नवमः पाठः

सूक्तयः

अयं पाठः मूलतः तमिलभाषायाः "तिरुक्कूरल्" नामकग्रन्थात् गृहीतः अस्ति। अयं ग्रन्थः तमिलभाषायाः वेदः इति कथ्यते। अस्य प्रणेता तिरुवल्लुवरः वर्तते। प्रथमशताब्दी अस्य कालः स्वीकृतः अस्ति। धर्मार्थ-कामप्रतिपादकोऽयं ग्रन्थः? त्रिषु भागेषु विभक्तोऽस्ति। तिरुशब्दः श्रीवाचकः अस्ति, अतः तिरुक्कूरल् शब्दस्य अभिप्रायो भवति – श्रिया युक्ता वाणी। अस्मिन् ग्रन्थे मानवानां कृते जीवनोपयोगि सत्यं सरसबोधगम्यपद्यैः प्रतिपादितम् अस्ति।

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।

पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।।1।।

अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।

तदेवाहुः महात्मानः समत्वमिति तथ्यतः।।2।।

त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।

परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।3।।

विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।

अन्येषां वदने ये तु ते चक्षर्नामनी मते।।4।।

यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।

कर्तुं शक्यो भवेद्येन स विवेक इतीरितः।।5।।

वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।

स केनापि प्रकारेण परैर्न परिभूयते।।6।।

य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।

न कुर्यादहितं कर्म स परेभ्यः कदापि च।।7।।

आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।

तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः।।8।।


शब्दार्थाः

तेपे - तपस्याम् अकरोत - उसने तपस्या की - Performed penance

अवक्रता - न वक्रता/ऋजुता - सरलता - Simplicity

वाचि - वाण्याम् - वाणी में - In the speech

तथ्यतः - यथार्थरूपेण - वास्तव में - Actually

परुषाम् - कठोराम् - कठोर - Harsh

अभ्युदीरयेत् - वदेत् - बोलना चाहिए - He/she may say

विमूढधीः - मूर्खः/बुद्धिहीनः - अज्ञानी/नासमझ - A fool

वाक्पटुः - वाचि/सम्भाषणे पटुः - सम्भाषण/वार्तालाप में चतुर - Eloquent

चक्षुष्मन्तः - नेत्रवन्तः - नेत्रों से युक्त - Having eyes

वदने - आनने/मुखे - मुख पर - On the face

ईरितः - कथितः - कहा गया - Said

परिभूयते - तिरस्क्रियते/अवमान्यते - अपमानित किया जाता है - Getsinsulted

अकातरः - वीरः/साहसी - निर्भीक - Fearless

श्रेयः - कल्याणम् - कल्याण - Wellness

प्रभृतानि - अत्यधिकानि - अत्यधिक - Many

विदुषाम् - विद्वद्जनानाम् - विद्वानों का - Of scholars


अभ्यासः

1. एकपदेन उत्तरं लिखत–

(क) पिता पुत्राय बाल्ये किं यच्छति?

(ख) विमूढधीः कीदृशीं वाचं परित्यजति?

(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?

(घ) प्राणेभ्योऽपि कः रक्षणीयः?

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?

(च) वाचि किं भवेत्?


2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-  

यथा- विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।

कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।

(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।

(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।

(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।

(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।

(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।


3. पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

(क) पिता ---------- बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः ----------।

(ख) येन ---------- यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ---------- भवेत्, सः ---------- इति ----------।

(ग) य आत्मनः श्रेयः ---------- सुखानि च इच्छति, परेभ्यः अहितं ---------- कदापि च न ----------।


4. अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

प्रश्नाः उत्तराणि

क. श्लोक संख्या -3

यथा- सत्या मधुरा च वाणी का? धर्मप्रदा

(क) धर्मप्रदां वाचं कः त्यजति? ----------

(ख) मूढः पुरुषः कां वाणीं वदति? ----------

(ग) मन्दमतिः कीदृशं फलं खादति? ----------


ख. श्लोक संख्या -7

यथा- बुद्धिमान् नरः किम् इच्छति? आत्मनः श्रेयः

(क) कियन्ति सुखानि इच्छति? ----------

(ख) सः कदापि किं न कुर्यात्? ----------

(ग) सः केभ्यः अहितं न कुर्यात्? ----------


5. मञ्जूषायाः तद्भावात्मकसूक्तीः विचित्य अधोलिखितकथनानां समक्षं लिखत-

(क) विद्याधनं महत्

---------------------------------------------------

---------------------------------------------------

(ख) आचारः प्रथमो धर्मः

---------------------------------------------------

---------------------------------------------------

(ग) चित्ते वाचि च अवक्रता एव समत्वम्

---------------------------------------------------

---------------------------------------------------

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
विद्याधनं सर्वधनप्रधानम्।
सं वो मनांसि जानताम्।
विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम्।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।


6. (अ) अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं कोष्ठकात् चित्वा लिखत-

शब्दाः          विलोमशब्दः

(क) पक्वः ---------- (परिपक्वः, अपक्वः, क्वथितः)

(ख) विमूढधीः ---------- (सुधीः, निधिः, मन्दधीः)

(ग) कातरः ---------- (अकरुणः, अधीरः, अकातरः)

(घ) कृतज्ञता ---------- (कृपणता, कृतघ्नता, कातरता) 

(ङ) आलस्यम् ---------- (उद्विग्नता, विलासिता, उद्योगः)

