12077—Bhaswati Part-II   Chapter-2

द्वितीयः पाठः

न त्वं शोचितुमर्हसि

संस्कृत साहित्य में अश्वघोष की गणना भास एवं कालिदास जैसे उच्च्कोटि के महाकवियों में की जाती है। दार्शनिक महाकवि अश्वघोष की कृति बुद्धचरितम् का संस्कृत साहित्य में अद्वितीय स्थान है। अश्वघोष का लक्ष्य बुद्ध के उपदेशों को काव्य के माध्यम से जनसाधारण तक पहुँचाना था। प्रस्तुत पाठ बुद्धचरितम् के छठे सर्ग से संकलित है।

इसमें जब सिद्धार्थ महाभिनिष्क्रमण के लिए गृहत्याग करते हैं, तब सारथी छन्दक उन्हें भार्गव आश्रम तक पहुँचाता है। वे वहाँ से आगे अकेले जाने का ही निश्चय करते हैं। छन्दक को राजमहल की ओर जाने के लिए कहने से पूर्व वे उसकी स्वामिभक्ति की प्रशंसा करते हैं।

 

ततो मुहूर्ताभ्युदिते जगच्चक्षुषि भास्करे।

भार्गवस्याश्रमपदं स ददर्श नृणां वरः ।।1।।

सुप्तविश्वस्तहरिणं स्वस्थस्थितविहङ्गमम्।

विश्रान्त इव यद्दृष्ट्वा कृतार्थ इव चाऽभवत् ।।2।।

स विस्मयनिवृत्त्यर्थं तपः पूजार्थमेव च।

स्वां चानुवर्तितां रक्षन्नश्वपृष्ठादवातरत् ।।3।।

अवतीर्य च पस्पर्श निस्तीर्णमिति वाजिनम्।

छन्दकं चाब्रवीत्प्रीतः स्नापयन्निव चक्षुषा ।।4।।

इमं तार्क्ष्योपमजवं तुरङ्गमनुगच्छता।

दर्शिता सौम्य मद्भक्तिर्विक्रमश्चायमात्मनः ।।5।।

को जनस्य फलस्थस्य न स्यादभिमुखो जनः।

जनीभवति भूयिष्ठं स्वजनोऽपि विपर्यये ।।6।।

Chap-02.tif

इत्युक्त्वा स महाबाहुरनुशंसचिकीर्षया।

भूषणान्यवमुच्यास्मै सन्तप्तमनसे ददौ ।।7।।

मुकुटाद्दीपकर्माणं मणिमादाय भास्वरम्।

ब्रुवन्वाक्यमिदं तस्थौ सादित्य इव मन्दरः ।।8।।

अनेन मणिना छन्द प्रणम्य हुशो नृपः।

विज्ञाप्योऽमुक्तविश्रम्भं सन्तापविनिवृत्तये ।।9।।

जरामरणनाशार्थं प्रविष्टोऽस्मि तपोवनम्।

न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना ।।10।।

तदेवमभिनिष्क्रान्तं न मां शोचितुमर्हसि।

भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति ।।11।।

ध्रुवो यस्माच्च विश्लेषस्तस्मान्मोक्षाय मे मतिः।

विप्रयोगः कथं न स्याद्भूयोऽपि स्वजनादिति ।।12।।

यदपि स्यादसमये यातो वनमसाविति।

अकालो नास्ति धर्मस्य जीविते चञ्चले सति ।।13।।

एवमादि त्वया सौम्य विज्ञाप्यो वसुधाधिपः।

प्रयतेथास्तथा चैव यथा मां न स्मरेदपि ।।14।।

अपि नैर्गुण्यमस्माकं वाच्यं नरपतौ त्वया।

नैर्गुण्यात्त्यज्यते स्नेहः स्नेहत्यागान्न शोच्यते ।।15।।

शब्दार्थाः

