Shashwati  Chapter-8अष्टमः पाठः­­

दयावीर कथा

प्रस्तुत पाठ मैथिली, संस्कृत और अपभ्रंश (अवहट्ठ) के प्रसिद्ध कवि विद्यापति द्वारा विरचित ‘पुरुष-परीक्षा’ नामक कथाग्रन्थ से सङ्कलित किया गया है। विद्यापति का जन्म चतुर्दश शताब्दी (1360-1448) में मिथिला क्षेत्र के विसफी ग्राम में हुआ था। ‘विद्यापति-पदावली’ इनकी लोकविश्रुत रचना है। इन्होंने संस्कृत में विविधविषयक 12 ग्रन्थों की रचना की है।

‘पुरुष-परीक्षा’ में सच्चे पुरुष की परख कैसे की जाये-यह बताने के लिए वासुकि नामक मुनि पारावार नामक राजा को अनेक कथाएँ सुनाते हैं। प्रस्तुत कथा में राजा हम्मीरदेव को दयावीर के रूप में चित्रित किया गया है। कथा के अनुसार राजा हम्मीरदेव ने सम्राट् अलाउद्दीन के कोप का भाजन बने शरणागत मुहम्मद शाह (सेनापति) की प्राणपण से रक्षा की है।

दयालुः पुरुषः श्रेष्ठः सर्वजन्तूपकारकः।

तस्य कीर्तनमात्रेण कल्याणमुपपद्यते।।

अस्ति कालिन्दीतीरे योगिनीपुरं नाम नगरम्। तत्र अलावदीनो नाम यवनराजो बभूव। स चैकदा केनापि निमित्तेन महिमासाहिनाम्ने सेनानिने अकुप्यत्। स च यवनस्वामिनं प्रकुपितं प्राणग्राहकं च ज्ञात्वा चिन्तयामास, सामर्षो राजा विश्वसनीयो न भवति। तदिदानीं यावदनिरुद्धोऽस्मि तावदेवेतः ५ ापि गत्वा निजप्राणरक्षां करोमीति परामृश्य सपरिवारः पलायितः। पलायमानोऽप्यचिन्तयत् यत्सपरिवारस्य दूरगमनमशक्यम्। परिवारं परित्यज्य पलायनमपि नोचितम्। यतः

जीवितार्थं कुलं

ch%208.tif

त्यक्त्वा योऽतिदूरं जनो व्रजेत्।

लोकान्तरगतस्येव किं तस्य जीवितेन वा।।

तदिहैव दयावीरं हम्मीरदेवं समाश्रित्य तिष्ठामीति परामृश्य स यवनो हम्मीरदेवमुपगम्याह देव! विनापराधं हन्तुमुद्यतस्य स्वामिनस्त्रासेनाहं तव शरणमागतोऽस्मि। यदि मां रक्षितुं शक्नोषि तदा विश्वासं देहि। नो चेदितोऽन्यत्र गच्छामि।


राजोवाच- यवन! मम शरणागतं मयि जीवति यमोऽपि त्वां पराभवितुं न शक्नोति, किं पुनर्यवनराजः? तदभयं तिष्ठ।

ततस्तस्य राज्ञो वचनेन स यवनसचिवस्तस्मिन् रणस्तम्भनाम्नि दुर्गे निःशङ्कमुवास। क्रमेण यवनराजस्तत्रावस्थितं तं विदित्वा परमसामर्षः करितुरगपदाति- पदाघातैर्धरित्रीं चालयन् दुर्गद्वारमागत्य हम्मीरदेवेन साकं युद्धं कृतवान्, परं जयं न लब्धवान्।

प्रथमयुद्धानन्तरं यवनराजेन हम्मीरदेवं प्रति दूतः प्रहितः। दूत उवाच- राजन् हम्मीर! श्रीमान् यवनराजस्त्वामादिशति यन्ममापथ्यकारिणं महिमासाहिं परित्यज्य देहि। यद्येनं न दास्यसि तदा श्वस्तने प्रभाते तव दुर्गं तुरगखुराघातैश्चूर्णावशेषं कृत्वा महिमासाहिना सह त्वामन्तकपुरं नेष्यामि। हम्मीरदेव उवाच- रे दूत! त्वमवध्योऽसि। तवाहं किं करवाणि? अस्योत्तरं तव स्वामिने खड्गधाराभिरेव दास्यामि न वचोभिः। मम शरणागतं यमोऽपि विपक्षदृष्ट्या वीक्षितुं न शक्नोति किं पुनर्यवनराजः?

