RuchiraBhag1-001

सप्तमः पाठः

विज्ञाननौका

प्रस्तुत पाठ 1933 में पुरी (उड़ीसा) में जन्मे कवि प्रो. श्रीनिवास रथ द्वारा रचित कविता-संग्रह तदेव गगनं सैव धरा से संगृहीत है। श्रीनिवास रथ बाल्यकाल से मध्यप्रदेश के विभिन्न नगरों में रहे तथा अपने पिता से पारम्परिक पद्धति द्वारा संस्कृत का अध्ययन करने के पश्चात् उच्चशिक्षा इन्होंने काशी हिन्दू विश्वविद्यालय में प्राप्त की । ये विक्रम विश्वविद्यालय उज्जैन में संस्कृत विभाग में प्राध्यापक एवं विभागाध्यक्ष रहे।

प्रायः 40 वर्षों से ये संस्कृत में गीत लिखते आ रहे हैं। इनके गीतों का उपर्युक्त संग्रह हिन्दी अनुवाद के साथ प्रकाशित हो चुका है। 

प्रस्तुत पाठ में आधुनिक विश्व में यान्त्रिकता और कृत्रिमता के प्रति बढ़ते हुए मोह के प्रति सचेत किया जा रहा है कि जीवन मूल्यों को भुलाकर नई भौतिक तकनीकी से मानव को अभिभूत नहीं होना चाहिए।

विज्ञाननौका समानीयते 

ज्ञानगङ्गा विलुप्तेति नालोक्यते ॥

संस्कृतोद्यानदूर्वा दरिद्रीकृता 

निष्कुटेषु स्वयं कण्टकिन्याहिता । 

पुष्पितानां लतानां न रक्षा कृता 

विस्तृता वाटिकायोजना निर्मिता ॥

के कथं कुत्र वा क्रन्दनं कुर्वते 

राजनीतिश्मशानेषु न ज्ञायते । विज्ञाननौका.....

वर्तमानस्थितिर्मानवानां कृते 

प्रत्यहं दुर्निमित्तैव संलक्ष्यते । 

यत्र कुत्रापि शान्तिः समुद्वीक्ष्यते 

तत्र विध्वंसबीजं समायोज्यते ॥

pic1

सर्वनाशार्थविद्यैव विद्योतते 

स्वार्थरक्षावलम्बोऽपि नो चिन्त्यते । विज्ञाननौका......

तारकायुद्धसम्भावनाऽधीयते

गोपनीयायुधानां कथा श्रूयते । 

विश्वशान्तिप्रयत्नेषु सन्दृश्यते 

विश्वसंहारनीतिर्यथोपास्यते ॥

भूतले जीवरक्षा परिक्षीयते

जीवनाशाऽन्तरिक्षेऽनुसन्धीयते । विज्ञाननौका.....

विश्वबन्धुत्वदीक्षागुरूणां व्रतं 

धर्मसंस्कारतत्त्वं बतास्तं गतम् । 

लोककल्याणशिक्षासमाराधनं

हन्त ! विक्रीयते काव्य-सङ्कीर्तनम् ॥

यन्त्रमुग्धान्धताऽहर्निशं सेव्यते

संस्कृतिज्ञानरक्षा न सञ्चिन्त्यते । विज्ञाननौका......


शब्दार्थाः टिप्पण्यश्च

समानीयते - सम् + आ + नी कर्मवाच्य, लट् प्र. पु. ए. व., लाई जा रही है।

विलुप्ता - वि + लुप् + क्त + टाप् स्त्री. लुप्त हो गई है।

आलोक्यते -  आ + लोक् कर्मवाच्य दिखाई दे रही है।

दूर्वा - दूब, घास ।

दरिद्रीकृता - अदरिद्रा दरिद्रा कृता, दरिद्र + च्वि + कृ + क्त स्त्री. प्र. पु. ए. व., गरीब बना दी गई।

निष्कुटेषु - घरेलू उद्यानों में, क्रीडोद्यान ।

कण्टकिनी - केक्टस (नागफनी)

