12078CH06.tif


षष्ठः पाठः


सूक्तिसुधा


संस्कृत साहित्य में सूक्तियों का समृद्ध भण्डार है। सूक्ति का अर्थ है सुन्दर वचन, सुधा का अर्थ है अमृत, सूक्तिसुधा का अर्थ है सुन्दर वचन रूपी अमृत। इस पाठ में पण्डितराज जगन्नाथ, महाकवि माघ, भारवि, प्रसिद्ध नाटककार भवभूति तथा महाकवि भर्तृहरि की सूक्तियाँ संकलित हैं। ये सूक्तियाँ आज भी हमारे जीवन के लिए बहुमूल्य, उपयोगी एवं पथप्रदर्शक हैं। विभिन्न विषयों से सम्बद्ध सूक्तियाँ निश्चित रूप से छात्रों के लिए उपयोगी सिद्ध होंगी।

प्रस्तुत पाठ के प्रथम, द्वितीय एवं तृतीय श्लोक के रचयिता पण्डितराज जगन्नाथ, चतुर्थ श्लोक के महाकवि माघ, पंचम श्लोक के भवभूति, षष्ठ श्लोक के महाकवि भारवि एवं सप्तम, अष्टम, नवम, दशम, एकादश व द्वादश श्लोकों के रचयिता भर्तृहरि हैं।

अस्ति यद्यपि सर्वत्र नीरं नीरज-राजितम्।

रमते न मरालस्य मानसं मानसं विना ।।1।।


नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत्।

विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः ।।2।।


तावत् कोकिल विरसान् यापय दिवसान् वनान्तरे निवसन्।

यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ।।3।।


नालम्बते दैष्टिकतां न निषीदति पौरुषे।

शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ।।4।।


न किञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।

तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः।।5।।


सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः।।6।।

 

स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः।

विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ।।7।।

 

विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।

यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्।।8।।

 

पापान्निवारयति योजयते हिताय,

गुह्यं निगूहति गुणान् प्रकटीकरोति।

आपद्गतं च न जहाति ददाति काले,

सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ।।9।।

 

मनसि वचसि काये पुण्यपीयूषपूर्णा-

स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।

परगुणपरमाणून् पर्वतीकृत्य नित्यं,

निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।।10।।

 

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः,

न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।

वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते,

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।। 11।।


यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा,

यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः।

आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्,

प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः ।।12।।



शब्दार्थाः टिप्पण्यश्च


नीरजराजितम्  कमलशोभितम्  कमलों से सुशोभित
मरालस्य  हंसस्य  हंस का
मानसम्  मनः मानसरोवरं च
मन एवं मानसरोवर 
तनुषे
(तन् + आत्मने.लट्, मध्यम पुरुष एकवचन)
 विस्तारयसि 

विस्तृत कर रहे हो

विरसान् रसरहितान्
 रसरहित (शुष्क)
यापय  व्यतीतं कुरु  व्यतीत करो
निवसन् (नि + वस् + शतृ)
वासं कुर्वन्  निवास करते हुए
रसालः
आम्रपादपः
आम का वृक्ष
दैष्टिकतां  भाग्यत्वं भाग्यत्व को
निषीदति
अवलम्बते  आश्रय लेता है।
कुर्वाणः (कृ + शानच्)
कुर्वन्
करते हुए
सौख्यैः
सुखपूर्वकैः सुखों के द्वारा
अपोहति
दूरीकरोति  दूर करता है।
विदधीत
(वि उपसर्ग + डुधाञ् (धा) विधिलिङ्, प्रथम पुरुष एकवचन)
 कुर्वीत

 करो

वृणते वरणं कुर्वन्ति   वरण करती हैं।
विमृश्यकारिणम्  विचिन्त्यकारिणम्
विचारकर कार्य करने वाले को
स्वायत्तम् निजाधीनं  स्वयं के अधीन
विधात्रा
ब्रह्मणा ब्रह्मा के द्वारा
छादनम्
आवरणम् आवरण
सर्वविदाम्
सर्वज्ञानाम्
सर्वज्ञों के
अभ्युदये
(अभि + उदये, यण् सन्धि)          
उन्नतौ

उन्नति में

सदसि
(सदस् शब्द नपुं. सप्तमी विभक्ति एकवचन)
सभायाम्

सभा में

वाक्पटुता
वाचि पटुता वाणी में कुशलता
युधि
युद्धे युद्ध में
निगूहति
आच्छादयति छिपाता है
जहाति
त्यजति छोड़ देता है
वचसि
(वचस् सप्तमी विभक्ति एकवचन)
वाचि