ततो निर्भर्त्सिते दूते गते सति यवनराजः कुपित्वा युद्धसमुद्धरो बभूव। एवमुभयोरपि बलयोर्युद्धेऽर्धावशिष्टसुभटे यवनसैन्ये दुर्गे ग्रहीतुमशक्ये यवनराजः परावृत्य निजनगरगमनाकाङ्क्षी बभूव। तञ्च भग्नोद्यमं दृष्ट्वा रायमल्लरामपालनामानौ हम्मीरदेवस्य द्वौ सचिवौ दुष्टौ यवनराजमागत्य मिलितौ। तावूचतुः यवनराज! भवता क्वापि न गन्तव्यम्। दुर्गे दुर्भिक्षमापतितम्। श्वः परश्वो वा दुर्गं ग्राहयिष्यावः। ततस्तौ दुष्टसचिवौ पुरस्कृत्य यवनराजेन दुर्गद्वाराण्यवरुद्धानि।

तथा सङ्कटं दृष्ट्वा हम्मीरदेवः स्वसैनिकान् प्रत्युवाच - रे रे योद्धारः! परिमितबलोऽप्यहं शरणागतकरुणया प्रवृद्धबलेनापि यवनराजेन समं योत्स्यामि। ततो यूयं सर्वे दुर्गाद्बहिः स्थानान्तरं गच्छत। त ऊचुः- भवान् निरपराधो राजा (शरणागतस्य) यवनस्य करुणया सङ्ग्रामे मरणमङ्गीकुरुते। वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं परित्यज्य कापुरुषपदवीमनुसरिष्यामः? किञ्च श्वस्तने प्रभाते देवस्य शत्रुं हत्वा प्रभोर्मनोरथं साधयिष्यामः। यवनस्त्वयं वराकः स्थानान्तरं प्रहीयताम्। तेन रक्षणीयरक्षा सम्भवति। यवन उवाच-देव! किमर्थं ममैकस्य विदेशिनो रक्षार्थं सपुत्रकलत्रं स्वकीयराज्यं विनाशयिष्यसि? ततो मां परित्यज्य देहि। राजोवाच- यवन! मैवं ब्रूहि। यतः

भौतिकेन शरीरेण नश्वरेण चिरस्थितम्।

लप्स्यमानं यशः को वा परिहर्तुं समीहते।।

किञ्च यदि मन्यसे तदा निर्भयस्थानं त्वां प्रापयामि। यवन उवाच-राजन् मैवं ब्रूहि। सर्वप्रथमं मयैव विपक्षशिरसि खङ्गप्रहारः कर्तव्यः।

ततः प्रभाते युद्धे प्रवर्त्तमाने हम्मीरदेवः सत्वर-तुरगारूढो निजसुभटसार्थसहितः पराक्रमं कुर्वाणो दुर्गान्निःसृत्य खड्गधारा- प्रहारैर्विपक्षबलवाजिनः पातयन् कुञ्जरान् घातयन्, कबन्धान् नर्तयन् रुधिरधाराप्रवाहेन मेदिनीमलङ्कृत्य शर-शल्लितसर्वाङ्गस्तुरगपृष्ठे त्यत्तηप्राणः सम्मुखः सङ्ग्रामभूमौ निपपात सूर्यमण्डलभेदी अभवत्।

शब्दार्थाः टिप्पण्यश्च

सर्वजन्तूपकारकः - सर्वेषां जन्तूनाम् उपकारकः, ष. त., सभी प्राणियों का उपकार करने वाला।

चैकदा - च + एकदा = एक समय।

प्रकुपितम् - प्र + कुप् + त्तη, अत्यन्त क्रोधित हुए।

चिन्तयामास - चिन्तित हुआ।

सामर्षः - क्रोधयुक्त।

अनिरुद्धः - नि + रुध् + त्तη = निरुद्धः, न निरुद्धः = अनिरुद्धः, (नञ्) न पकड़ा गया।

तदिहैव - तत् + इह + एव, अतः यहीं।

समाश्रित्य - सम् + आ + श्रि + ल्यप्, आश्रय लेकर।

परामृश्य - परा + मृश् + ल्यप्, विचार करके।

उपगम्य - उप + गम् + ल्यप्, समीप जाकर।

करितुरगपदाघातैः - करिणः तुरगाश्च-करितुरगाः, तेषां पदानाम् आघातः तैः, हाथियों, घोड़ों एवं पैदल सेना के पैरों के
आघात से।

