Table of Contents

दशमः पाठः
विद्यास्थानानि
प्रस्तुत पाठ राजशेखर की काव्यमीमांसा से संगृहीत है । काव्यमीमांसा काव्यशास्त्र परम्परा में एक महत्त्वपूर्ण ग्रन्थ है, जिसमें काव्यशास्त्र की विशेष व्याख्या के अतिरिक्त संस्कृत वाङ्मय की सुविस्तृत ज्ञानराशि का परिचय है, जो तत्कालीन भारत के अध्ययन-अध्यापन के विशाल परिदृश्य को प्रकट करता है। इसमें चतुर्दश-विद्याओं के विषय में चर्चा की गयी है। यहाँ बताया गया है कि वाङ्मय के दो भेद होते हैं शास्त्र और काव्य। इस ग्रन्थ के आरम्भ में शास्त्र के भेद और उपभेदों का परिगणन किया गया है।
इह हि वाङ्मयमुभयथा शास्त्रं काव्यं च । शास्त्रं द्विधा - अपौरुषेयं पौरुषेयं च । अपौरुषेयं श्रुतिः । श्रुतिः पुनः द्विविधा - मन्त्राः ब्राह्मणं च । विवृतक्रियातन्त्रा मन्त्राः । मन्त्राणां स्तुतिनिन्दाव्याख्यानविनियोगग्रन्थो ब्राह्मणम् । ऋग्यजुः सामवेदास्त्रयी आथर्वणश्च तुरीयः ।

तत्रार्थव्यवस्थितपादाः ऋचः । ताः सगीतयः सामानि । अच्छन्दांस्यगीतानि यजूंषि । ऋचो यजूंषि सामानि चाथर्वणं, त इमे चत्वारो वेदाः । इतिहासवेदः धनुर्वेदः गन्धर्ववेदः आयुर्वेदः च उपवेदाः । "वेदोपवेदात्मा सार्ववर्णिकः पञ्चमो गेयवेदः" इति द्रौहिणिः । “शिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्योतिषं च षडङ्गानि " इत्याचार्याः । “उपकारकत्वादलङ्कारः सप्तममङ्गम्" इति यायावरीयः । ऋते च तत्स्वरूपपरिज्ञानाद्वेदार्थानवगतिः ।
यथा-
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनन्नन्यो अभिचाकशीति ॥
तत्र वर्णानां स्थान-करण - प्रयत्नादिभिः निष्पत्तिनिर्णयिनी शिक्षा । नानाशाखाधीतानां मन्त्राणां विनियोजकं सूत्रं कल्पः । सा च यजुर्विद्या । शब्दानामन्वाख्यानं व्याकरणम्। निर्वचनं निरुक्तम्। छन्दसां प्रतिपादयित्री छन्दोविचितिः । ग्रहगणितं ज्योतिषम् । पौरुषेयं तु पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम् इति चत्वारि शास्त्रणि । तत्र वेदाख्यानोपनिबन्धनप्रायं पुराणमष्टादशधा । यदाहु:-
सर्गः प्रतिसंहारः कल्पो मन्वन्तराणि वंशविधिः ।
जगतो यत्र निबद्धं तद्विज्ञेयं पुराणमिति ॥
" पुराणप्रभेद एवेतिहासः" इत्येके । स च द्विधा परिक्रियापुराकल्पाभ्याम् । यदाहुः-
परिक्रिया पुराकल्प इतिहासगतिर्द्विधा ।
स्यादेकनायका पूर्वा द्वितीया बहुनायका ||
तत्र रामायणं भारतं चोदाहरणे। निगमवाक्यानां न्यायैः सहस्त्रेण विवेक्त्री मीमांसा । सा च द्विविधाविधिविवेचनी ब्रह्मनिदर्शनी च । अष्टादशैव श्रुत्यर्थस्मरणात्स्मृतयः । तानि इमानि चतुर्दश विद्यास्थानानि, यदुत वेदाश्चत्वारः षडङ्गानि चत्वारि शास्त्राणि इत्याचार्याः ।

अभ्यासः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) वाङ्मयस्य उभौ भेदौ लिखत
(ख) अपौरुषेयं किम् अस्ति ?
(ग) विवृत्तक्रियातन्त्राः के सन्ति?
(घ) ब्राह्मणं केषां स्तुतिनिन्दाव्याख्यानविनियोगान् करोति ?
ङ) वेदाः कति सन्ति? तेषां नामानि लिखत ।
च) षडङ्गानां नामानि लिखत ।
(छ) व्याकरणं किं कथ्यते ?
2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) शब्दानाम् अन्वाख्यानं व्याकरणम्।
(ख) पुराणं पौरुषेयम् अस्ति ।
(ग) ज्योतिषं ग्रहगणितम् अस्ति ।
(घ) इतिहास : पुराणप्रभेदोऽस्ति ।
(ङ) मीमांसा सहस्रेण न्यायैः निगमवाक्यानां विवेक्त्री अस्ति ।
3. उचितां पंक्तिं मञ्जूषायाः चित्वा समक्षं लिखत-
विवृतक्रियातन्त्राः, इतिहासवेद : धनुर्वेद : गन्धर्वः आयुर्वेदः च, द्विविधामन्त्राः ब्राह्मणञ्च, अपौरुषेयं
पौरुषेयं च शास्त्रं काव्यं च
(क) वाघ्मयम् उभयथा - --------------------------------
(ख) शास्त्रं द्विधा - --------------------------------
(ग) श्रुतिः - --------------------------------
(घ) मन्त्रः - --------------------------------
(घ) उपवेदाः - --------------------------------
4. उचितमेलनं कुरुत-
(क) चत्वारि शास्त्रणि - ज्योतिषम्
(ख) शब्दानामन्वाख्यानम् - पुराणम्
(ग) मन्त्रणां विनियोजकं सूत्रं - कल्पः
(घ) पौरफ़षेयं - व्याकरणम्
(घ) ग्रहगणितम् - पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्।
5. उचितविभक्तिं प्रयुज्य संख्यावाचिशब्दानां प्रयोगं कुरुत-
(क) ---------------------- वेदाः। (चतुर्)
(ख) ---------------------- अघ्गानि। (षट्)
(ग) ---------------------- शास्त्रणि। (चतुर्)
(घ) ---------------------- नायकः। (एक)
(घ) ---------------------- पुराणानि। (अष्टादश)
6. अव्ययपदानि चित्वा लिखत-
(क) जगतो यत्र निबद्धं तद्विज्ञेयं पुराणम्। - ------------------
(ख) पुराणप्रभेद एव इतिहासः। - ------------------
(ग) अष्टादश एव श्रुत्यर्थस्मरणात्स्मृतयः। - ------------------
(घ) स च द्विधा परिक्रियापुराकल्पाभ्याम्। - ------------------
(घ) तत्र वर्णानां स्थान-करण-प्रयत्नादिभिः
निष्पत्तिनिर्णयिनी शिक्षा। - ------------------
7- सन्धिं कुरफ़त-
(क) ब्राह्मणम्+च - --------------------------------
(ख) आथर्वणः+च - --------------------------------
(ग) वेद+आत्मा - --------------------------------
(घ) अष्टादश+एव - --------------------------------
(घ) छन्दांसि+अगीतानि - --------------------------------
8- निम्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरफ़त-
9- विपरीतार्थकपदं लिखत-
(क) पौरफ़षेयम् - --------------------------------
(ख) एकः - --------------------------------
(ग) यत्र - --------------------------------
(घ) यत् - --------------------------------
(घ) यथा - --------------------------------