Table of Contents
षष्ठः पाठः
सुभाषितानि
प्रस्तुतोऽयं पाठः विविधग्रन्थात् सङ्कलितानां दशसुभाषितानां सङ्ग्रहो वर्तते। संस्कृतसाहित्ये सार्वभौमिकं सत्यं प्रकाशयितुम् अर्थगाम्भीर्ययुता पद्यमयी प्रेरणात्मिका रचना सुभाषितमिति कथ्यते। अयं पाठांशः परिश्रमस्य महत्त्वम्, क्रोधस्य दुष्प्रभावः, सामाजिकमहत्त्वम्, सर्वेषां वस्तूनाम् उपादेयता, बुद्धेः वैशि"्यम् इत्यादीन् विषयान् प्रकाशयति।
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।।
गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः ।।2।।
निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति ।।3।।
उदीरिताेऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति प.डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः ।।4।।
क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय ।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम् ।।5।।
मृगा मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरग्ैः ।
मूर्खाश्च मूर्खैः सुधियः सुधीभिः,
समान-शील-व्यसनेषु सख्यम् ।।6।।
सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ।।7।।
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ।।8।।
संपत्तौ च विपत्तौ च महतामेकरूपता ।
उदये सविता रत्तηो रत्तηश््चास्तमये तथा ।।9।।
विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम् ।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः ।।10।।
शब्दार्थाः
अवसीदति - दुःखम् अनुभवति - दुःखी होता है-Feeling hurt
वेत्ति - जानाति - जानता है- Knows
वायसः - काकः - कौआ-Crow
करी - गजः - हाथी- Elephant
निमित्तम् - कारणम् - कारण- Purpose
प्रकुप्यति - अतिकोपं करोति - अत्यधिक क्रोध करता है- Gets very angry
ध्रुवं - निश्चितम् - निश्चित रूप से- Certainly
अपगमे - समाप्ते - समाप्त होने पर- At the end Appease
अकारणद्वेषि मनः - अकारणं द्वेषं करोति इति अकारणद्वेषि, तद्मनः मन - अकारण ही द्वेष करने वाला- Mind which holds enemity without reason
परितोषयिष्यति - परितोषं दास्यति - सन्तुष्ट करेगा- Will satisfy
उदीरितः - उक्तः, कथितः - कहा हुआ- Said/told
गृह्यते - प्राप्यते - प्राप्त किया जाता है- Accepted
हयाः - अश्वाः - घोड़े- Horses
नागाः - हस्तिनः - हाथी - Elephants
ऊहति - निर्धारयति - अंदाजा लगाता है - Assumes
इεग्तज्ञानफलाः - इङ्गितं ज्ञानम्, इङ्गितज्ञानमेव फलं यस्याः वाले सा, ताः - सटेतजन्य ज्ञान रूपी फल - Which under stand by ndications
प.डितः - विद्वान्, बुद्धिमान् - बुद्धिमान्- Scholar
वह्निः - अग्निः - आग- Fire
दहते - ज्वालयति - जलाता है - Burns
अनुव्रजन्ति - पश्चात् गच्छन्ति - पीछे-पीछे जाते हैं, अनुसरण करते हैं - Follows
तुरगाः - अश्वाः - घोड़े - Horses
सुधि्ायः - विद्वांसः - विद्वान्, मनीषी - Learned People
व्यसनेषु - दुर्व्यसनेषु - बुरी आदतों में - In addictions
सख्यम् - मैत्री - मित्रता - Friendship
सेवितव्यः - आश्रयितव्यः - आश्रय लेना चाहिए - Should be taken as a shelter
दैवात् - भाग्यात् - भाग्य से - By luck
निवार्यते - निवारणं क्रियते - रोका जाता है - Being prevented
अमन्त्रम् - न मन्त्रं, अमन्त्रमक्षरं इति - मन्त्रहीन - Powerless word
