12078CH07.tif


सप्तमः पाठः


विक्रमस्यौदार्यम्

"सिंहासनद्वात्रिंशिका" बत्तीस मनोरञ्जक कथाओं का संग्रह है। इसके केवल गद्यमय, केवल पद्यमय, गद्य–पद्यमय, ये तीन पाठ पाये जाते हैं। संग्रह में स्थित प्रत्येक कथा धारा नगरी के राजा भोज को सुनायी गयी है। अतः इस ग्रन्थ का समय राजा भोज (1018–1063) के अनन्तर ही माना जाता है।

एक टीले की खुदाई करने पर राजा भोज को एक सिंहासन मिला। वह सिंहासन राजा विक्रमादित्य का था। शुभ मुहूर्त में राजा भोज उस सिंहासन पर बैठना चाहता है तो सिंहासन में बनी 32 पुत्तलिकाओं में से प्रत्येक पुत्तलिका राजा विक्रमादित्य के गुणों तथा पराक्रम की एक–एक कथा सुनाकर राजा को सिंहासन पर बैठने से पुनःपुनः रोकती है। प्रत्येक पुत्तलिका ने राजा से यही प्रश्न किया कि ‘क्या तुममें विक्रम जैसा गुण है? यदि है तो इस सिंहासन पर बैठ सकते हो अन्यथा नहीं।’

प्रस्तुत पाठ उपर्युक्त ‘सिंहासनद्वात्रिंशिका’ से ही उद्धृत है। इसमें बताया गया है कि किस प्रकार राजा विक्रम को यह संसार असार प्रतीत होता है। अपने औदार्यवश वे सम्पूर्ण राजकोष को दान करना चाहते हैं। इसके लिए उन्होंने ‘सर्वस्वदक्षिणयज्ञ’ का अनुष्ठान किया। उस यज्ञ में सब कुछ परित्याग कर दिया। यहाँ तक कि समुद्र की ओर से प्रदान किये गये अद्वितीय चार रत्न भी ब्राह्मण को प्रदान कर दिये। इस प्रकार से विक्रम ने अत्यधिक उदारता का परिचय दिया।

पुनरपि राजा सिंहासने समुपवेष्टुं गच्छति। ततोऽन्या पुत्तलिका समवदत् "भो राजन्, एतत्सिंहासने तेनैव अध्यासितव्यं यस्य विक्रमतुल्यम् औदार्यमस्ति।" भोजेनोक्तम् " भो पुत्तलिके, कथय तस्यौदार्यम्।" सा वदति

Chap-07.tif

, "राजन् यस्त्वर्थिनां पूरयति, तस्येप्सितं देवः सम्पादयति।’’ यच्चोक्त म्–

उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्त म् ।

शूरं कृतज्ञं दृढनिश्चयं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ।।

एवं सकलगुणनिवासः स विक्रमो राजा एकदा स्वमनस्यचिन्तयत्–

‘अहो असारोऽयं संसारः, कदा कस्य किं भविष्यतीति न ज्ञायते। यच्चोपार्जितानां वित्तं तदपि दानभोगैर्विना सफलं न भवति। तथा चोक्तम्–

उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।

तटाकोदरसंस्थानां परीवाह इवाम्भसाम् ।।

अपि च

दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्त्तव्यः।

पश्येह मधुकरीणां सञ्चितमर्थं हरन्त्यन्ये ।।

इत्येवं विचार्य सर्वस्वदक्षिणं यज्ञं कर्त्तुमुपक्रान्तवान्। ततः शिल्पिभिरतीव मनोहरो मण्डपः कारितः। सर्वापि यज्ञसामग्री समहृता। देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूताः। तस्मिन्नवसरे समुद्राह्वानार्थं कि श्चद्ब्राह्मणः समुद्रतीरे प्रेषितः। सोऽपि समुद्रतीरं गत्वा गन्धपुष्पादिषोडशोपचारं विधायाब्रवीत् "भोः समुद्र! विक्रमार्को राजा यज्ञं करोति। तेन प्रेषितोऽहं त्वामाह्वातुं समागतः।’’ इति जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं स्थितः। कोऽपि तस्य प्रत्युत्तरं न ददौ। तत उज्जयिनीं यावत्प्रत्यागच्छति तावद्देदीप्यमानशरीरः समुद्रो ब्राह्मणरूपी सन् तमागत्यावदत् "भो ब्राह्मण, विक्रमेणास्मानाह्वातुं प्रेषितस्त्वं, तर्हि तेन यास्माकं सम्भावना कृता सा प्राप्तैव। एतदेव सुहृदो लक्षणं यत्समये दानमानादि क्रियते।’’ उक्तं च–

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।

भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ।।

दूरस्थितानां मैत्री नश्यति समीपस्थानां वर्धते इति न वाच्यम्।

गिरौ कलापी गगने पयोदो लक्षान्तरेऽर्कश्च जले च पद्मम्।

इन्दुर्द्विलक्षे कुमुदस्य बन्धुर्यो यस्य मित्रं न हि तस्य दूरम्।।

तस्मै राज्ञे व्ययार्थं रत्नचतुष्टयं दास्यामि। एतेषां महात्म्यम्-एकं रत्नं यद्वस्तु स्मर्यते तद्ददाति। द्वितीयरत्नेन भोजनादिकममृततुल्यमुत्पद्यते। तृतीयरत्नाच्चतुरङ्गबलं भवति। चतुर्थाद्रत्नाद्दिव्याभरणानि जायन्ते। तदेतानि रत्नानि गृहीत्वा राज्ञो हस्ते प्रयच्छेति।