आहिता - आ + धा + क्त, स्त्री लगाई।

वाटिकायोजना - वाटिकानां योजना, बगीचियों का निर्माण |

निर्मिता - निर् + मा + क्त, स्त्री. प्र. पु. ए. व., निर्माण किया गया, बनाई गई।

प्रत्यहं - अहनि अहनि, अव्ययीभाव समास, प्रतिदिन ।

दुर्निमित्ता - दुष्टं निमित्तं यस्याः सा (बहुव्रीहि: ), अमांगलिक ।

संलक्ष्यते -  सम् + लक्ष्य् + कर्मवाच्य, लट्लकार, प्र. पु. ए. व., दिखाई दे रही है।

समुद्वीक्ष्यते - सम् + उत् + वि + ईक्ष् कर्मवाच्य, लट्लकार, प्र. पु., दिखाई दे रही है।

विध्वंसबीजम् - विध्वंसस्य बीजं, ष. तत्पुरुष, विनाश का बीज ।

समायोज्यते - सम् + आ + युज् + णिच् + कर्मवाच्य लट्, प्र.पु., ए. व. बोया जा रहा है।

सर्वनाशार्थविद्या -  सर्वनाश + अर्थविद्या सभी पदार्थों का विनाश करने वाली विद्या ।

विद्योतते - वि. उपसर्ग, द्युत् धातु, लट् लकार प्र. पु. ए. व., चमक रही है, दिखाई दे रही है। 

स्वार्थरक्षावलम्बो ऽपि - स्वार्थरक्षा + अवलम्बः + अपि, स्वार्थस्य रक्षायाः अवलम्बः, ष. तत्पु., स्वार्थरक्षा का आश्रय भी।

तारकायुद्धसम्भावना - तारकाणां युद्धस्य सम्भावना, (स्टार वार ) ।

आधीयते -  आ + धा + कर्मवाच्य, लट्, प्र.पु. ए.व. सिखाई जा रही है, की जा रही है।

गोपनीयायुधानां -  गोपनीय आणविक अस्त्र-शस्त्र आदि ।

विश्वसंहारनीतिर्यथोपास्यते -  विश्वसंहारनीति: + यथा उपास्यते, जैसे विश्व के विनाश की नीति सिखाई जा रही है।

उपास्यते - उप + आस् कर्मवाच्य लट् प्र.पु., उपासना की जा रही है।

परिक्षीयते - परि + क्षि + कर्मवाच्य, लट्, प्र.पु. ए. व. क्षीण हो रही है।

जीवनाशाऽन्तरिक्षे ऽनुसन्धीयते - जीवन + आशा + अन्तरिक्षे + अनुसन्धीयते, जीवन की आशा आकाश में ढूँढ़ी जा रही है।

अनुसन्धीयते - अनु + सम् + धा, कर्मवाच्य, लट्, प्र. पु. प्र.पु. ए. व., अनुसन्धान किया जा रहा है।

बतास्तङ्गतम् -  बत + अस्तं गतम्, खेद है कि नष्ट हो गई। 

विक्रीयते - वि + क्री + कर्मवाच्य, लट्, प्र.पु. ए.व., बेचा जा रहा है।

यन्त्रमुग्धान्धता - यन्त्रों के मोह का अन्धकार ।

अहर्निशं - अहः च निशा च द्वन्द्व समास, दिन रात ।

सञ्चिन्त्यते - सम् + चिन्त् + कर्मवाच्य, लट् प्र.पु., ए.व., सोचा जा रहा है।


अभ्यासः

1. संस्कृतेन उत्तरं दीयताम् ।

(क) एषा गीतिका कस्मात् पुस्तकात् सङ्गृहीता? 

(ख) अस्याः गीतिकायाः लेखकः कः?

(ग) अत्र का दरिद्रीकृता ?

(घ) निष्कुटेषु का आहिता?

(ङ) वाटिकायोजनायां केषां कासां च रक्षा न कृता ? 

(च) राजनीति - श्मशानेषु किं न ज्ञायते ?

(छ) मानवानां कृते वर्त्तमानस्थितिः कीदृशी सल्लक्ष्यते । 

(ज) आधुनिकयुगे कस्याः अवलम्बः न चिन्त्यते ? 

(झ) विश्वशान्तिप्रयत्नेषु का उपास्यते ?

(ञ) जनैः अहर्निशं का सेव्यते ?

2. रिक्तस्थानानि पूरयत ।

(क) ज्ञानगङ्गा......................नालोक्यते ?

