RuchiraBhag1-001

दशमः पाठः

स मे प्रियः

प्रस्तुत पद्य महर्षि व्यास विरचित श्रीमद्भगवद्गीता के द्वादश अध्याय से संगृहीत हैं। इस अध्याय में भक्तियोग का वर्णन है। इसमें श्रीकृष्ण द्वारा साकार व निराकाररूप से भगवत्प्राप्ति का सरलतम मार्ग वर्णित है। वस्तुतः प्रस्तुत पद्यों में वर्णित विचार वर्तमान समाज हेतु विशेषतः ज्ञानपिपासु छात्रवर्ग हेतु भी अत्यधिक प्रासङ्गिक व तर्कसंगत हैं। आज हम स्वयं को प्रत्येक कर्म का अधिष्ठाता मानकर अहंकार से ग्रस्त हैं तथा अभ्यास व संयम को त्यागकर शीघ्र ही सब कुछ पाने की लालसा से व्याकुल हैं । यथा पाठ के शीर्षक 'स मे प्रियः' से अवगत होता है कि ईश्वर को वे ही जन प्रिय हैं जो अपने स्वार्थ को त्यागकर परमार्थ- हेतु व समाज के उत्थान हेतु अग्रसर हैं।

श्रीभगवानुवाच

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । 

ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्। 

अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । 

अनन्येनैव योगेन मां ध्यायन्त उपासते ॥

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । 

भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । 

निवसिष्यसि मय्येव अत ऊर्ध्व न संशयः ॥

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । 

अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । 

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि || 

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । 

सर्वकर्मफत्यागं ततः कुरु यतात्मवान् ॥ 

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।

ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। 

र्ममो निरहंकारः समदुःखसुखः क्षमी ॥ 

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । 

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । 

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ 

अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः । 

र्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । 

शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥

समः शत्रौ च मित्रे च तथा मानापमानयोः । 

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥

तुल्यनिन्दास्तुतिर्मोनी संतुष्टो येन केनचित् । 

अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥


शब्दार्थाः टिप्पण्यश्च

संन्यस्य - (सम्+√न्यस्+ल्यप्) समर्पित करके ।

ध्यायन्तः -  (√ध्यै + शतष्ट) ध्यान करते हुए ।

उपासते - (उप√आस्) समीप बैठते हैं, उपासना करते हैं।

आधत्स्व - (आ√धा (आ.)) लोट् लकार, मध्यमः पुरुषः,एकवचनम्, (मन को) लगाओ, स्थिर करो ।

अत ऊर्ध्वम् -  (इस देह का ) अन्त होने पर

संशयः - सन्देह, शङ्का 

इन्द्रियग्रामम् - (इन्द्रियाणां ग्रामम् इति) इन्द्रियों का समूह

समबुद्धय - (समाना बुद्धिः येषां ते) सब विजयों (हर्ष - विषाद, राग-द्वेष आदि)

सर्वभूतहिते - ( सर्वेषां भूतानां हिते) समस्त प्रणियों की भलाई में

समाधातुम् - (सम्+आ+√धा+ तुमुन् ) समाहित या स्थापित करने के लिए

आप्तुम् - (√आप् + तुमुन् ) प्राप्त करने के लिए

धनञ्जय - अर्जुन (अर्जुन अपनी धनुर्विद्या के बल से राजाओं से धन व भीष्मादि से गोधन लाए थे अतएव उन्हें ' धनञ्जय' नाम से संबोधित किया गया है )

विशिष्यते - श्रेष्ठ है. श्रेयस्कर है।

अद्वेष्टा  - द्वेष न करने वाला

सर्वभूतानाम् - समस्त प्राणियों का

निर्मम: - (निर्गतं ममत्वं यस्मात् सः) ममता ( यह मेरा है का भाव) से रहित ।

समदुःखसुखः - जिसके लिए दुःख व सुख समान हैं।

मत्कर्मपरमः - मेरी प्रसन्नता के कर्म अर्थात् श्रवण, कीर्तन ।

सङ्गविवर्जितः - ( सङ्गत् विवर्जितः इति ) चेतन व अचेतन - सभी विषयों में आसक्ति का त्याग करने वाला, हर्ष एवं विषाद से शून्य ।

अशक्तः - ( न शक्तः इति अशक्तः) असमर्थ ।

यतात्मवान् - (यतु आत्मवान्)।

यत - इन्द्रियों को संयत करने वाला

आत्मवान् - विवेक से युक्त |

अनिकेतः - ( अविद्यमानं निकेतं यस्य सः) निश्चित निवास स्थान से रहित।

हृष्यति - प्रसन्न होता है।

द्वेष्टि - द्वेष करता है।

उदासीनः - निष्पक्ष, तटस्थ रहने वाला ।

गतव्यथः - (गताः (न उत्पन्नाः) व्यथा: यस्य सः) जिसे किसी भी स्थिति में पीड़ा नहीं होती ।

सर्वारम्भपरित्यागी - लौकिक व अलौकिक फलवाले सभी कर्मों का त्याग करने वाला

सततम् - निरन्तर

यतात्मा - शरीर व इन्द्रिय आदि के समूह पर संयम करने वाला 

मय्यर्पितमनोबुद्धिः - मुझमें अर्थात् शुद्ध ब्रह्म में अपने मन व बुद्धि को अर्पित करने वाला।

समुद्धर्ता - सम्यक् ( पूरी तरह से ) उद्धार करने वाला, शुद्ध ब्रहम में धारणा कराने वाला ।

मृत्युसंसारसागरात् - ( मृत्युयुक्तः यः संसारः, सः एव सागरः इति) मृत्यु युक्त ( मरणशील) संसार रूपी सागर से 