वाणी में

प्रीणयन्तः
प्रसन्नं कुर्वन्तः प्रसन्न करते हुए
परगुणपरमाणून् 
अन्येषाम् अतिसूक्ष्मान् गुणान्
दूसरों के अति सूक्ष्म गुणों को
पर्वतीकृत्य
विशालतां नीत्वा
बढ़ा-चढ़ाकर
हृदि
(हृत् शब्द सप्तमी  विभक्ति एकवचन) 
हृदये

हृदय में

विकसन्तः
विकासं कुर्वन्तः खिलते हुए
केयूराणि
विशिष्टाभूषणानि बाजूबन्ध, भुजबन्ध
मूर्धजाः
केशाः सिर के बाल
क्षीयन्ते
विनश्यन्ते
नष्ट हो जाते हैं।
कलेवरगृहं 

शरीरस्य गृहं  
(षष्ठी तत्पु.समास) 
शरीर

जरा
वृद्धत्वं बुढ़ापा
प्रोद्दीप्ते
प्रज्ज्वलिते  जलने पर
उद्यमः
परिश्रम मेहनत


अभ्यासः

1. संस्कृतभाषया प्रश्नोत्तराणि लिखत ।

    (क) सर्वत्र कीदृशं नीरम् अस्ति?

    (ख) मरालस्य मानसं कं विना न रमते।

    (ग) विद्वान् कम् अपेक्षते?

    (घ) सत्कविः कौ द्वौ अपेक्षते?

    (ङ) यः यस्य प्रियः सः तस्य कृते किं भवति?

    (च) सहसा किं न विदधीत?

    (छ) विधात्रा किं विनिर्मितम्?

    (ज) अपण्डितानां विभूषणं किम्?

    (झ) महात्मनां प्रकृतिसिद्धं किं भवति?

    (ञ) पापात् कः निवारयति?

    (ट) सन्तः कान् पर्वतीकुर्वन्ति?

    (ठ) कीदृशं भूषणं न क्षीयते?

    (ड) कूपखननं कदा न उचितम्?

2. अधोलिखितपद्यांशानां सप्रसङ्ंग हिन्दीभाषया व्याख्या विधेया ।

     (क) वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः।

     (ख) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।

     (ग) प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः।

3. रिक्तस्थानपूर्तिः करणीया ।

     (क) सत्कविरिव विद्वान् शब्दार्थौ ............... अपेक्षते।

     (ख) सन्तः ............... प्रवदन्ति।

4. निम्नलिखितश्लोकयोः अन्वयं लिखत ।

     यथा- यद्यपि नीरज-राजितं नीरं सर्वत्र अस्ति। (परं) मरालस्य मानसं मानसं विना न रमते।

     (क) नीरक्षीरविवेके ...............

     (ख) विपदि धैर्यमथाभ्युदये ...............

5. निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरुत ।

     नीरजम्, रसालः, पौरुषः, विमृश्यकारिणः, जरा।

6. निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।

  (क) मरालस्य
 (i) आश्रयते
  (ख) अवलम्बते
(ii) ब्रह्मणा
  (ग) अधुना
(iii) विशदीकृत्य
  (घ) विधात्रा
(iv) हंसस्य
  (ङ) पर्वतीकृत्य
(v) साम्प्रतम्
  (च) नीरजं
(vi) आम्रः
  (छ) रसालः
(vii) विभूतयः
  (ज) सम्पदः
(viii) कमलम्
  (झ) यशसि
(ix) कीर्त्तौ

7. अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत ।

    (क) मूर्खः        ...............

    (ख) अप्रियः    ...............

    (ग) पुण्यात्     ...............

    (घ) यौवनम्    ...............

    (ङ) उपेक्षते     ...............

8. सन्धिविच्छेदः क्रियताम् ।

    (क) नालम्बते - न + ...............

    (ख) विश्वस्मिन्नधुनान्यः - विश्वस्मिन् + ............... + अन्यः

    (ग) कोऽपि - कः + ...............

    (घ) चाभिरुचिर्व्यसनं - च + ............... + व्यसनम्

    (ङ) चन्द्रोज्ज्वलाः - ............... + ...............

9. (अ) अधोलिखितशब्दानां समासविग्रहः कार्यः ।

    यथा-नीरज-राजितम्     -    नीरजैः  राजितम्।

    (क) अलिमालः

    (ख) वाक्पटुता

    (ग) चन्द्रोज्ज्वलाः

    (घ) अप्रतिहता

    (ङ) वाग्भूषणम्

    (आ) अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

    यथा-कुलस्य व्रतं ............... कुलव्रतम्

    (क) वनस्य अन्तरे ...............

