12078CH04.tif

चतुर्थः पाठः


कर्मगौरवम्


प्रस्तुत पाठ, श्रीमद्भगवद्गीता के द्वितीय एवम् तृतीय अध्यायों से संगृहीत है। श्रीमद्भगवद्गीता वह विश्वप्रसिद्ध ग्रन्थरत्न है, जिसमें श्रीकृष्ण ने विषादग्रस्त अर्जुन को कर्त्तव्य का उपदेश देकर धर्मरक्षार्थ युद्ध के लिए प्रेरित किया था। कर्मों में कुशलता को ही योग बताया गया है। अतः सभी को निःसंगभाव से सदा सर्वहित के कार्यों में संलग्न रहना चाहिए। यही उपनिषदों का भी सन्देश है-कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।

Chap-04.tif

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ।।1।।


नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।

शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ।।2।।


न कर्मणामनारम्भान्नैष्कर्म्यम् पुरुषोऽश्नुते।

न च सन्न्यसनादेव सिद्धिं समधिगच्छति ।।3।।


न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ।।4।।


तस्मादसक्तः सततं कार्यं कर्म समाचर।

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ।।5।।


कर्मणैव हि संसिद्धिमास्थिता जनकादयः।

लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ।।6।।


यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।।7।।


न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।

जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ।।8।।


यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते।।9।।


सुखदुःखसमे कृत्वा लाभालाभौ जयाजयौ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।10।।


अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।

स सन्यासी च योगी च न निरग्निर्न चाक्रियः।।11।।


सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।

कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्।।12।।


कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।13।।



शब्दार्थाः टिप्पण्यश्च


जहातीह - जहाति+इह, हा धातु+लट्+प्रथम पुरुष एकवचन, यहाँ, (इस लोक में) त्याग देता है।

सुकृतदुष्कृते - सुकृतं च दुष्कृतं च, द्वन्द्व समास, पुण्य और पाप।

युज्यस्व - युज् धातु (आत्मनेपद)+लोट्+मध्यम पुरुष एकवचन, प्रयत्न करो।

आस्थिताःआङ्+स्था धातु+क्त, प्रथम पुरुष बहुवचन, प्राप्त हुए थे।

लोकङ्ग्रमेवापि - लोकसंग्रहम्+एव+अपि, लोकसंग्रह को भी।

अर्हसि - अर्ह् धातु+लट्+मध्यम पुरुष एकवचन, योग्य हो।

आचरति - आङ्+चर् धातु+लट्+प्रथम पुरुष एकवचन, आचरण करता है।

इतरः - अन्य लोग, सब लोग।

अनुवर्तते - अनु+वृत् धातु+लट्+प्रथम पुरुष एकवचन, अनुसरण करता है।

न जनयेत् - जन् धातु+णिच्+विधिलिङ्+प्रथम पुरुष एकवचन, उत्पन्न नहीं करना चाहिए।

कर्मसङ्गिनाम् - कर्म मे आसक्त मनुष्यों का।

जोषयेत् - जुष् धातु+णिच्, विधिलिङ्+प्रथम पुरुष एकवचन, करवाना चाहिए, लगना चाहिए।

कुरु - डुकृञ्+(परस्मैपद) लोट्+मध्यम पुरुष एकवचन, करो।

ज्यायः - प्रशस्य+ईयसुन्, नपुं + प्रथम विभक्ति एकवचन, श्रेष्ठ है।

ह्यकर्मणः - हि+अकर्मणः, क्योंकि कर्म न करने से।

शरीरयात्रापिलौकिकव्यवहारः (शरीरयात्रा+अपि) शरीर–निर्वाह भी।

प्रसिद्ध्येदकर्मणः - प्रसिद्ध्येत्+अकर्मणः,कर्म न करने से सिद्ध नहीं होगा।

कर्मणामनारम्भान्नैष्कर्म्यम् - कर्मणाम्+अन्+आरम्भात्+नैष्कर्म्यम्, कर्मों का आरम्भ किये बिना निष्कर्मता को।