(च) परुषा ---------- (पौरुषी, कोमला, कठोरा)


(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

(क) प्रभूतम् ------------ ------------ ------------

(ख) श्रेयः ------------ ------------ ------------

(ग) चित्तम् ------------ ------------ ------------

(घ) सभा ------------ ------------ ------------

(ङ) चक्षुष् ------------ ------------ ------------

(च) मुखम् ------------ ------------ ------------

शब्द-मञ्जूषा

लोचनम् नेत्रम् भूरि

शुभम् परिषद् मानसम् 

मनः सभा नयनम् 

आननम् चेतः विपुलम् 

संसद् बहु वक्त्रम् 

वदनम् शिवम् कल्याणम् 


7. अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम् -

विग्रहः            समस्तपदम्        समासनाम

(क) तत्त्वार्थस्य निर्णयः ------------ षष्ठी तत्पुरुषः

(ख) वाचि पटुः ------------ सप्तमी तत्पुरुषः

(ग) धर्मं प्रददाति इति (ताम्) ------------ उपपदतत्पुरुषः

(घ) न कातरः ------------ नञ् तत्पुरुषः (ङ) न हितम् ------------ नञ् तत्पुरुषः

(च) महान् आत्मा येषाम् ------------ बहुब्रीहिः

(छ) विमूढा धीः यस्य सः ------------ बहुब्रीहिः

योग्यताविस्तारः

यहाँ संग्रहीत श्लोक मूलरूप से तमिल भाषा में रचित ‘तिरुक्कुरल’ नामक ग्रन्थ से लिए गए हैं। तिरुक्कुरल साहित्य की उत्कृष्ट रचना है। इसे तमिल भाषा का ‘वेद’ माना जाता है। इसके प्रणेता तिरुवल्लुवर है। इनका काल प्रथम शताब्दी माना गया है। इसमें मानवजाति के लिए जीवनोपयोगी सत्य प्रतिपादित है। ‘तिरु’ शब्द ‘श्रीवाचक’ है। तिरुक्कुरल शब्द का अभिप्राय है-श्रिया युक्त वाणी। इसे धर्म, अर्थ, काम तीन भागों में बाँटा गया है। प्रस्तुत श्लोक सरस, सरल भाषायुक्त तथा प्रेरणाप्रद हैं।

क. ‘तिरुक्कुरल्-सूक्तिसौरभम्’ इति पाठस्य तमिल मूलपाठः (देवनागरी - लिपौ)

सोर्कोट्टम् इल्लदु सेप्पुम् ओरू तलैया उळूकोट्टम इन्मै पेरिन्।

मगन् तन्दैवक्काटुम उद्रवि इवन् तन्दै एन्नोटान् कौमू एननुम सोक्त।

इनिय उळवाग इन्नाद कूरल् कनि इरूप्पक् काय् कवरंदट्र।

क.णुडैयर् एन्पवर् कट्रोर मुहत्तिर.डु पु.णुडैयर कल्लादवर्।

एप्पोरूल यार यार वाय् केट्रपिनुम् अप्पोरूल मेय् पोरूल का.पदरिवु।

सोललवल्लन् सोरविलन् अन्जान् अवनै इहलवेल्लल् यारुक्कुम् अरितु।

नोय एल्लाम् नोय् सेयदार मेलवान् नोय् सेययार नोय् इन्मै वे.डुभवर्।

ओषुक्कम् विषुष्पम् तरलान् ओषुक्कम् उयिरिनुम् ओभ्भप्पडुम्।

ख. ग्रन्थपरिचयः

तिरुक्कुरल् तमिलभाषायां रचिता तमिलसाहित्यस्य उत्कृष्टा कृतिः अस्ति। अस्य प्रणेता तिरुवल्लुवरः अस्ति। ग्रन्थस्य रचनाकालः अस्ति-ईशवीयाब्दस्य प्रथमशताब्दी।

अस्मिन् ग्रन्थे सकलमानवाजातेः कृते जीवनोपयोगिसत्यम् प्रतिपादितम्।

तिरु शब्दः ‘श्री’ वाचकः। ‘तिरुक्कुरल्’ पदस्य अभिप्रायः अस्ति श्रिया युक्तं कुरल् छन्दः अथवा श्रिया युक्ता वाणी। अस्मिन् ग्रन्थे धर्म-अर्थ-काम-संज्ञकाः त्रयः भागाः सन्ति। त्रयाणां भागानां पद्यसंख्या 1330 अस्ति।

ग. भाव-विस्तारः

सदाचारः                               विद्याधनम्

किं कुलेन विशालेन शीलमेवात्र कारणम्।      विद्याधनम् धनं श्रेष्ठं तन्मूलमितरद्धनम्।

कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु।।     दानेन वर्धते नित्यं न भाराय न नीयते।

आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते।      माता शत्रुः पिता वैरी येन बालो न पाठितः।

आचारप्रभवो धर्मो धर्मादायुर्विवर्धते।।         न शोभते सभामध्ये हंसमध्ये बको यथा।।

मधुरा वाक्                               विद्वांसः

प्रियवाक्यप्रदानेन तुष्यन्ति सर्व जन्तवः।        नास्ति यस्य स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।।      लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति।

वाणी रसवती यस्य यस्य श्रमवती क्रिया।      विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।

लक्ष्मीः दानवती यस्य सफलं तस्य जीवितम्।।   स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।