धरित्रीम् - पृथ्वी को।

चालयन् - चल् + णिच् + शतृ, कँपाते हुए।

प्रहितः - प्र + हि + तη, भेजा।

ममापथ्यकारिणम् - मेरे विरोधी का।

श्वस्तने - आने वाले कल में।

तुरगखुराघातैः - घोड़ों के खुरों के आघात (टाप) से।

चूर्णावशेषम् - चूर चूर मात्र शेष।

अन्तकपुरम् - यमलोक।

अवध्यः - मारने योग्य नहीं।

वीक्षितुम् - वि + ईक्ष् + तुमुन्, देखने के लिए।

निर्भर्त्सिते - निर् + भर्त्स् + त्तη, फटकारे गए।

बभूव - भू + लिट् प्रथम पुरुष एकवचन (परोक्षभूत) हुआ।

बलयोः - दोनों सेनाओं के।

अर्धाविशिष्टसुभटे - आधे बचे सैनिकों वाले।

परावृत्य - लौटकर।

भग्नोद्यमम् - विफल पराक्रम का।

तावूचतुः - तौ + ऊचतुः वच् + लिट् प्रथम पुरुष द्विवचन, उन दोनों ने कहा।

दुर्भिक्षम् - अकाल।

परश्वः - परसों (आने वाला)।

परिमितबलः - कम सेना वाला।

प्रवृद्धबलेन - बड़ी सेना वाले ने।

ऊचुः - वच् + लिट् उत्तमपुरुष बहुवचन, कहा।

जीव्यभुजः - जीविका का उपभोग करने वाले।

कापुरुषः - कायर (नीच) पुरुष।

वराकः - बेचारा, अभागा।

प्रहीयताम् - भेज दीजिए।

सपुत्रकलत्रम् - पुत्र और स्त्री के साथ।

लप्स्यमानम् - प्राप्त होने वाले।

समीहते - चाहता है।

विपक्षबलवाजिनः - शत्रुओं की सेना के घोड़ों को।

कुञ्जरान् - हाथियों को।

पातयन् - पत् + णिच् + शतृ, गिराते हुए।

कबन्धान् नर्तयन् - कं मुखं बध्नाति-कबन्धः, तान्, नृत् + णिच् + शतृ,
कटे हुए शरीर के धड़ को नचाते हुए।

मेदिनीमलङ्कृत्य - पृथ्वी को शोभित (रंग) करके।

शरशल्लितसर्वाङ्गः - बाणों से खण्ड-खण्ड हुए सर्वाङ्ग शरीर वाले।

सूर्यमण्डलभेदी - सूर्यमण्डल का भेदन करने वाला अर्थात् वीरगति को प्राप्त।

अभ्यासः

1. संस्कृतभाषया उत्तरत।

(क) पुरुषपरीक्षायाः लेखकः कः?

(ख) अलावदीनो नाम यवनराजः कस्मै अकुप्यत्?

(ग) महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्?

(घ) हम्मीरदेवः यवनसेनानिनं प्रति किमवदत्?

(ङ) हम्मीरदेवेन निर्भर्त्सिते दूते यवनराजः किमकरोत्?

(च) भग्नोद्यमं यवनराजं दृष्ट्वा तमागत्य कौ मिलितौ?

(छ) युद्धसङ्कटमवलोक्य हम्मीरदेवः स्वसैनिकान् प्रति किमकथयत्?

(ज) ‘मां परित्यज्य देहि’ इत्युत्तηवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत्?

(झ) शरणागतरक्षायै कः वीरगतिमलभत?

2. अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

अलावदीनः, रणस्तम्भदुर्गः, योगिनीपुरम्, यवनराजः।

3. आशयं स्पष्टीकुरुत।

(क) जीवितार्थं कुलं त्यक्त्वा योऽतिदूरं जनो व्रजेत्।

लोकान्तरगतस्येव किं तस्य जीवितेन वा।।

(ख) वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं

परित्यज्य कापुरुषपदवीमनुसरिष्यामः।

4. प्रकृतिप्रत्ययविभागः क्रियताम्।

ज्ञात्वा, दृष्ट्वा, हत्वा, परित्यज्य, पुरस्कृत्य, अलङ्कृत्य, घातयन्, पलायमानः।

5. प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।

विद् + क्त्वा, परा + मृश् + ल्यप्, निर् + सृ + ल्यप्, पत् + णिच् + (इ) + शतृ, कृ + शानच्, रक्ष् + तुमुन्।

6. अधोलिखितशब्दान् आश्रित्य वाक्यरचनां कुरुत।

कुपित्वा, परामृश्य, अलङ्कृत्य, नर्तयन्, कुर्वाणः, गन्तव्यम्, पलायमानः, रक्षितुम्, लब्धवान्।

7. सन्धिविच्छेदः क्रियताम्।

सामर्षः, भग्नोद्यमम्, ममैकस्य, यमोऽपि, गतस्येव, मयैव, तुरगारूढः, इहैव, चूर्णाविशेषम्।

8. अधोलिखिताव्ययपदान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

तत्र, यतः, इह, तदा, ततः, च, यदि, श्वः, परश्वः।

योग्यताविस्तारः

सत्याहिंसादयादयः सद्गुणाः सदाचारस्य स्वरूपं निर्धारयन्ति। साधुभिः सदैव दयादयः गुणाः परिपालिताः। दयासदृशमिह परत्र च न किञ्चिदपि वर्तते। अतः सर्वेषु भूतेषु दया कर्तव्या।

नात्मनोऽपि प्रियतरः पृथिवीमनुसृत्य ह।

तस्मात् प्राणिषु सर्वेषु दयावानात्मवान् भवेत्।।

(महाभारतम्, अनु. 116-22)

आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि।

(अभिज्ञानशाकुन्तलम्-प्रथमाङ्क)

आर्तानामिह जन्तूनामार्तिच्छेदं करोति यः।

श३चक्रगदाहीनो द्विभुजः परमेश्वरः।।