Table of Contents
प्रथमः पाठः
वेदामृतम्
भारतीय वैदिक वाङ्मय संपूर्ण विश्व का प्राचीनतम वाङ्मय होने के साथ मनुष्य की अंतश्चेतना से फूटी उदात्त कविता का भी प्रथम निदर्शन है। वैदिक काव्य में विश्वशान्ति, विश्वबन्धुत्व, लोकतान्त्रिक मूल्य, निर्भयता तथा राष्ट्रप्रेम का सन्देश भरा पड़ा है जो आज के वातावरण में पहले से भी अधिक प्रासंगिक प्रतीत होता है।
प्रस्तुत पाठ में वैदिक काव्य का अमृततत्व ऋग्वेद, यजुर्वेद तथा अथर्ववेद से संकलित किया गया है। इन कविताओं में अत्यन्त उदात्त एवं अनुकरणीय आदर्श विद्यमान है।
सङ्ग॑च्छध्वं॒ सं व॑दध्वं सं वो॒ मनो॑सि जानताम्।
दे॒वा भा॒गं यथा पूर्वे सञ्जानाना उपा॑सते॥1॥ (ऋग्वेदः 10-191-2)
स॒मा॒नी व आकृ॑तिः समा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु॒ वो॒ मनो॒ यथा॑ व॒: सु॒स॒हासत॥2॥ (ऋग्वेदः 10-191-4)
मधु वाता॑ ऋ॒ताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वीर्नः सन्त्वोषधीः॥3॥ (ऋग्वेद : 1-90-7)
यज्जाग्रतो दूरमुदैति॒ दैवं॒
तदु॑ सु॒प्तस्य॒ तथैवैति।
दूरङ्गमञ्ज्योति॑षां ज्योतिरेकं
तन्मे मनः॑ शि॒वस॑ङ्कल्पमस्तु॥4॥ ( यजुर्वेद : 34.1 )
तच्चक्षु॑र्देवहितं पु॒रस्ता॑च्छुक्रमुच्चर॑त्
पश्येम शरदः शतं जी॒वेम शरद॑: श॒तम् ।
शृणुयाम श॒रदः श॒तं प्रब्र॑वाम शरदः शतम्
अदीनाः स्याम शरदः श॒तं भूय॑श्च शरदः श॒तात् ॥5॥ ( यजुर्वेद 36-24)
जनं॒ बिभ्रती बहुधा विवाच॑स॒म्
नान॑धर्माणं पृथि॒वी यथौकसम्।
स॒हस्र॑ धारा द्रविण॑स्य मे दुहां
ध्रुवेव॑ धे॒नु॒रनु॑पस्फुरन्ती ॥6॥ (अथर्ववेदः पृथिवीसूक्तम् 12.1.45 )
शब्दार्थाः टिप्पण्यश्च
सङ्गच्छध्वम् - सङ्गताः संभूताः भवत ( सम् पूर्वक गम् धातु आत्मनेपद लोट् लकार म.पु., बहु. व.), साथ चलें।
संवदध्वम् - परस्परं विरोधं परित्यज्य एकविधमेव वाक्यं ब्रूत इति, परस्पर विरोध छोड़कर समान स्वर से एक समान बोलें।
व: ( युष्माकम् ) - तुम्हारा
मनांसि - मन
सञ्जानताम् - समानमेकरूपमेवार्थम् अवगच्छन्तु समान रूप से अर्थ बोध करें।
पूर्वे देवा: - पुरातनाः देवाः, पूर्वकाल के देवगण
सञ्जानानाः - ऐकमत्यं प्राप्ताः, एकमत होकर
भागम् उपासते - हवि के भाग को स्वीकार करते हैं
आकूतिः - संकल्पः, अध्यवसायः, संकल्प
समाना - समानानि, एकविधानि समान
सुसह - शोभनं साहित्यम्, संगति
असति - भवतु (तुम्हारी सुन्दर संगति हो जाए)
मधु - माधुर्योपेतम्, माधुर्य से भरी
ऋतायते - ऋतं (यज्ञं) आत्मनः इच्छते यजमानाय अपने लिए यज्ञ की कामना करने वाले यजमान के लिए
सिन्धवः - नद्यः, समुद्राः वा, नदियाँ अथवा समुद्र
ओषधीः - फलपाकान्ता ओषधयः, फल के पकने पर जो पौधे नष्ट हो जाते हैं, उन्हें औषधि कहते हैं।
जाग्रतः - जागते हुए के
दूरम् उदैति - दूर भाग जाता है।
तदु दैवम् (मनः ) - तद् दिव्यज्ञानयुक्तं मनः, वही दिव्य विज्ञान युक्त मन
ज्योतिषाम् - इन्द्रियाणाम्, विषयों का प्रकाशन करने वाली इन्द्रियों में
दूरं गमम् - सर्वाधिक दूर तक पहुँचने वाली, एकमात्र प्रकाशक
शिवसङ्कल्पम् - शिवाः संकल्पाः यस्य तत्, मंगलमय, कल्याणकारी विचारवाला
देवहितम् - देवैः स्थापितम्, देवताओं द्वारा स्थापित
शुक्रम् - दिव्य, चमकीला
चक्षुः - नेत्र, सूर्य
पुरस्तात् - पूर्वदिशायाम्, पूर्व दिशा में समक्ष
उच्चरत् - उदितः जातः, उदय हुआ है
शरद: - वर्ष
शतम् - सौ ( जीवित रहें )
अदीनाः - न दीनाः, दैन्यात् रहिताः, दीनता से रहित
भूयश्च शरदः शतात् - पुनः पुनः शतात् शरदः एवमेव भवेत्, बार- बार सौ वर्षों से भी अधिक यही स्थिति बनी रहे ।
बिभ्रती - धारण करती हुई ।
विवाचसम् - विभिन्न भाषा वाले ।
यथौकसम् - धारण करने वाले घर के समान ।
दुहाम् - दुहावे, बहादे
अनुपस्फुरन्ती - कम्पन रहित
अभ्यासः
1. संस्कृतभाषया उत्तरत ।
(क) सङ्गच्छध्वम् इति मन्त्रः कस्मात् वेदात् सङ्कलित : ?