शोचितुम् - शुच् + तुमुन्, शोक करने के लिए।

अभ्युदिते - अभि + उद् + इ + क्त + सप्तमी एकवचन, उदय होने पर।

ददर्श - देखा।

विश्रान्त इव - थके हुए की तरह।

अनुवर्तितां - अनु + वृत् + इन् + तल्, अनुवर्तिनः भावः अनुवर्तिता (आचरण को)।

अवातरत् - अव + तॄ + लङ्, प्र.पु. एकवचन, उतर गया।

अवतीर्य - अव + तॄ + ल्यप्, उतरकर।

पस्पर्श - स्पृश् + लिट्, प्र. पु. एकवचन, स्पर्श किया।

निस्तीर्णम् - निस् + तॄ + क्त, पार लगाया।

तुरङ्गमनुगच्छता - घोड़े का अनुसरण करते हुए।

जनीभवति - अजनो जनः भवति इति, (विपरीत) स्वजन का सामान्य हो जाना।

भूयिष्ठं - अतिशयेन बहु + इष्ठन् भ्वादेशे युक् च, अत्यधिक।

विपर्यये - विपरीत अवस्था में।

चिकीर्षया - करने की इच्छा से।

सन्तप्तमनसे - दुःखी मनवाले को (दानार्थे चतुर्थी)।

भास्वरमणिम् - चमकीली मणि को।

तस्थौ - स्थित हुए।

बहुशः - बार-बार।

स्वर्गतर्षेण - स्वर्ग की इच्छा से।

न मन्युना - क्रोध से नहीं।

श्लेषः - संयोग (मिलन)।

विप्रयोगः - वि + प्र + युज् + घञ्, वियोग।

यातः - या + क्त, गया।

जीविते - जीव् + क्त, सप्तमी एकवचन, जीवन।

विज्ञाप्यः - वि + ज्ञा + णिच् + पुक् + यत्, निवेदित (किया जाये)।

प्रयतेथाः - प्र + यत् + विधिलङ्, म.पु. एकवचन, प्रयत्न करो।

नैर्गुण्यम् - निर् + गुण + ण्यत्, निर्गुणता।

न शोच्यते - शोक का पात्र नहीं।

सन्धिविच्छेदः

जगच्चक्षुषि - जगत् + चक्षुषि

चानुवर्तिताम् - च + अनुवर्तिताम्

रक्षन्नश्वः - रक्षन् + अश्वः

स्नापयन्निव - स्नापयन् + इव

तार्क्ष्योपम - तार्क्ष्य + उपम

अभिमुखो जनः - अभिमुखः + जनः

स्वजनोऽपि - स्वजनः + अपि

इत्युक्त्वा - इति + उक्त्वा

भूषणान्यवमुच्य - भूषणानि + अवमुच्य

बहुशो नृपः - बहुशः + नृपः

प्रविष्टोऽस्मि - प्रविष्टः + अस्मि

तपोवनम् - तपः + वनम्

स्याद्भूयोऽपि - स्यात् + भूयः + अपि

वनमसाविति - वनमसौ + इति

प्रयतेथास्तथा - प्रयतेथाः + तथा

अभ्यासः

1. एकपदेन उत्तरत-

(क) अयं पाठः कस्मात् ग्रन्थात् सङ्कलितः?

(ख) बुद्धचरितस्य रचयिता कः अस्ति?

(ग) नृणां वरः कः अस्ति?

(घ) अश्वपृष्ठात् कः अवातरत्?

(ङ) स्नापयन्निव चक्षुषा प्रीतः कम् अब्रवीत्?

2. पूर्णवाक्येन उत्तरत-

(क) स्वजनस्य विपर्यये का स्थितिः भवति?

(ख) महाबाहुः सन्तप्तमनसे किं ददौ?

(ग) बुद्धः किमर्थं तपोवनं प्रविष्टः?

(घ) त्वं कीदृशं मां न शोचितुमर्हसि?

(ङ) कस्मिन् सति कस्य अकालः नास्ति?