(ख) के कथं कुत्र वा......................कुर्वते ?

(ग) यत्र कुत्रापि......................समुद्वीक्ष्यते।

(घ) गोपनीयायुधानां......................श्रूयते ।

(ङ) भूतले......................परिक्षीयते ।

3. 'संस्कृतोद्यानदूर्वा......................निर्मिता' अस्य श्लोकस्य आशय : हिन्दी भाषया स्पष्टीक्रियताम्।

4. अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।

ज्ञानगङ्गा, ज्ञायते, शान्ति:, विद्योतते, सन्दृश्यते जीवरक्षा, विक्रीयते ।

5. 'वर्तमान......................समायोज्यते' अस्य श्लोकस्य अन्वयं कुरुत ।

6. अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत ।

विलुप्तेति कण्टकिनी आहिता, प्रत्यहं बत अस्तं, अन्तरिक्षे + अनुसन्धळीयते, यथोपास्यते।


योग्यताविस्तारः

(क) विज्ञानं न केवलं सुखकरम् अस्ति अपितु दुःखस्य मूलम् अपि अस्ति । यथा श्रीरथमहोदयः कथयति - यानि उपकरणानि अन्तरिक्षमण्डले प्रक्षेपितानिसन्ति, तेषु केचित् उपग्रहाः तु सन्देशवहनाय उपयुक्ताः भवन्ति परं अन्ये अनेके उपग्रहाः धूमकेतव इव खगोलकक्षासु भ्रमन्तः तिष्ठन्ति । लक्षाधिका: कन्दुकाकाराः अवकरसमूहाः विविधेषु वलयेषु पृथ्वीं परितः भ्रमन्ति । क्वचित् क्रमशः कक्षान्तरं साधयित्वा गुरुत्वाकर्षणवशात् तादृशः अवकरः धूलिकणरूपेण भूमौ आपतति ।

(ख) प्राचीनभारते विज्ञानम् -

प्राचीनकाले समयस्य सूक्ष्मातिसूक्ष्मं स्वरूपं ज्ञातुं यन्त्राणां सहायता गृह्यते स्म । एतस्य कृते वेधशालानां निर्माणं क्रियते स्म । तत्कालीनानां यन्त्राणां उल्लेखः शास्त्रेषु उपलभ्यते। यथा-

दिनगतकालावयवा ज्ञातुमशक्या यतो विना यन्त्रैः । 

वक्ष्ये यन्त्राणि ततः स्फुटानि सङ्क्षेपतः कतिचित् । 

गोलो नाडीवलयं यष्टिः शङ्कुर्घटी चक्रम् । 

चापं तुर्यं फलकं धीरेकं पारमार्थिकं यन्त्रम् ॥ 

सूर्यसिद्धान्तादिशास्त्रेषु भूगोल - खगोलविषयकं ज्ञानम् उपलभ्यते । यथा-

भगवन्! किम्प्रमाणा भूः किमाकारा किमाश्रया । 

किं विभागा कथं चात्र सप्तपातालभूमयः ॥ 

अहोरात्रव्यवस्थां च विदधाति कथं रविः । 

कथं पर्येति वसुधां भुवनानि विभावयन् ॥ 

कथं पर्येति वसुधां भुवनानि विभावयन् । 

भूमेरुपर्युपर्यूर्ध्वाः किमुत्सेधाः किमन्तराः ॥

न्यायवैशेषिकशास्त्रेषु अपि सप्तमौलिकपदार्थानाम् उल्लेखः पूर्वतः एव उपलभ्यते। तत्र द्रव्य-गुण-कर्म- सामान्य- विशेष - समवाय- अभावादीनां भेदप्रभेदादिक्रमः सविस्तरं वर्तते।

(ग) प्रो. श्रीनिवासरथविरचितस्य अस्य गीतस्य तथैव अधोलिखितस्य अन्यस्य गीतस्यापि अभ्यासः श्रव्य-साधनैः कर्तुं शक्यते-

जीवनगतिरनुदिनमपरा

तदेव गगनं सैव धरा ॥

पापपुण्यविधुरा धरणीयं

कर्मफलं भवताऽऽदरणीयम् ।

नैतद्वचोऽधुना रमणीयम्

तथापि सदसद् विवेचनीयम् ॥