अश्नुते - अश् लट् प्रथम पुरुष एकवचन, प्राप्त करता है।

समधिगच्छति - सम्+अधि+गम् धातु+लट्+प्रथम पुरुष एकवचन, प्राप्त करता है।

जातु - (अव्यय), कभी।

न तिष्ठत्यकर्मकृत् - तिष्ठति+अकर्मकृत्, कर्म किये बिना नहीं रहता।

समाचर - सम्+आङ्+चर् धातु+लोट् मध्यम पुरुष एकवचन, भलीभाँति करो।

असक्तः - सञ्ज् धातु+क्त सक्तः न सक्तः असक्तः, नञ् तत्पुरुष समास, अनासक्त होकर।

आचरन् - आङ्+चर्+शतृ, प्रथमा एकवचन, करता हुआ।

आप्नोति आप् धातु+लट्+प्रथम पुरुष एकवचन, प्राप्त करता है।

चिकीर्षु - कर्त्तुम् इच्छुः, डूकृञ् धातु सन् प्रत्यय (सनाद्यन्ताधातवः)करने का इच्छुक।

असक्तः - सञ्ज् परिज़्वङ्गे, न सक्तः असक्तः, उदासीन, अनासक्त, न लगा हुआ।

अनाश्रितः - अन्-आ श्रि श्रयणे, प्रथम पुरूष, एकवचन, सहारे न रहने वाला, आसरा न चाहने वाला।

निरग्निः - निर्-अभाव, अग्नि, अग्नि रहित।

यदृच्छालाभः - जो कुछ भी मिल जाए।

द्वन्द्वातीतः -  द्विष्ठाब्दस्य द्वित्वम् पूर्वपदस्य अभावः, उत्तरपदस्य नपुंसकत्व, अति++क्त (द्वन्द्वान् अतीतः) सुख-दुख, हानि-लाभ से परे।

विमत्सरः - विगतः मत्सरो यस्य, ईर्ष्या से मुक्त।

सिद्धावसिद्धौ - (सिध्+क्त) सिद्धौ असिद्धौ च, सफलता और असफलता में।

निबध्यते - (नि+बंध्+क्त) आत्मनेपदम्, एकवचने, कसकर बंधा या बाँधा जाता है।

लाभालाभौ - (लभ्+घञ्) लाभः च अलाभः च, लाभ-हानि

युज्यस्व - युज् योगे, युक्त हो जा, लग जा।

कर्मण्येवाधिकारस्ते - (कृ+मनिन्) सप्तमी विभक्ति एकवचने कर्मणि, एव अधिकारः ते, कर्म में ही तुम्हारा अधिकार है।

सङ्गोऽस्त्वकर्मणि - सङ्गः अस्तु अकर्मणि, (सञ्ज् भावे घञ्-सङ्गः) अकर्म के प्रति लगाव, दोस्ती।


अभ्यासः

1. संस्कृतभाषया उत्तरत ।

    (क) अयं पाठः कस्मात् ग्रन्थात् सङ्कलितः?

    (ख) अकर्मणः किं ज्यायः?

    (ग) जनकादयः केन सिद्धिम् आस्थिताः?

    (घ) लोकः कम् अनुवर्तते?

    (ङ) बुद्धियुक्तः अस्मिन् संसारे के जहाति?

    (च) केषाम् अनारम्भात् पुरुषः नैष्कर्म्यं प्राप्नोति?

    (छ) कः सन्यासी कथ्यते?

    (ज) लोक संग्रहम् चिकीर्षु विद्वान् किं कुर्यात्?

    (झ) जनः किं कृत्वापि न निबध्यते?

2. नियतं कुरु कर्म त्वं ..... प्रसिद्ध्येदकर्मणः अस्य श्लोकस्य भावार्थं कुरुत ।

3. ‘यद्यदाचरति ..... लोकस्तदनुवर्तते’ अस्य श्लोकस्य अन्वयं लिखत ।

4. अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत ।

    यथा- वशः - अवशः

    (क) बुद्धिहीनः - .........

    (ख) दुष्कृतम् - .........

    (ग) अकौशलम् - .........

    (घ) न्यूनः - .........

    (ङ) कर्मणः - .........

    (च) दुर्गुणैः - .........

    (छ) कदाचित् - .........

    (ज) निकृष्टः - .........

    (झ) लाभः - .........

    (ङ) सक्तः - .........

    (ट) सक्रियः - .........

    (ठ) असन्तुष्ट - .........