3. अधोलिखितेषु सन्धिं कुरुत-

त्यागात् + न, च + एव, विश्लेषः + तस्मात्, न + अस्नेहेन, बहुशः + नृपः

4. अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत-

सुप्तः, विश्रान्तः, दृष्ट्वा, अवतीर्य, भूयिष्ठम्, आदाय, विज्ञाप्य, वाच्यम्

5. अधोलिखितश्लोकयोः हिन्दी/आङ्ग्लभाषया अनुवादः कार्यः

(क) मुकुटाद्दीपकर्माणं मणिमादाय भास्वरम्।

ब्रुवन्वाक्यमिदं तस्थौ सादित्य इव मन्दरः।।

(ख) जरामरणनाशार्थं प्रविष्टोऽस्मि तपोवनम्।

न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना।।

6. ‘न त्वं शोचितुमर्हसि’ इति पाठस्य सारांशः मातृभाषया लेखनीयः।

7. रिक्तस्थानानि पूरयत-

(क) न त्वं ............... अर्हसि।

(ख) स ददर्श ............... आश्रमपदम्।

(ग) स विस्मयनिवृत्यर्थं ............... च।

(घ) जनीभवति भूयिष्ठम् ............... विपर्यये।

(ङ) अकालः ............... धर्मस्य।

8. विशेष्य-विशेषणयोः योजनं कुरुत-

(क) भास्करे (क) अभिमुखः

(ख) जनः (ख) भास्वरम्

(ग) मणिम् (ग) जगच्चक्षुषि

(घ) जीविते (घ) अभिनिष्क्रान्तम्

(ङ) माम् (ङ) चञ्चले

9. उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि

न स्निग्धः अस्निग्धः

आदित्येन सह ...............

स्वर्गाय तर्षः ...............

न कालः ...............

महान्तौ बाहू यस्य सः ...............

वसुधायाः अधिपः ...............

10. अधोलिखितपदानां विपरीतार्थकपदैः मेलनं कुरुत-

पदानि विपरीतार्थकपदानि

(क) सुप्तः (क) चञ्चलः

(ख) अवतीर्य (ख) रंकः

(ग) स्वजनः (ग) जागृतः

(घ) नृपः (घ) आरुह्य

(ङ) ध्रुवः (ङ) परजनः

योग्यताविस्तारः

अश्वघोषः - अश्वघोषः संस्कृतसाहित्यस्य सुप्रसिद्धः कविः। अस्य कालः ईशायाः प्रथमशताब्दी स्वीक्रियते। अयं सम्राट् कनिष्कस्य समकालिकः आसीत्। अस्य कवेः सौन्दरनन्दम्। बुद्धचरितम् शारिपुत्रप्रकरणं च रचनात्रयं विद्यते। अस्य रचनासु बुद्धोपदेश एव प्रमुखरूपेण दृश्यते। महाकवेः अश्वघोषस्य रचनाः तिब्बते चीनदेशे च प्रसिद्धाः। सौन्दरानन्दम् अष्टादशसर्गात्मकं प्रथमं महाकाव्यम् उपलभ्यते। अस्मिन् महाकाव्ये बुद्धोपदेशस्य कथाया वर्णनम् अस्ति। बुद्धः विमातृजं स्वभार्याप्रेमपाश बद्धं नन्दम् उपदिशति। नन्दः बुद्धोपदेशप्रभावेण सांसारिकसुखं परित्यज्य प्रव्रज्यां स्वीकरोति। शारिपुत्रप्रकरणम् इति नाटिका खण्डितावस्थायां लभ्यते।

बुद्धचरितम् - बुद्धचरितम् अश्वघोषस्य प्रसिद्धं महाकाव्यम् अस्ति। अस्मिन् महाकाव्ये सप्तदश सर्गाः उपलभ्यन्ते। तत्र महात्मनः बुद्धस्य सवाङ्गीणचरितं निबद्धमस्ति। यथा-अभिनिष्क्रमणं, तपोवनगमनं, यशोधराविलापः, मगधयात्रावर्णनम्, सिद्धार्थस्य बुद्धत्वप्रापणम्, धर्मप्रचारः, शिक्षाप्रसारः इत्यादयः विषयाः सरलया भावपरिपूर्णया हृदयावर्जकशैल्या वर्णिताः।

भाषाज्ञानम् - न मां शोचितुमर्हसि-तुमुनन्तपेदन अर्हधातोः प्रयोगेण अनुरोधः निवेदनं वा प्रकटीभवति। एवमेव अन्यानि वाक्यानि रचनीयानि।

1. रात्रिर्जाता, अतः त्वं स्वप्तुम् अर्हसि।

2. गुरुः इमं मम अपराधं क्षन्तुमर्हति।

3. इदानीं यूयं गन्तुमर्हथ।

जगच्चक्षुषि भास्करे - सूर्यः संसारस्य नेत्ररूपेण निरूपितः यथा श्रुतौ - ‘‘तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्।’’