RuchiraBhag1-001

दशमः पाठः

सत्त्वमाहो रजस्तमः

गीता का दिव्य संदेश किसी जाति, धर्म, सम्प्रदाय अथवा देशविशेष के लिए उपादेय नहीं है। इसका अमूल्य उपदेश सार्वभौमिक एवं सार्वकालिक है। गीता के उपदेश का अनुसरण एवं जीवन के सर्वपक्षों का समुचित विकास कर मनुष्य देवत्व ( श्रेष्ठत्व) को प्राप्त कर सकता है।

गीता में जीवन के उच्चतम आदर्श को प्राप्त करने के लिए सर्वसुलभ उपदेश है। इस ग्रन्थरत्न को उपनिषदों के साररूप में स्वीकार किया गया है। हृदय की दुर्बलता पर विजय प्राप्त करने वाले अर्जुन की तरह पाठक को ऐहिक और पारमार्थिक सुखों की प्राप्ति गीता द्वारा संभव है । दार्शनिक चिन्तन, भक्तिवर्णन एवं कर्मनिष्ठा के द्वारा गीता विश्व में सर्वाधिक प्रतिष्ठित स्वरूप को प्राप्त कर चुकी है।

pic1

प्रस्तुत पाठ में जीवों में व्याप्त स्वभावजन्य श्रद्धा तथा सत्त्व- रजस्-तमो गुणोपेत भेदों का वर्णन, साथ ही श्रद्धायुक्त पुरुष, भेद एवं त्रिविध सत्त्व- रजस् - तमो गुणों से युक्त आहार, तप और दान का वर्णन किया गया है।

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । 

सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ 

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। 

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ 

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । 

प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ 

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । 

दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ 

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । 

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ 

आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । 

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । 

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ 

यातयामं गतरसं पूतिं पर्युषितं च यत् । 

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ 

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । 

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ 

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । 

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ 

मनः प्रसाद सौम्यत्वं मौनमात्मविनिग्रहः । 

वसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः। 

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ 

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ॥ 

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ 

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । 

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ 

दातव्यमिति यद्दानं दीयते ऽनुपकारिणे । 

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥ 

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । 

दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्॥ 

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । 

असत्कृतमवज्ञातं तत्तामसमुदाहृतम्॥


शब्दार्थाः टिप्पण्यश्च

श्रद्धा - (श्रत्+धा+अङ्+टाप्) आस्था, निष्ठा

देहिनाम् - (श्रत्+धा+अङ्+टाप्) आस्था, निष्ठा

स्वभावजा - ( स्वभावात् जायते इति, स्त्री. ) - स्वभाव से उत्पन्न

सात्त्विकी - ( सत्त्व+ठञ्, स्त्री. ) - सत्त्वगुण से युक्त, वास्तविक

राजसी - (रजसा निर्मितम् - अण्, स्त्री. ) रजो गुण से प्रभावित / युक्त

तामसी - (तमोऽस्त्यस्य अण्, स्त्री . ) प्रकृति के तीन गुणों में से एक, अज्ञानी

सत्त्वानुरूपा - ( सत्त्वस्य अनुरूपा) सत्त्व के अनुरूप

यच्छ्रद्धः -  (यस्य श्रद्धा (भवति) सः) जिसकी श्रद्धा है, वह

यजन्ते - (यज्-आत्मनेपद] यज्ञ करते हैं।

अशास्त्रविहितम् - शास्त्रेण विहितं शास्त्रविहितम्, न शास्त्रविहितम्, शास्त्र द्वारा विधान न किया हुआ

जना: - (जन्+अच्), ब.व., मनुष्य

रक्षांसि - (रक्षस्, नपुं., बहु.व., रक्ष्+असुन्) राक्षस

दम्भाहङ्कारसंयुक्ताः - ( दम्भाहङ्काराभ्यां संयुक्ताः ) दंभ और अंहकार से संयुक्त

शृणु - ( श्रु- श्रवणे) श्रवण करना, सुनना

रस्याः - ( रस्+ यत्) रस वाले, रुचिकर

स्निग्धा: -  (स्निह् + क्त) चिकने

स्थिरा: - (स्था + किरच्) ठहरने वाले

हृद्या: - (हृद् + यत्) हृदय को प्रिय लगने योग्य

सात्त्विकप्रियाः -  (सात्त्विकानां प्रियाः) सात्त्विकों के प्रिय

आयुः सत्त्वबलारोग्य -  ( आयुश्च सत्त्वं च बलं च आरोग्यञ्च आयुः सत्त्वबलारोग्य), आयु सत्त्व बल आरोग्य |

सुखप्रीतिविवर्धनाः - ( सुखञ्च प्रीतिश्च सुखप्रीतयः, तेषां विवर्धनाः) सुख और प्रीति को बढ़ाने वाले।

