति।
कर्तृपदस्य विशेषणं कर्तृपदात् पूर्वं, कर्मपदस्य विशेषणं कर्मपदात् पूर्वम्
इति क्रमशः विधानं भवति।
यदि श्लोके अव्ययानि कृतन्तपदानि वा सन्ति तर्हि तानि केन पदेन सह सम्बद्धानि
इति ज्ञात्वा तत्र प्रयोजकर्तृयानि। तृतीयादीनि विभक्त्यन्तानि पदानि अपि केन पदेन
सह सम्बद्धानि इति ज्ञात्वा तानि पदानि पूर्वं वा परं वा योजनीयानि।
ततः परं सर्वान्ते क्रियापदं लिखेत्। कदाचित् कर्तृपदं क्रियापदं वा श्लोके न दृश्यते
तदा अस्माभिः विविच्य तत् पदं योजनीयम्। आहत्य पदानां परस्परम् अन्वयः एव
दण्डान्वयस्य क्रमः भवति।
यथा— शास्त्राण्यधीत्यापि भवन्ति मूर्खाः। यस्तु क्रियावान् पुरुषः स विद्वान्।
सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम्॥
पदच्छेदः:
शास्त्राणि, अधीत्य, अपि, भवन्ति, मूर्खाः, यः, तु, क्रियावान्, पुरुषः, सः, विद्वान्,
सुचिन्तितं, च, औषधम्, आतुराणां, न, नाममात्रेण, करोति, अरोगम्॥
दण्डान्वयः:
— (केवल) शास्त्राणि अधीत्यापि मूर्खाः भवन्ति। यः क्रियावान् सः पुरुषः तु विद्वान् (भवति)।
(यथा) सुचिन्तितम् औषधं नाममात्रेण आतुराणाम् अरोगं न करोति।
विवरणम्—
अस्मिन् श्लोके ‘केवल’ इति शब्दः न प्रयुक्तः; ‘शास्त्राणि अधीत्यापि मूर्खाः भवन्ति’
इति वर्तते। तर्हि अत्र काचित् जिज्ञासा भवति यत् “शास्त्राणि अधीयापि के मूर्खाः भवन्ति”
इति। तस्य उत्तरं यदि श्लोके विधेय तर्हि तत् पदं पूर्व स्थापितीयम्। परम् अस्मिन् श्लोके
तु तत् पदं न प्रयुक्तम्। अतः अस्माभिः सुप्तं पदं योजनीयम् (अध्याहार्यम्)।
अत्र सुप्तं पदं ‘केवल’ इति भवितुमर्हति।
तथैव ‘यस्तु क्रियावान् पुरुषः स विद्वान्’ इत्यत्र क्रियापदं किमपि न प्रयुक्तम्।
किन्तु वाक्यस्य पूर्त्यै क्रियापदम् आवश्यकम्। अतः अत्रापि सुप्तं क्रियापदं
किंचन योजनीयम् (अध्याहार्यम्)। तच्च ‘भवति’ इति क्रियापदं योजितम्।
अनेन प्रकारेण ‘यथा’ इति शब्दस्यापि अध्याहारः कृतः। तेन श्लोकस्य पूर्णः अर्थः
स्पष्टः भवति।
अत्र शिक्षकः प्रश्नोत्तरमाध्यमेनापि अन्वयं कर्तुं शक्नोति।
प्रथमं पदच्छेदं कृत्वा तदनन्तरम् अध्यापकः प्रश्नं कृत्वा श्लोके विद्यमानस्य
पदेयः संख्या प्रदर्शति। ततः परं छात्राः क्रमशः पदानि योजयित्वा अन्वयं कर्तुमर्हन्ति।
यथा—
१.शास्त्राणि
२.अधीत्य
३.अपि
४.मूर्खः
५.भवति
६.यः
७.क्रियावान्
८.सः
९.पुरुषः
१०.तु
११.विद्वान्
१२.सुचिन्तितं
१३.औषधम्
