द्वादशः पाठः

अन्योक्तयः

प्रस्तुतोऽयं पाठः अन्योक्तिविषये वर्तते। अन्योक्तिः नाम अप्रत्यक्षरूपेण व्याजेन वा कस्यापि दोषस्य निन्दायाः कथनम्, गुणस्य प्रशंसा वा। सङ्केतमाध्यमेन व्यज्यमानाः प्रशंसादयः झटिति चिरञ्च बुद्धौ अवति"न्ति। अत्रापि सप्तानाम् अन्योक्तीनां सङ्ग्रहो वर्तते। याभिः राजहंस-कोकिल-मेघ-मालाकार-तडाग-सरोवर-चातकादीनां माध्यमेन सत्कर्म प्रति गमनाय प्रेरणा प्राप्यते।

एकेन राजहंसेन या शोभा सरसो भवेत् ।

न सा बकसहस्रेण परितस्तीरवासिना ।।1।।

भुक्ता मृणालपटली भवता निपीता-

न्यम्बूनि यत्र नलिनानि निषेवितानि ।

रे राजहंस! वद तस्य सरोवरस्य,

कृत्येन वेηन भवितासि कृतोपकारः ।।2।।

तोयैरल्पैरपि करुणया भीमभानौ निदाघे,

मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः ।

सा किं शक्या जनयितुमिह प्रावृषे.येन वारां,

धारासारानपि विकिरता विश्वतो वारिदेन ।।3।।

 आपेदिरेऽम्बरपथं परितः पतग्ाः,

  भृग्ा रसालमुकुलानि समाश्रयन्ते ।

सटोचमञ्चति सरस्त्वयि दीनदीनो,

मीनो नु हन्त कतमां गतिमभ्युपैतु ।।4।।

एक एव खगो मानी वने वसति चातकः ।

पिपासितो वा म्रियते याचते वा पुरन्दरम् ।।5।।

आश्वास्य पर्वतकुलं तपनोष्णतप्त-

मुद्दामदावविधुराणि च काननानि ।

नानानदीनदशतानि च पूरयित्वा,

रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः ।।6।।

रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता-

मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः ।

केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।।7।।


शब्दार्थाः

सरसः - तडागस्य - तालाब का - Of a lake

बकसहस्रेण - बकानां सहस्रेण - हजारों बगुलों से - By thousand of herons

परितः - सर्वतः - चारों ओर - All around

तीरवासिना - तटनिवासिना - तटवासी के द्वारा - By resident of the shore

मृणालपटली - कमलनालसमूहः - कमलनालों का समूह - Bunch of lotus stems

निपीतानि - निःशेषेण पीतानि - भलीभाँति पाये गये - Well drunk

अम्बूनि - जलानि - जल - Waters

नलिनानि - कमलानि - कमलों को - The lotuses

निषेवितानि - सेवितानि - सेवन किये गये - Used

भविता - भविष्यति - होगा - You will become

कृत्येन - कार्येण - कार्य से - By an act

कृतोपकारः - कृतः उपकारः येन सः - उपकार किया हुआ (प्रत्युपकार करने वाला) - Requital  performer

तोयैः - जलैः - जल से - By waters

भीमभानौ - भीमः भानुः यस्मिन् - प्रचण्ड सूर्य होने पर - Under sweltering sun

सः भीमभानुः तस्मिन् (सूर्य के अत्यधिक  तपने पर)

निदाघे - ग्रीष्मकाले - ग्रीष्मकाल में - Summer season

मालाकार - हे मालाकार! - हे माली! - Oh! gardener

पुष्टिः - पुष्टता, वृद्धिः - पोषण - Diet

जनयितुम् - उत्पादयितुम् - उत्पन्न करने के लिए - To create

प्रावृषेण्येन - वर्षाकालिकेन - वर्षाकालिक के द्वारा - By rainy season

वारिदेन - जलदेन - बादल के द्वारा - By cloud

धारासारान् - धाराणाम् आसारान् - धाराओं का प्रवाह - Flow of torrent water

वाराम् - जलानाम् - जलों के - Of waters

विकिरता - (जलं)वर्षयता - (जल) बरसाते हुए - Raining

आपेदिरे - प्राप्तवन्तः - प्राप्त कर लिए - Reached

अम्बरपथम् - आकाशमार्गम् - आकाश-मार्ग को - Sky root

पतङ्गाः - खगाः - पक्षी - Birds

भृङ्गाः - भ्रमराः - भौंरे, भँवरे - Drones

रसालमुकुलानि - रसालानां मुकुलानि - आम की मञ्जरियों को - Blossom of mango tree

सङ्कोचम् अञ्चति - सङ्कोचं गच्छति - संकुचित होने पर - On reduction

मीनः - मत्स्यः - मछली - Fish

पुरन्दरम् - इन्द्रम् - इन्द्र को - The king of Gods

मानी - स्वाभिमानी - स्वाभिमानी - Self respectful

अभ्युपैतु - प्राप्नोतु - प्राप्त करें - Shall get

आश्वास्य - आश्वासनं प्रदाय - तृप्त करके - Satisfying

पर्वतकुलम् - पर्वतानां कुलम् - पर्वतों के समूह को - The group of mountains

तपनोष्णतप्तम् - तपनस्य उष्णेन तप्तम्, - सूर्य की गर्मी से तपे  हुए को- Heated by Sun