कट्वम्ललवणात्युष्ण - (कटुश्च, अम्लः च, लवणः च, अत्युष्णः

तीक्ष्णरूक्षविदाहिनः - च, तीक्ष्णः च, रूक्ष: च, विदाही च) कड़वे, खट्टे, अतिलवणयुक्त, बहुत गर्म, तीखे, सूखे और बहुत दाह पैदा करने वाले ।

इष्टा: - (इष् + क्त) अभिलषित, चाहे गए।

यातयामम् - ( यातः यामः यस्य तत्) - आधा पका हुआ

गतरसम् -  ( गत: रसः यस्मात् ) - रसरहित

पूति - (पूय्+क्तिच्) दुर्गन्धयुक्त

पर्युषितम् - ( परि + वस् + क्त) बासी

उच्छिष्टम् - ( उत् + शिष् + क्त) शेष, बचा हुआ, जूठा

अमेध्यम् -  ( न मेध्यम्) अपवित्र, अस्वच्छ

देवद्विजगुरुप्राज्ञपूजनम् - ( देवद्विजगुरुप्राज्ञानां पूजनम्) देवता, ब्राह्मण, गुरु, और विद्वान् का पूजन

शौचम् -  (शुचेर्भावः अण्) पवित्रता

आर्जवम् - (ऋजु + अण्) सरलता, स्पष्टवादिता

ब्रह्मचर्यम् -  ( ब्रह्मणि चर्या यस्य यत्) ब्रह्मचर्य

शारीरम् - (शरीर + अण्) शारीरिक, दैहिक 

अनुद्वेगकरम् -  ( न उद्वेगकरम् ) उत्तेजित नहीं करने वाला

प्रियहितम् -  (प्रियं च हितं च) प्रिय और हितकारी

स्वाध्यायाभ्यसनम् -  (स्वाध्यायः च अभ्यसनम् च) स्वाध्याय और अभ्यास ।

वाङ्मयम् - (वाच् + मयट् ) वाणी से युक्त, वाचिक

सौम्यत्वम् -  (सौम्य + त्व) सौम्यता

आत्मविनिग्रहः - ( आत्मन: विनिग्रह :) आत्मनियंत्रण

त्रिविधम् - तीन प्रकार का

परिचक्षते - (परि + चक्षु, आत्मनेपद ) कहता है

सत्कारमानपूजार्थम् -  (सत्कारमानपूजाभ्यः इति ) सत्कार, मान और पूजा के लिए।

अध्रुवम् -  ( न ध्रुवम्) अस्थिर, स्थायी

उत्सादनार्थम् - ( उत्सादनाय इति) नाश करने के लिए। 

दातव्यम् - (दा+तव्यत्) देने योग्य

अनुपकारिणे -  (न उपकारिणे) उपकार न करने वाले को ।

प्रत्युपकारार्थम् -  (प्रति+उपकारार्थम्) प्रत्युपकार के लिए।

उद्दिश्य -  (उत्+दिश् + ल्यप्) उद्देश्य करके ।

परिक्लिष्टम् -  (परि + क्लिश् + क्त) क्लेश युक्त ।

तद्दानम् - (तत्+दानम्) वह दान ।

पात्रेभ्यश्च - (पात्रेभ्यः+च ) पात्रों को

असत्कृतम् - (न सत्कृतम्) अपवित्र

अवज्ञातम् - (अव + ज्ञा + क्त) अवज्ञा / अनादर युक्त

दाहृतम् - (उत् + आ + ह् + क्त) कहा गया


अभ्यासः

1. एकपदेन उत्तरत ।

(क) श्रद्धा कतिविधा भवति ?

(ख) देहिनां का स्वभावजा भवति ? 

(ग) आहारः कतिविधो भवति ?

(घ) दुःखशोकामयप्रदाः आहाराः कस्य इष्टा: ? 

(ङ) कीदृशं वाक्यं वाङ्मयं तप उच्यते ?

(च) देशे काले पात्रे च दीयमानं कीदृशं दानं भवति ? 

(छ) प्रत्युपकारार्थं यद्दानं तत् कीदृशं दानं कथ्यते ? 

(ज) तामसं दानं पात्रेभ्यः दीयते अपात्रेभ्यः वा?

2. पूर्णवाक्येन उत्तरत।

(क) श्रद्धा कस्य अनुरूपा भवति ?

(ख) तामसा जनाः कान् यजन्ते ?

(ग) के जनाः दम्भाहंकारसंयुक्ताः भवन्ति ?

(घ) सात्त्विकप्रियाः आहाराः कीदृशाः भवन्ति ? 

(ङ) किं किं शारीरं तप उच्यते ?

(च) राजसं दानं किम् उच्यते ?