    (ख) गुणानां लुब्धाः ...............

    (ग) प्रकृत्या सिद्धम् ...............

    (घ) उपकारस्य श्रेणिभिः ...............

    (ङ) आत्मनः श्रेयसि ...............

10. अधोलिखितशब्देषु प्रकृतिप्रत्ययानां विभागः करणीयः ।

      यथा-राजितम् - राज्       +      क्त

      (क) दैष्टिकतां     -     ........... +      तल्

      (ख) कुर्वाणः       -    ...........   +    शानच्

      (ग) पटुता           -        पटु       +   ..........

      (घ) सिद्धम्          -    ...........  +      क्त

      (ङ) विमृश्य         -        वि       +       मृश्     +   .........

11. अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम् ।

      यथा-अस्ति यद्यपि ............... ।।अनुष्टुप् छन्दः।

      (क) तावत् कोकिल ............... समुल्लसति।।

      (ख) स्वायत्तमेकान्त ............... मौनमपण्डितानाम्।।

      (ग) विपदि धैर्यमथा ............... महात्मनाम्।।

      (घ) पापान्निवारयति ............... प्रवदन्ति सन्तः।।

      (ङ) केयूराणि न ............... भूषणम्।।

12. अधोलिखितपङ्क्तिषु कोऽलङ्कारः? लिख्यताम् ।

     (क) शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते।

     (ख) वाग्भूषणं भूषणम्।

     (ग) निजहृदि विकसन्तः सन्ति सन्तः कियन्तः।

     (घ) रमते न मरालस्य मानसं मानसं विना।

     (ङ) यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति।


योग्यताविस्तारः

(अ) समानार्थकश्लोकाः ।

1. हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः।

    नीरक्षीरविवेके तु हंसो हंसो बको बकः।।

2. महाजनस्य संसर्गः कस्य नोन्नतिकारकः।

     पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम्।।

3. आत्मार्थे जीवलोकेऽस्मिन् को न जीवति मानवः।

    परं परोपकारार्थं यो जीवति स जीवति।।

4. अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।

     ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्जयति।।

5. यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः।

     तावदात्महितं कुर्यात् प्राणान्ते किं करिष्यति।।

(ब) छन्दसां लक्षणोदाहरणानि ।

     1. शार्दूलविक्रीडितम्-

         लक्षणम्-‘‘सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितम्’’।

         उदाहरणम्

         (i) केयूराणि न भूषयन्ति.....। (ii) यावत्स्वस्थमिदं कलेवरगृहम्.....।

    2. अनुष्टुप् छन्दः -

         लक्षणम्-‘‘श्लोके षष्ठं गुरुज्ञेयं सर्वत्र लघु पञ्चमम्।

                        द्विःचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः।।’’

        उदाहरणम्

        अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम्.....।

3. वसन्ततिलका-

    लक्षणम्-‘‘उक्ता वसन्ततिलका तभजा जगौ गः।’’

    उदाहरणम्

    पापान्निवारयति योजयते हिताय।

4. उपजातिः-इन्द्रवज्रा उपेन्द्रवज्रा इति वृत्तयोः संयोगेन उपजातिः वृत्तं भवति।

     लक्षणम्-‘‘स्यादिन्द्रवज्रा यदि तौ जगौ गः।

                     उपेन्द्रवज्रा जतजास्ततो गौ।।’’

     उदाहरणम्

     स्वायत्तमेकान्तगुणं

5. मालिनी-

     लक्षणम्-‘‘ननमयययुतेयं मालिनी भोगिलोकैः।’’

     उदाहरणम्

     मनसि वचसि काये पुण्यपीयूषपूर्णा...।

6. आर्या

     लक्षणम्-‘‘यस्याः प्रथमे पादे द्वादशमात्रास्तथा तृतीयेऽपि।

                    अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या।।’’

     उदाहरणम्

     (i) नीरक्षीर विवेके ....।

     (ii) तावत् कोकिल ....।


     आर्याच्छन्दसि विशिष्टः लयः गेयता च भवति।

     तदनुसारेण आर्यायाः गानस्य अभ्यासः कार्यः।


(स) अधोलिखितानाम् हिन्दीभाषायाः आभाणकानां समानार्थकाः संस्कृत पङ्पंक्तयः अन्वेष्टव्याः-

      1. आग लगने पर कुआँ खोदना

      2. सबसे भली चुप

      3. दूध का दूध पानी का पानी


431.png