१४.नाममात्रेण
१५.च
१६.आतुराणाम्
१७.अरोगम्
१८.न
१९.करोति
क्रमशः योजनम्—
(केचन) शास्त्राणि अधीत्य अपि मूर्खः भवति। यः क्रियावान् सः पुरुषः तु विद्वान् (भवति)। सुचिन्तितम् औषधं नाममात्रेण च आतुराणाम् अरोगं न करोति।
खण्डान्वय:
कर्तृ-कर्म-क्रियास्तावच्छ्लोके योजयन्ति परम् ।
किमो रूपं पुरस्कृत्य तृतीयादीनि योजयेत् ॥
ल्यबन्तञ्च तुमुन्तञ्च वर्तमाने कर्मविभक्तितम् ।
अन्वयक्रमदानेन यथा लिङ्गाविशेषणौ ॥
खण्डशः अन्वयः खण्डान्वयः इति। तन्नाम आम्भे एव श्लोकस्य पूर्णभागस्य अन्वयः न क्रियते अपि तु प्रतिपदं परस्परम् अन्वयः क्रियते।
तदपि प्रश्नोत्तरमाध्यमेन। अन्ते समग्रस्य श्लोकस्य अन्वयः स्वयमेव भविष्यति।
श्लोकस्य अन्वयार्थम् अवबोधार्थं च विशेषणेण चत्वारि सहकारी-कारणानि उक्तानि सन्ति।
तानि — आकाङ्क्षा, योग्यता, आसत्ति:, तात्पर्य च इति।
१. आकाङ्क्षा—
अपेक्षित-विषयस्य ज्ञाने इच्छा आकाङ्क्षा। पूर्वपदस्य अग्रमपदस्य वा ज्ञाने इच्छा इत्यपि वक्तुं शक्यम्।
• पूर्वपदस्य ज्ञाने इच्छा
यथा — पठति, लिखति, खादति, ददाति, पश्यति, नयति, भवति, कुर्वन्ति, कुरु, स्मर, त्यज, गतम्, प्राप्तम्, लब्धम्, कृतम्, ज्ञातव्यम्।
इत्यादीनि क्रियापदानि श्लोकेषु भविष्यन्ति।
‘कः पठति ?’ ‘कदा पठति ?’ ‘कथं पठति ?’ ‘किमर्थं पठति ?’ ‘किं निमित्तं पठति ?’ ‘किं कृत्वा पठति ?’
च इत्यादयः विभिन्नाः प्रश्नाः भविष्यन्ति ।
• अग्रमपदस्य ज्ञाने इच्छा
यथा— श्लोके ‘प्रथमान्तं पदं किम् ?’ ‘द्वितीयान्तं पदं किम् ?’ ‘तृतीयान्तं पदं किम् ?’
इत्यादिकम् अत्र उदाहरणं भविष्यन्ति ।
२. योग्यता—
पदानां मध्ये परस्पर-सम्बन्धस्य पात्रता एव योग्यता ।
‘गगने पुष्पं विकसति’ अस्मिन् वाक्ये योग्यतायाः अभावः वर्तते ।
गगने पुष्पस्य असम्भवात् ।
३. आसत्ति:—
पदानां परस्परं सामीप्यं आसत्तिः (सन्निधिः) ।
एकस्य पदस्य कथनानन्तरम् अग्रमपदम् अपि अनुषणं वदेत् ।
यदि न वदति तर्हि आसत्तिः न भवति ।
यथा— ‘सः पुस्तकं पठति ।’
अत्र एकवारमेव पूर्णं वाक्यं वदति अथवा पठति तर्हि पदानां मध्ये सामीप्यं भवति ।
तदेव आसत्तिः इत्युच्यते ।
यदि ‘सः’ इत्युक्त्वा अग्रमं पदं पञ्चनिमेषोपमानन्तरम् अथवा कालान्तरे वदति
तर्हि पदानां मध्ये सामीप्यस्य अभावः भवति ।
तेन पदानां मध्ये परस्परम् अन्वयः अपि न भवति ।
४. तात्पर्यम्—
शब्दविशेषात् अर्थविशेषस्य ज्ञाने इच्छा एव तात्पर्यं भवति ।