मन्त्रः - मननयोग्यः - मनन योग्य/सार्थक/सारवान् - Hymen
मूलम् - अधोभागः - जड़ - Root
औषधम् - औषध+िअ. (वनस्पति-निर्मितम्)- दवा, जड़ी-बूटी - Herbal medicine
योजकः - योजयति यः, सः (युज् +.वुल्) - जोड़ने वाला - Connector
सविता - सूर्यः - सूर्य - The sun
खरः - गर्दभः - गधा - Donkey
श्लोकानाम् अन्वयः-
1. मनुष्याणां शरीरस्थः महान् शत्रुः आलस्यम्। उद्यमसमः बन्धुः न अस्ति यं कृत्वा (मनुष्यः) न अवसीदति।
2. गुणी गुणं वेत्ति, निर्गुणः (गुणं) न वेत्ति, बली बलं वेत्ति, निर्बलः (बलं) न वेत्ति, वसन्तस्य गुणं पिकः (वेत्ति), वायसः न (वेत्ति), सिंहस्य बलं करी (वेत्ति), मूषकः न।
3. यः निमित्तम् उद्दिश्य प्रकुप्यति सः तस्य अपगमे ध्रुवं प्रसीदति यस्य मनः अकारणद्वेषि (अस्ति) जनः तं कथं परितोषयिष्यति।
4. पशुना अपि उदीरितः अर्थः गृह्यते, हयाः नागाः च बोधिताः (भारं) वहन्ति, प.डितः जनः अनुक्तम् अपि ऊहति, बुद्धयः परेεग्तज्ञानफलाः भवन्ति।
5. नराणां देहविनाशनाय प्रथमः शत्रुः देहस्थितः क्रोधः। यथा काष्ठगतः स्थितः वह्निः काष्ठम् एव दहते (तथैव शरीरस्थः क्रोधः) शरीरं दहते ।
6. मृगाः मृगैः सह, गावश्च गोभिः सह, तुरगाः तुरग्ैः सह, मूर्खाः मूर्खैः सह, सुधियः सुधीभिः सह अनुव्रजन्ति। समानशीलव्यसनेषु सख्यम् (भवति)।
7. फलच्छाया समन्वितः महावृक्षः सेवितव्यः। दैवात् यदि फलं नास्ति (वृक्षस्य) छाया केन निवार्यते।
8. अमन्त्रम् अक्षरं नास्ति, अनौषधम् मूलं नास्ति, अयोग्यः पुरुषः नास्ति, तत्र योजकः दुर्लभः।
9. महताम् संपत्तौ विपत्तौ च एकरूपता भवति। यथा- सविता उदये रक्तः भवति, तथा अस्तमये च रक्तः भवति।
10. विचित्रे संसारे खलु किञ्चित् निरर्थकं नास्ति। अश्वः चेत् धावने वीरः, (तर्हि) भारस्य वहने खरः (वीरः) अस्ति।
अभ्यासः
1. एकपदेन उत्तरं लिखत–
(क) मनुष्याणां महान् रिपुः कः?
(ख) गुणी किं वेत्ति?
(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
(घ) पशुना अपि कीदृशः गृह्यते?
(ङ) उदयसमये अस्तसमये च कः रक्तः भवति?
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत–
(क) केन समः बन्धुः नास्ति?
(ख) वसन्तस्य गुणं कः जानाति।
(ग) बुद्धयः कीदृश्यः भवन्ति?
(घ) नराणां प्रथमः शत्रुः कः?
(ङ) सुुधियः सख्यं केन सह भवति?
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
3. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत–
(क) यः .......................... उद्दिश्य प्रकुप्यति तस्य .......................... सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, .......................... तं कथं परितोषयिष्यति?
(ख) .......................... संसारे खलु .......................... निरर्थकम् नास्ति। अश्वः चेत् .......................... वीरः, खरः .......................... वहने (वीरः) (भवति)
4. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।
(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
(क) गुणी गुणं जानाति। (बहुवचने)
(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)
(घ) कः छायां निवारयति। (कर्मवाच्ये)
(ङ) तेन एव वह्निना शरीरं दह्यते। (कर्तृवाच्ये)
6. (अ) सन्धिं/सन्धिविच्छेदं कुरुत-
(क) न + अस्ति + उद्यमसमः - ..........................