उद्दामदावविधुराणि- उन्नतकाष्ठरहितानि - ऊँचे काष्ठों (वृक्षों) - Lacking high से रहित को trees

नानानदीनदशतानि- विविधानां नदीनां, नदानां शतानि च  - अनेक नदियों और सैकड़ों नदों को- Hundreds of  small and big rivers

काननानि - वनानि - वन - Forests

पूरयित्वा - पूर्णं कृत्वा - पूर्ण करके (भरकर) - Filling

पिपासितः - तृषितः - प्यासा - Thirsty

सावधानमनसा - ध्यानेन - ध्यान से - Carefully

अम्भोदाः - मेघाः - बादल - Clouds

गगने - आकाशे - आकाश में - In the sky

आर्द्रयन्ति - जलेन क्लेदयन्ति - जल से भिगो देते हैं - Wet with water

वसुधाम् - पृथ्वीम् - पृथ्वी को - The earth

गर्जन्ति - गर्जनं (ध्वनिम्) कुर्वन्ति - गर्जना करते हैं - Thunder

पुरतः - अग्रे - आगे, सामने - In front


सर्वासाम् अन्योक्तीनाम् अन्वयाः–

1. एकेन राजहंसेन सरसः या शोभा भवेत्। परितः तीरवासिना बकसहस्रेण सा (शोभा) न (भवति)।।

2. यत्र भवता मृणालपटली भुक्ता, अम्बूनि निपीतानि नलिनानि निषेवितानि। रे राजहंस! तस्य सरोवरस्य केन कृत्येन कृतोपकारः भविता असि, वद।।

3. हे मालाकार! भीमभानौ निदाघे अल्पैः तोयैः अपि भवता करुणया अस्य तरोः या पुष्टिः व्यरचि। वाराम् प्रावृषे.येन विश्वतः धारासारान् अपि विकिरता वारिदेन इह जनयितुम् सा (पुष्टिः) किम् शक्या।।

4. पतग्ाः परितः अम्बरपथम् आपेदिरे, भृग्ाः रसालमुकुलानि समाश्रयन्ते। सरः त्वयि सोचम् अञ्चति, हन्त दीनदीनः मीनः नु कतमां गतिम् अभ्युपैतु।।

5. एक एव मानी खगः चातकः वने वसति। वा पिपासितः म्रियते पुरन्दरम् याचते वा।।

6. तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च (आश्वास्य) नानानदीनदशतानि पूरयित्वा च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्रीः।।

7. रे रे मित्र चातक! सावधानमनसा क्षणं श्रूयताम्, गगने हि बहवः अम्भोदाः सन्ति, सर्वे अपि एतादृशाः न (सन्ति) केचित् धरिणीं वृष्टिभिः आर्द्रयन्ति, केचिद् वृथा गर्जन्ति, (त्वम्) यं यं पश्यसि तस्य तस्य पुरतः दीनं वचः मा ब्रूहि।।

अभ्यासः


1. एकपदेन उत्तरं लिखत–

(क) कस्य शोभा एकेन राजहंसेन भवति?

(ख) सरसः तीरे के वसन्ति?

(ग) कः पिपासितः म्रियते?

(घ) के रसालमुकुलानि समाश्रयन्ते?

(ङ) अम्भोदाः कुत्र सन्ति?


2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत– 

(क) सरसः शोभा केन भवति?

(ख) चातकः किमर्थं मानी कथ्यते?

(ग) मीनः कदा दीनां गतिं प्राप्नोति?

(घ) कानि पूरयित्वा जलदः रिक्तः भवति?

(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?

3. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

(क) मालाकारः तोयैः तरोः पुष्टिं करोति।

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।

(घ) जलदः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।

(ङ) चातकः वने वसति।

4. अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

(अ) तोयैरल्पैरपि ---------------------------------------------------------------- वारिदेन।

(आ) रे रे चातक ---------------------------------------------------------------- दीनं वचः।

5. अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

(अ) आपेदिरे -------------------------------- कतमां गतिमभ्युपैति।

(आ) आश्वास्य -------------------------------- सैव तवोत्तमा श्रीः।।

6. उदाहरणमनुसृत्य सन्धिं/सन्धिविच्छेदं वा कुरुत-

(i) यथा - अन्य़ उक्तयः = अन्योक्तयः

(क) ----------------------- + ----------------------- = निपीतान्यम्बूनि

(ख) ----------------------- + उपकारः = कृतोपकारः

(ग) तपन + ----------------------- = तपनोष्णतप्तम्

(घ) तव + उत्तमा = -----------------------

(ङ) न + एतादृशाः = -----------------------

(ii) यथा - पिपासितः + अपि = पिपासितोऽपि

(क) ----------------------- + ----------------------- = कोऽपि

(ख) ----------------------- + ----------------------- = रिक्तोऽसि

(ग) मीनः + अयम् = -----------------------

(घ) सर्वे + अपि - -----------------------.