5. अ. अधोलिखतेषु पदेषु सन्धिविच्छेदं कुरुत ।

 जहातीह, ह्यकर्मणः, शरीरयात्रापि, पुरुषोऽश्नुते, तिष्ठत्यकर्मकृत्, प्रकृतिजैर्गुणैः, कर्मणैव, लोकस्तदनुवर्तते, जनयेदज्ञानाम्, कृत्वापि, कर्मण्यविद्वांसः, सङ्गोऽस्त्वकर्मणि

    आ. अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देशं कुरुत ।

  जहाति, युज्यस्व, कुरु, अश्नुते, समधिगच्छति, तिष्ठति, आप्नोति, अनुवर्तते, जनयेत्, जोषयेत्।

6. अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत ।

    (क) योगः कर्मसु कौशलम्।

    (ख) जीवने नियतं कर्म कुरु।

    (ग) कर्मणा एव जनकादयः संसिद्धिम् आस्थिताः।

    (घ) अकर्मणः कर्म ज्यायः।

    (ङ) कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते।

    (च) ततो युद्धाय युज्यस्व

    (छ) कर्मणि एव अधिकारस्ते।

    (ज) सक्ताः कर्मणि अविद्वांसः

7. प्रदत्तमञ्जूषायाः समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु ।

    अनारतम्, मनीषा, गात्रम्, दुष्कर्म, प्राज्ञः, कलुषम्, शेमुषी, अविरतम्, कोविदः, कायः, मतिः, पातकम्, देहः, मनीषी, अश्रान्तम्

    (क) विद्वान् .................. .................. ..................

    (ख) शरीरम् .................. .................. ..................

    (ग) बुद्धिः .................. .................. ..................

    (घ) सततम् .................. .................. ..................

   (ङ) दुष्कृतम् .................. .................. ..................

8. अ. कर्म आश्रित्य संस्कृतभाषायां पञ्च वाक्यानि लिखत ।

    आ. भावस्पष्टं कुरूत-

          यदृच्छालाभसन्तुष्टः

          चिकीर्षु लोकसंग्रहम्

          मा तो सङ्गस्त्वकर्मणि

9. पाठे प्रयुक्तस्य छन्दसः नाम लिखत ।


योग्यताविस्तारः


अधोलिखितानां सूक्तीनामध्ययनं कृत्वा प्रस्तुतपाठेन भावसाम्यम् अवधत्त ।

(1) गच्छन् पिपीलको याति योजनानां शतान्यपि।

     अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति।।


(2) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।

     न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।। पञ्चतन्त्रम् / मित्रसम्प्राप्ति - 129


(3) कर्मणा जायते सर्वं, कर्मैव गतिसाधनम्।

     तस्मात् सर्वप्रयत्नेन, साधु कर्म समाचरेत्।।   विष्णुपुराण - 1/18/32


(4) चरन्वै मधु विन्दति, चरन् स्वादुमुदम्बरम्।

     सूर्यस्य पश्य श्रेमाणं, यो न तन्द्रयते चरन्।। एेतरेय ब्राह्मण - 33.3.5


(5) जलबिन्दु निपातेन क्रमशः पूर्यते घटः।

     स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।। चाणक्यनीति - 12/22


(6) दुष्कराण्यपि कार्याणि, सिध्यन्ति प्रोद्यमेन वै।

      शिलापि तनुतां याति, प्रपातेनार्णसो मुहुः।। बुद्धचरितम् - 26/63


(7) कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।

     एवं त्वयि नान्यथेतोऽस्ति, न कर्म लिप्यते नरे।। यजुर्वेद - 40/2 7


अधोलिखितादर्शवाक्यानि सम्बद्धसंस्थाभिः योजयत ।

आदर्शवाक्यम्   संस्था
(क) सत्यमेव जयते
राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद्
(ख) विद्ययाऽमृतमश्नुते
भारतसर्वकारः
(ग) असतो मा सद्गमय
कतिपयविद्यालयेषु
(घ) सा विद्या या विमुक्तये
केन्द्रीय माध्यामिक शिक्षा परिषद्
(ङ) योगः कर्मसु कौशलम्
राष्ट्रीय अध्यापक शिक्षा परिषद्
(च) गुरुः गुरुतमो धामः
भारतीय प्रशासनिक सेवा अकादमी, मसूरी
(छ) तत्वं पूषन्नपावृणु
डाकतार विभागः
(ज) अहर्निशं सेवामहे
केन्द्रीय विद्यालय संगठन
(झ) श्रम एव जयते
भारतस्य सर्वोच्च न्यायालयः
(ञ) यतो धर्मस्ततो जयः
श्रम मंत्रालयः