(ख) ......... + ......... - तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति - ..........................
(घ) ......... + .......................... - गावश्च
(ङ) ......... + .......................... - नास्ति
(च) रक्तः + च + अस्तमये - ..........................
(छ) ......... + .......................... - योजकस्तत्र
(आ) समस्तपदं/विग्रहं लिखत-
(क) उद्यमसमः ..........................
(ख) शरीरे स्थितः ..........................
(ग) निर्बलः ..........................
(घ) देहस्य विनाशनाय ..........................
(ङ) महावृक्षः ..........................
(च) समानं शीलं व्यसनं येषां तेषु ..........................
(छ) अयोग्यः ..........................
7. अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत-
(क) प्रसीदति ..........................
(ख) मूर्खः ..........................
(ग) बली ..........................
(घ) सुलभः ..........................
(ङ) संपत्तौ ..........................
(च) अस्तमये ..........................
(छ) सार्थकम् ..........................
(अ) संस्कृतेन वाक्यप्रयोगं कुरुत–
(क) वायसः ................................................................
(ख) निमित्तम् .......................................................................
(ग) सूर्यः .............................................................................
(घ) पिकः ...........................................................................
(ङ) वह्निः ...........................................................................
परियोजनाकार्यम्
(क) उद्यमस्य महत्त्वं वर्णयतः पञ्चश्लोकान् लिखत।
अथवा
कापि कथा या भवद्भिः पठिता स्यात्, यस्याम् उद्यमस्य महत्त्वं वर्णितम्, तां स्वभाषया लिखत।
(ख) निमित्तमुद्दिश्य यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। यदि भवता कदापि ईदृशः अनुभवः कृतः तर्हि स्वीकृतभाषया लिखत।
योग्यताविस्तारः
1. तत्पुरुष समास
शरीरस्थः - शरीरे स्थितः
गृहस्थः - गृहे स्थितः
मनस्स्थः - मनसि स्थितः
तटस्थः - तटे स्थितः
कूपस्थः - कूपे स्थितः
वृक्षस्थः - वृक्षे स्थितः
विमानस्थः - विमाने स्थितः
2. अव्ययीभाव समास
निर्गुणम् - गुणानाम् अभावः
निर्मक्षिकम् - मक्षिकाणाम् अभावः
निर्जलम् - जलस्य अभावः
निराहारम् - आहारस्य अभावः
3. पर्यायवाचिपदानि-
शत्रुः - रिपुः, अरिः, वैरिः
मित्रम् - सखा, बन्धुः, सुहृद्
वह्निः - अग्निः, दाहकः, पावकः
सुधियः - विद्वांसः, विज्ञाः, अभिज्ञाः
अश्वः - तुरगः, हयः, घोटकः
गजः - करी, हस्ती, दन्ती, नागः।
वृक्षः - द्रुमः, तरुः, महीरुहः।
सविता - सूर्यः, मित्रः, दिवाकरः, भास्करः।
मन्त्रः - ‘मननात् त्रायते इति मन्त्रः।’
अर्थात् वे शब्द जो सोच-विचार कर बोले जाएँ। सलाह लेना, मन्त्रणा करना। मन्त्ऱ्अच् (किसी भी देवता को सम्बोधित) वैदिक सूक्त या प्रार्थनापरक वैदिक मन्त्र। वेद का पाठ तीन प्रकार का है- यदि छन्दोबद्ध और उच्च स्वर से बोला जाने वाला है तो ‘ऋक्’ है, यदि गद्यमय और मन्दस्वर में बोला जाने वाला है तो ‘यजुस्’ है, और यदि छन्दोबद्धता के साथ गेयता है तो ‘सामन्’ है (प्रार्थनापरक)। यजुस् जो किसी देवता को उद्दिष्ट करके बोला गया हो- ‘ओं नमः शिवाय’ आदि। पंचतंत्र में भी मंत्रणा, परामर्श, उपदेश तथा गुप्त मंत्रणा के अर्थ में इस शब्द का प्रयोग हुआ है।