नचिरात् - शीघ्र ही ।

पार्थ - हे अर्जुन ( सम्बोधन ) ।

मय्यावेशितचेतसाम् - मयि आवेशित चेतसाम् मुझमें अर्थात् ब्रह्म में प्रविष्ट ( लीन) मन वालों का।


सन्धिविच्छेदः

अनन्येनैव - अनन्येन+एव

मय्येव - मयि+एव

संनियम्येन्द्रियग्रामम् - संनियम्य+इन्द्रियग्रामम्

मामिच्छाप्तुम् - माम्+इच्छ (संयोगः) इच्छ+आप्तुम् 

ज्ञानमभ्यासाज्ज्ञानाद्ध्यानम् - ज्ञानम्+अभ्यासात् (संयोग ) + ज्ञानात् + ध्यानम्

कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् - कर्मफलत्याग: +त्यागात्+शान्तिः+अनन्तरम्

अभ्यासेऽप्यसमर्थोऽसि - अभ्यासे+अपि+असमर्थः+असि

मदर्थम् - मत्+अर्थम्

मानापमानयोः - मान+अपमानयोः

शीतोष्ण - शीत+उष्ण

अथैतदप्यशक्तोऽसि - अथ+एतत्+अपि+अशक्तः+असि

मद्योगम् - मद्+योगम्

स मे - सः+मे

स्थिरमतिर्भक्तिमान् - स्थिरमतिः+ भक्तिमान्

शुचिर्दक्षः - शुचि: + दक्षः

सर्वारम्भ - सर्व + आरम्भ

मद्भक्तः - मत्+भक्तः

मय्यर्पितमनोबुद्धिर्यो - मयि+अर्पितमनः+बुद्धि+यः


अभ्यासः

1. अधोलिखित- प्रश्नानाम् उत्तराणि संस्कृतभाषया देयानि -

(क) एतानि पद्यानि कः कं प्रति कथयति ?

(ख) वक्ता सर्वाणि कर्माणि कस्मिन् न्यसितुं कथयति ?

(ग) ब्रह्मणि चित्तं स्थिरं कर्तु किम् आवश्यकम् ?

(घ) कस्मिन् रताः जनाः ब्रह्म प्राप्नुवन्ति ?

(ङ) षष्ठे पद्ये महर्षिणा के गुणाः वर्णिता: ?

(च) अभ्यासे अपि असमर्थः जनः कथं सिद्धिमवाप्स्यति ?

(छ) नवम - पद्यानुसारं 'मत्कर्मपरत्वे अशक्तौ सत्यां' किं कर्तव्यम् ?

2. ईश्वरस्य प्रियत्वं प्राप्तुम् के गुणाः आवश्यकाः सन्ति ? विस्तरेण लिखत-

3. प्रदत्तानां पद्यांशानाम् भावार्थम् लिखत-

(क) समः शत्रौ च मित्रे च तथा मानापमानयोः। 

(ख) मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । 

(ग) यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । 

शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥

4. पञ्चमं पद्यमाधृत्य लिखत- कस्मात् कः श्रेयः ?

यथा - अभ्यासात् ज्ञानम्-   ................     ................    ................  

         ................   ................   ................   ................      

5. ईश्वरस्य स्वगुरुजनानां च प्रियाः भवितुम् भवन्तः किं करिष्यन्ति ?

6. रिक्तस्थानानि पूरयत-

(क) संनियम्येन्द्रियग्रामं............................. ।

(ख) सन्तुष्टः.............................योगी।

(ग) अनपेक्षः.............................दक्षः ।

(घ) तेषामहं.............................'मृत्युसंसारसागरात् ।

(ङ) शुभाशुभपरित्यागी............................स मे प्रियः ।

7. निम्नपदेषु सन्धिच्छेदः विधेयः-

अनन्येनैव, मय्येव, करुण एव निरहङ्कारः, बुद्धिर्य:, मानापमानयोः,अभ्यासेऽप्यसमर्थः, मद्योगम्, अथैतत्, मदर्थम्

8. अधोलिखित- पदेषु विग्रहं कृत्वा समासनाम लिखत-

दृढनिश्चयः, अनिकेतः, स्थिरमतिः, अनपेक्षः, गतव्यथः, कर्मफलत्यागः, निरहङ्कारः, सर्वभूतहिते

9. प्रदत्तपदानां प्रकृति-प्रत्यय- परिचयः देयः-

संनियम्य, समाधातुम्, आप्तुम्, सन्तुष्टः, विवर्जितः, अशक्तः, कर्तुम्, आश्रितः

10. पाठात् विलोम - पदानि चित्वा लिखत-

निन्दा, शत्रुः, मानः, समर्थः, शीतम्, व्यथितः सीदति, शक्तः, चञ्चलम्, अपेक्षः


योग्यताविस्तारः

कतिपयाः अन्ये उपयोगिनः श्लोकाः अपि पठनीया:-

श्रोत्रं श्रुतेनैव न कुण्डलेन

दानेन पाणिर्न तु कङ्कणेन । 

विभाति कायः करुणापराणां 

परोपकारेण न तु चन्दनेन ।।

वज्रादपि कठोराणि मृदूनि कुसुमादपि । 

लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति । । 

एके सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये 

सामान्यास्तु परार्थमुद्यमभृताः स्वार्थाविरोधेन ये ।

तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये 

ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ||

घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुदण्डम् । दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम्॥

तमीश्वराणां परमं महेश्वरम्

तं देवतानां परमं च दैवतम् ।

पतिं पतीनां परमं परस्तात्

विदाम देवं भुवनेशमीड्यम् ।।