(iii) यथा - सरसः + भवेत् = सरसो भवेत्

(क) खगः + मानी = -----------------------

(ख) ----------------------- + नु = मीनो नु

(ग) पिपासितः + वा = -----------------------

(घ) ----------------------- + ----------------------- = पुरतो मा

(iv) यथा - मुनिः + अपि = मुनिरपि

(क) तोयैः + अल्पैः = -----------------------...

(ख) -----------------------... + अपि = अल्पैरपि

(ग) तरोः + अपि = -----------------------...

(घ) ----------------------- + आदयन्ति = वृष्टिभिरार्द्रयन्ति

7. उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि  समस्त  पदानि

यथा - पीतं च तत् पजम् = पीतपजम्

(क) राजा च असौ हंसः = -------------------------------------------------------

(ख) भीमः च असौ भानुः = -------------------------------------------------------

(ग) अम्बरम् एव पन्थाः = -------------------------------------------------------

(घ) उत्तमा च इयम् श्रीः = -------------------------------------------------------

(ङ) सावधानं च तत् मनः, तेन = -------------------------------------------------------


योग्यताविस्तारः

अन्योक्ति अर्थात् किसी की प्रशंसा अथवा निन्दा अप्रत्यक्ष रूप से अथवा किसी बहाने से करना। जब किसी प्रतीक या माध्यम से किसी के गुण की प्रशंसा या दोष की निन्दा की जाती है, तब वह पाठकों के लिए अधिक ग्राह्य होती है। प्रस्तुत पाठ में एेसी ही सात अन्योक्तियों का सङ्कलन है जिनमें राजहंस, कोकिल, मेघ, मालाकार, सरोवर तथा चातक के माध्यम से मानव को सद्वृत्तियों एवं सत्कर्मोंं के प्रति प्रवृत्त होने का संदेश दिया गया है।

पाठपरिचयः

अन्येषां कृते या उक्तयः कथ्यन्ते ता उक्तयः अन्योक्तयः अत्र पाठे सलिता वर्तन्ते। अस्मिन् पाठे षष्ठश्लोकम् सप्तमश्लोकम् च अतिरिच्य ये श्लोकाः सन्ति ते प.डितराजजगन्नाथस्य ‘भामिनीविलास’ इति गीतिकाव्यात् सलिताः सन्ति। षष्ठः श्लोकः महाकवि माघस्य ‘शिशुपालवधम्’ इति महाकाव्यात् गृहीतः अस्ति। सप्तमः श्लोकः महाकविभर्तृहरेः नीतिशतकात् उद्धृतः अस्ति।

कविपरिचयः

प.डितराजजगन्नाथः संस्कृतसाहित्यस्य मूर्धन्यः सरसश्च कविः आसीत्। सः शाहजहाँ नामकेन मुगलशासकेन स्वराजसभायां सम्मानितः। प.डितराजजगन्नाथस्य त्रयोदश कृतयः प्राप्यन्ते। (1) गड़गालहरी (2) अमृतलहरी (3) सुधालहरी (4) लक्ष्मीलहरी (5) करुणालहरी (6) आसफविलासः (7) प्राणाभरणम् (8) जगदाभरणम् (9) यमुनावर्णनम् (10) रसगड़ग्ाधरः (11) भामिनीविलासः (12) मनोरमाकुचमर्दनम् (13) चित्रमीमांसाख.डनम्। एतेषु ग्रन्थेषु ‘भामिनीविलासः’ इति तस्य विवि पद्यानां सड़ग्हः।

महाकविमाघ:- महाकविमाघस्य एकमेव महाकाव्यं प्राप्यते "शिशुपालवधम्" इति।

भर्तृहरि:- महाकविभर्तृहरेः त्रीणि शतकानि सन्ति, शृड़ग्रारशतकम् ,नीतिशतकम् वैराग्यशतकं च।

अधोदत्ताः विविधविषयकाः श्लोकाः अपि पठनीयाः स्मरणीयाश्च-

हंसः -

हंसः श्वेतः बकः श्वेतः को भेदो बकहंसयोः ।

नीरक्षीरविभागे तु हंसो हंसः बको बकः ।।

एकमेव पर्याप्तम् -

एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् ।

सहैव दशभिः पुत्रैः भारं वहति रासभी ।।

पिकः -

 काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।

वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ।।

चातक वर्णनम् -

यद्यपि सन्ति बहूनि सरांसि,

स्वादुशीतलसुरभिपयांसि ।

चातकपोतस्तदपि च तानि,

त्यक्त्वा याचति जलदजलानि ।