अधोनिर्मिततालिकां दृष्ट्वा समस्तपदैः सह विग्रहान् मेलयत ।

2
शः

12
र्म ङि् ना म्

13
सु कृ दु ष् कृ ते

3
बु
दि्
भे
म्

9
लो
सं
ग्र
म्

8
11 री
न्
या
त्रा

1 बु
दि्



10 यु
क् तः
ज्ञा तः
ना
ना
म्


4

5


र्व
र्मा णि
6

र्म णः
ना
र्म


तः
म्
भा हे

त्
तुः



7


विग्रहाः

(1) बुद्ध्या युक्तः (तृतीया तत्पुरुषः)

(2) न वशः (नञ् तत्पुरुषः समास)

(3) बुद्धेः भेदम् (षष्ठी तत्पुरुषः समास)

(4) सर्वाणि कर्माणि (कर्मधारय समास)

(5) कर्मणि रतः (सप्तमी तत्पुरुष समास)

(6) (अ) न कर्मणः (नञ् तत्पुरुष)

            (ब) न आरम्भात् (नञ् तत्पुरुष)

(7) कर्मफलस्य हेतुः (षष्ठी तत्पुरुष समास)

(8) शरीरस्य यात्रा (षष्ठी तत्पुरुष समास)

(9) लोकाय संग्रहम् (चतुर्थी तत्पुरुष समास)

(10) (अ) न सक्तः (नञ् तत्पुरुष)

                (ब) न ज्ञानानाम् (नञ् तत्पुरुष)

(11) न चरन् (नञ् तत्पुरुष)

(12) कर्मसु सङ्गिनाम् (सप्तमी तत्पुरुष)

(13) सुकृतम् दृष्कृतम् च (द्वन्द्व समास)


श्रीमद्भगवद्गीता


श्रीमद्भगवद्गीता महाभारतस्य भीष्मपर्वणि विद्यते। अत्र सप्तशतश्लोकाः अष्टादशाध्यायेषु उपनिबद्धाः सन्ति। युद्धभूमौ विषादग्रस्तार्जुनाय निष्कामकर्मणः उपदेशं प्रयच्छता भगवता श्रीकृष्णेन अत्र ज्ञान-भक्ति-कर्मणां समन्वयः प्रस्तुतः।

पूर्ववर्तिनः अनेके मनीषिणः जीवने उदात्तगुणानां विकासार्थं गीताशास्त्रेण प्रेरणां प्राप्तवन्तः। तेषु विद्वत्सु लोकमान्यतिलकः, महर्षि अरविन्दः, महात्मागान्धी, विनोबाभावे इत्यादयः प्रमुखाः सन्ति। एतैः विद्वद्भिः गीताशास्त्रस्य स्वभावाभिव्यक्तिस्वरूपाः व्याख्याः विलिखिताः। गीताशास्त्रस्य ज्ञान-भक्ति-कर्मयोगान् स्वजीवने अवतारयन्तः उन्नतादर्शान् उदात्तजीवनमूल्यान् एते मनीषिणः चरितार्थयन्ति स्म।

श्रीमद्भगवद्गीतायाः केचन अन्येऽपि श्लोका उद्धरणीयाः। तद्यथा-

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जयः।

सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते।।


न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।।


सन्यासः कर्मयोगश्च निःश्रेयशकरावुभौ।

तयोऽस्तु कर्मसन्यासात्कर्मयोगो विशिष्यते।।


कर्मण सुकृतस्याहुः सात्विकं निर्मलं फलम्।

रजसस्तु फलं दुखमज्ञानं तमसः फलम्।।


एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।

कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्।।

अनेकैः कविभिः गीतायाः महत्त्वं प्रतिपादितम्। तन्महत्त्वं यत्र-तत्र अध्येतव्यम्। उदाहरणार्थम्-

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने।

सकृद्गीताम्भसि स्नानं संसारमलनाशनम्।।

अधोलिखितानां पदानामाशयोऽन्वेष्टव्यः-

लोकसङ्ग्रहम्, नैष्कर्म्यम्, प्रकृतिजः, सन्न्यसनम्

 


1228.png