शब्दस्य अर्थः सम्यक् ज्ञातव्यः, अन्यथा शब्दस्य अर्थः अनर्थः भविष्यति ।
तेन अन्वयोऽपि सम्यक् भवितुं न शक्नोति ।
यथा— ‘शतायुर्भव’ इत्युक्ते शतं वर्षाणि जीवतु इति अर्थः,
न अपितु ‘चिरञ्जीवी भव’ इति ।
खण्डान्वयविधौ आकाङ्क्षागुणं प्रश्नाः भवन्ति ।
अतः एषः विधिः आकाङ्क्षाविधिः इत्यपि उच्यते । अत्र प्रश्नेषु प्रथमतः क्रियापदेन आकाङ्क्षाप्रश्नः क्रियते ।
यथा - सा विद्यालयं गच्छति इति वाक्ये क्रियापदं किम् इति प्रश्नः भवति । तस्य उत्तरं 'गच्छति' इति । तदनन्तरं क्रियाम् अनुसृत्य कर्तुः कर्मणः तृतीयादिविभक्त्यन्तानां क्त्वान्तल्यबन्तानाम् अव्यायादीनां च विषये आकाङ्क्षां कृत्वा प्रश्नाः क्रियन्ते । छात्राः विचिन्त्य उत्तराणि वदिष्यन्ति । खण्डान्वयविधौ प्रश्नाः सामान्यतया द्विपदात्मकाः त्रिपदात्मकाः चतुष्पदात्मकाः वा भवितुमर्हन्ति । तन्नाम लघुप्रश्नाः भवन्ति ।
श्लोकः
सम्पूर्णकुम्भो न करोति शब्दमर्धो घटो घोषमुपैति नूनम् । विद्वान् कुलीनो न करोति गर्वमल्पो जनो जल्पति साट्टहासम् ।।
पदच्छेदः - सम्पूर्णकुम्भः, न, करोति, शब्दम्, अर्धः, घटः, घोषम्, उपैति, नूनम्, विद्वान्, कुलीनः, न, करोति, गर्वम्, अल्पः, जनः, जल्पति, साट्टहासम् ।
खण्डान्वय:
| क्र.सं. |
शिक्षकः प्रश्नान् करोति । |
छात्राः उत्तराणि वदन्ति । |
|
प्रथमचरणे क्रियापदं किम् ? |
करोति । |
|
कः न करोति ? |
सम्पूर्णकुम्भः न करोति । |
|
सम्पूर्णकुम्भः किं न करोति ? |
सम्पूर्णकुम्भः शब्दं न करोति । |
|
द्वितीयचरणे क्रियापदं किम् ? |
उपेति । |
|
कः उपेति ? |
घटः उपेति । |
|
कीदृशः घटः उपेति ? |
अर्धः घटः उपेति । |
|
अर्धः घटः किम् उपेति ? |
अर्धः घटः घोषं उपेति । |
|
अर्धः घटः घोषं कथम् उपेति ? |
अर्धः घटः घोषं नूनम् उपेति । |
|
तृतीयचरणे क्रियापदं किम् ? |
करोति । |
|
कः न करोति ? |
विद्वान् न करोति । |
|
कीदृशः विद्वान् न करोति ? |
कुलीनः विद्वान् न करोति । |
|
कुलीनः विद्वान् किं न करोति ? |
कुलीनः विद्वान् गर्वं न करोति । |
|
चतुर्थचरणे क्रियापदं किम् ? |
जल्पति । |
|
कः जल्पति ? |
जनः जल्पति । |
|
कीदृशः जनः जल्पति ? |
अल्पः जनः जल्पति । |
|
अल्पः जनः कथं जल्पति ? |
अल्पः जनः साहसां जल्पति ? |
अन्वय:—
सम्पूर्णकुम्भः शब्दं न करोति । अर्धः घटः घोषं नूनम् उपेति ।
कुलीनः विद्वान् गर्वं न करोति । अल्पः जनः साहसां जल्पति ।