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

(क) अयं पुरुजः श्रद्धामयः भवति । 

(ख) सात्त्विकाः देवान् यजन्ते ।

(ग) पर्युषितं भोजनं तामसप्रियं भवति ।

(घ) शारीरं तप उच्यते ।

(ङ) वाङ्मयं तप उच्यते ।

(च) यद्दानम् अपात्रेभ्यः दीयते ।

4. प्रकृतिप्रत्ययविभागं कुरुत ।

प्रकृति: प्रत्ययः

यथा-त्रिविधा  त्रिविध टाप्

(क) सात्त्विकी .............. ................

(ख) पर्युषितम्  .............. ................

(ग) सौम्यत्वम्         .............. ................

(घ) तप्तम्        .............. ................

(ङ) दातव्यम्         .............. ................

(च) उद्दिश्य .............. ................

5. पर्यायपदैः सह मेलनं कुरुत ।

यथा-  जना: मनुष्याः

(क) देवः -       ..................    ....................

(ख) गुरु: -      ..................    ....................

(ग) प्राज्ञः -      ..................    ....................

(घ) शौचम् -      ..................    ....................

(ङ) आर्जवम् -      ..................    ....................

6. विलोमपदैः सह योजयत ।

यथा - देवः  दानवः

(क) अहिंसा  अपात्रे

(ख) अनुद्वेगकरम्  असत्यम्

(ग) अभ्यसनम्  काठिन्यम्

(घ) सत्यम् अनभ्यसनम्

(ङ) पात्रे उद्वेगकरम्

(च) सौम्यत्वम्  हिंसा

7. विशेषणं विशेष्येण सह मेलनं कुरुत।

यथा - त्रिविधा          श्रद्धा

(क) सत्त्वानुरूपा       आहार:

(ख) तामसाः            भोजनम्

(ग) घोरम्                वाक्यम्

(घ) प्रियः                 जना:

(ङ) पर्युषितम्           तपः

(च) अनुद्वेगकरम्       श्रद्धा

8. सन्धिं सन्धिच्छेदं वा कुरुत ।

(क) चैव - ......................   .......................

(ख) तपो जना: - ......................   .......................

(ग) यज्ञस्तपस्तथा - ......................   .......................

(घ) आहारस्त्वपि - ......................   .......................

(ङ) राजसस्य+इष्टा - ......................   ......................

(च) उत्+शिष्टम् - ......................   .......................

(छ) वाक्+मयम्- ......................   .......................

(ज) प्रति + उपकारार्थम् - ....................   ....................

9. विग्रहपदानि आधृत्य समस्तपदानि रचयत ।

विग्रहपदानि  समस्तपदानि

(क) न शास्त्रविहितम्   -   ...............................

(ख) अहंकारेण संयुक्ताः   -   ...............................

(ग) पर्युषितं भोजनम्   -   ...............................

(घ) न उद्वेगकरम्   -   ...............................

(ङ) प्रियं च हितं च   -   ...............................

(च) मनसः प्रसादः   -   ...............................


योग्यताविस्तारः 

(क) श्रीमद्भगवद्गीतायां त्रिविधः विभागः कृतः । तद्यथा-

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नाति महाबाहो देहे देहिनमव्ययम् ॥ ( श्रीमद्भगवद्गीता - 14/5)

एते त्रयः गुणाः- 1. सत्त्वम् 2. रज: 3. तमः

सत्त्वगुणः- तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ( श्रीमद्भगवद्गीता - 14/6 )

2. रजोगुणः- रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ (श्रीमद्भगवद्गीता - 14/7)

3. तमोगुणः- तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ! ॥ ( श्रीमद्भगवद्गीता - 14/8)

(ख) 'तप' पदस्य मूलशब्दः 'तपस्' इति विद्यते ।

एतद्नुरूपशब्दा:- मनस् ( मन ), तमस् (अन्धकार), वचस् (वचन), रजस् ( रजोगुण )

यशस् (यश), सरस् (तालाब), नभस् ( आकाश ), इत्यादयः । एते शब्दाः नपुंसकलिङ्गे सन्ति । शब्दरूपाणि एतानि -

'तपस्' (तप) नपुंसकलिङ्गे

विभक्तिः एकवचने द्विवचने बहुवचने

प्रथमा  तपः तपसी तपांसि

द्वितीया  तपः तपसी तपांसि

तृतीया तपसा तपोभ्याम् तपोभिः

चतुर्थी  तपसे तपोभ्याम् तपोभ्यः

पञ्चमी  तपस: तपोभ्याम् तपोभ्यः

षष्ठी         तपसः तपसो : तपसाम्

सप्तमी  तपसि    तपसोः तपस्सु

संबोधन  हे तपः !   हे तपसी !        हे तपांसि !

(ग) अधोलिखितैः श्लोकैः गीतायाः महत्तां ज्ञातुम् अर्हति ।

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।

पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥1॥

गीता सुगीता कर्तव्या किमन्यैः शास्त्रसंग्रहैः । 

या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥2॥

गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम्। 

गीताज्ञानमुपाश्रित्य त्रींल्लोकान् पालयाम्यहम् ॥3॥