(ख) अस्माकम् आकूतिः कीदृशी स्यात् ?
(ग) अत्र मन्त्रे ' यजमानाय ' इति शब्दस्य स्थाने कः शब्दः प्रयुक्तः ?
(घ) अस्मभ्यम् इति कस्य शब्दस्य अर्थः ?
(ङ) ज्योतिषां ज्योतिः कः कथ्यते ?
(च) माध्वी : काः सन्तु ?
(छ) पृथिवीसूक्तं कस्मिन् वेदे विद्यते ?
2. अधोलिखितक्रियापदैः सह कर्तृपदानि योजयत ।
(क) ......................सञ्जानानाः उपासते।
(ख) ......................मधु क्षरन्ति ।
(ग) मे ......................शिवसङ्कल्पम् अस्तु ।
(घ) ......................शतं शरदः शृणुयाम ।
3. शुद्धं विलोमपदं योजयत ।
जाग्रत: वः
नः अदीनाः
दीना: सुप्तस्य
4. अधोलिखितपदानाम् आशयं हिन्दी- भाषया स्पष्टीकुरुत ।
उपासते, सिन्धवः, सवितः जाग्रतः पश्येम।
5. (क) वेदे प्रकल्पितस्य समाजस्य आदर्शस्वरूपम् पञ्चवाक्येषु चित्रयत।
(ख) मनसः किं वैशिष्ट्यम् ?
6. पश्येम, शृणुयाम, प्रब्रवाम, इति क्रियापदानि केन इन्द्रियेण सम्बद्धानि ?
7. अधोलिखितवैदिकक्रियापदानां स्थाने लौकिकक्रियापदानि लिखत ।
असति, उच्चरत्, दुहाम् ।
योग्यताविस्तारः
ऋग्वेद: (: मूलतः ज्ञानकाण्डं कथ्यते तत्र मुख्यतः देवतापरकमन्त्राः सन्ति-यथा अग्नि:, इन्द्रः, रुद्रः, सविताप्रभृतयः । कतिपयानि सूक्तानि दार्शनिकानि सन्ति यथा नासदीयसूक्तम्, ज्ञानसूक्तम्, हिरण्यगर्भीदिसूक्तम् । कतिपयानि सामाजिकसूक्तानि अपि सन्ति येषु धनान्नदानसूक्तम् अक्षसूक्तम् सङ्गठनसूक्तादयः । ऋग्वेदस्य साम्मनस्यसूक्तस्य पल्लवनम् उत्तरवर्तिषु उपनिषदादिशास्त्रेष्वपि उपलभ्यते। यथा-
सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ तैत्तिरीय उप०
“सङ्गच्छध्वम्" ......................तथा "समानी " ......................इत्यादिमन्त्राणां भावः गीतिरूपे हिन्द्याम् अपि प्राप्यते । यथा-
(1) प्रेम से मिलकर चलो बोलो सभी ज्ञानी बनो।
पूर्वजों की भाँति तुम कर्त्तव्य के मानी बनो ॥
( 2 ) हों विचार समान सबके चित्र मन सब एक हों ।
ज्ञान देता हूँ बराबर भोग्य पा सब नेक हों ॥।
प्रकृतौ माधुर्यस्य प्रार्थना एवं पारिवारिकमधुरतायाः अर्चनस्य आधारः । अतः अथर्ववेदे एतादृश्यः प्रार्थनाः उपलभ्यन्ते।
अनुव्रतः पिता पुत्रो मात्रा भवतु सम्मनाः ।
जाया पत्ये मधुमतीं वाचं वदतु शान्ति वाम् ॥ ( अथर्ववेद : 3.3.2 )
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः
माध्वीर्गावो भवन्तु नः । (ऋग्वेद : 1.10.08 )
यजुर्वेदः मुख्यतः कर्मकाण्डस्य वेदः अस्ति, परम् अस्मिन् अपि जीवनविषयका : मन्त्राः उपलब्धाः सन्ति। मनसः निग्रहणार्थं यजुर्वेदे अनेके मन्त्राः सन्ति । यथा-
यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।
यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ (यजुर्वेद : 34/3 )
यद्यपि ऋग्वेदस्यैव मन्त्राः सामवेदे सन्ति तथापि सामवेदमन्त्रेषु गेयता विद्यते ।
अथर्ववेदः विज्ञानकाण्डं मन्यते । अस्मिन् वेदे विविधाः मन्त्राः सन्ति । यथा आयुर्वेदविषयकाः, भौतिकविज्ञानविषयकाः, अर्थशास्त्रविषयका : व्यवहारशास्त्रविषयकाः तथा च परं राष्ट्रीय भावनायाः दृढीकरणं अस्य वेदस्य वैशिष्ट्यम् अस्ति । अथर्ववेदे पृथ्वी मातृवत् स्पृहणीया निगदिता ।
यस्यां समुद्र उत सिन्धुरापो
यस्यामन्नं कृष्टयः सम्बभूवुः ।
यस्यामिदं जिन्वति प्राणदेजत्
सा नो भूमिः पूर्वपेये दधातु ॥ ( अथर्ववेद : 12.1.3)
ब्रह्मचर्येण राजा राष्ट्रं विरक्षति (अथर्ववेदः)