ततो ब्राह्मणस्तानि रत्नानि गृहीत्वा उज्जयिनीं यावदागतस्तावद्यज्ञसमाप्तिर्जाता। राजावभृथस्नानं कृत्वा सर्वानर्थिजनान् परिपूर्णमनोरथानकरोत्। ब्राह्मणो राजानं दृष्ट्वा रत्नान्यर्पयित्वा प्रत्येकं तेषां गुणकथनमकथयत्। ततो राजावदत्, "भो ब्राह्मण! भवान् यज्ञदक्षिणाकालं व्यतिक्रम्य समागतः। मया सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषितः। तर्हि त्वमेतेषां रत्नानां मध्ये यत्तुभ्यं रोचते तद्गृहाणेति। ब्राह्मणेनोक्तम्, ‘गृहं गत्वा गृहिणीं, पुत्रं, स्नुषां च पृष्ट्वा सर्वेभ्यो यद्रोचते तद्ग्रहीष्यामीति।’ राज्ञोक्तं ‘तथा कुरु।’ ब्राह्मणोऽपि स्वगृहमागत्य सर्वं वृत्तान्तं तेषामग्रेऽकथयत्। पुत्रेणोक्तं ‘यद्रत्नं चतुरङ्गबलं ददाति तद्ग्रहीष्यामः। यतः सुखेन राज्यं कर्त्तुमर्हिष्यामः।’ पित्रोक्तं ‘बुद्धिमता राज्यं न प्रार्थनीयम्।’ पुनः पिता वदति ‘यस्माद्धनं लभते तद् गृहाण। धनेन सर्वमपि लभ्यते।’ भार्ययोक्तं ‘यद्रत्नं षड्रसान् सूते तद्गृह्यताम्। सर्वेषां प्राणिनामन्नेनैव प्राणधारणं भवति।’ स्नुषयोक्तं ‘यद्रत्नं रत्नाभरणादिकं सूते तद् ग्राह्यम्।’

एवं चतुर्णां परस्परं विवादो लग्नः। ततो ब्राह्मणो राजसमीपमागत्य चतुर्णां विवादवृत्तान्तमकथयत्। राजापि तच्छ्रुत्वा तस्मै ब्राह्मणाय चत्वार्यपि रत्नानि ददौ। इति कथां कथयित्वा पुत्तलिका राजानमवदत्, ‘भो राजन्, त्वय्येवंविध- सहजमौदार्यं विद्यते चेदस्मिन् सिंहासने समुपविश।’ तच्छ्रुत्वा राजा तूष्णीमासीत्।


शब्दार्थाः टिप्पण्यश्च

पुत्तलिका - पुतली

समुपवेष्टुम् - सम् + उप + विश् धातु + तुमुन् प्रत्यय बैठने के लिए।

तेनैव - तेन + एव, उसी के द्वारा।

अध्यासितव्यम् - अधि + आस् धातु + तव्यत् प्रत्यय, बैठना चाहिए।

यस्त्वर्थिनाम् - (यः तु अर्थिनाम्), जो याचकों की।

ईप्सितम् - ईप्स् धातु + क्त प्रत्यय इच्छित।

शिल्पिन् - कारीगर।

यच्चोक्तम् - यत् + च + उक्तम्, एेसा कहा गया है।

समाहूताः - सम्यक् आहूताः, आमन्त्रित किये गये।

तटाकोदरसंस्थानाम् - तटाकस्य उदरे संस्थानाम् (अवस्थितानाम्) तालाब की गहराई में स्थित।

परीवाह - परि + वह् धातु + घञ् प्रत्यय, निकास।

मधुकरीणाम् - मधुमक्खियों का।

सर्वस्वदक्षिणम् - सर्वस्वं दक्षिणा यस्मिन् तत्। यज्ञ का नाम।

गुह्यमाख्याति - गुह्यम् (गोपनीयम्) आख्याति। गोपनीय को कहता है।

कलापी - कलापम् अस्ति अस्य, मोर।

लक्षान्तरेऽर्कश्च - लाखों योजन, मील की दूरी पर सूर्य भी।

पद्मम् - कमल

इन्दुर्द्विलक्षे - इन्दुः द्विलक्षे, चन्द्रमा से 2 लाख योजन दूर (अत्यधिक दूरी से आशय)

चतुरङ्गबलम् - घुड़सवार, रथसवार हाथीसवार, पैदल सैनिक, इनको मिलाकर चार अङ्गों वाली सेना

व्यतिक्रम्य - वि + अति + क्रम् धातु + ल्यप् प्रत्यय बीतने पर

स्नुषाम् - पुत्रवधू को


अभ्यासः

1. संस्कृतभाषया उत्तरत ।

(क) विक्रमस्यौदार्यम् पाठः कस्मात् ग्रन्थात् सङ्कलितः?

(ख) उपार्जितानां वित्तानां रक्षणं कथं भवति?

(ग) धनविषये कीदृशः व्यवहारः कर्त्तव्यः?

(घ) जलमध्ये पुष्पाञ्जलिं दत्वा क्षणं कः स्थितः?

(ङ) समुद्रः राज्ञे किमर्थं रत्नचतुष्टयं दत्तवान्?

(च) द्वितीयरत्नेन किम् उत्पद्यते?

(छ) प्रीतिलक्षणं कतिविधं भवति?

2. रिक्तस्थानानि पूरयत

(क) उपार्जितानां वित्तानां ................... हि रक्षणम्

(ख) दातव्यं भोक्तव्यं धनविषये ................... न कर्त्तव्यः।

(ग) ततः शिल्पिभिरतीव ................... मण्डपः कारितः।

(घ) भो समुद्र! ................... यज्ञं करोति।

(ङ) तस्मै राज्ञे व्ययार्थं ................... दास्यामि।

(च) यद्रत्नं चतुरङ्गबलं ................... तद् ग्रहीष्यामः।

(छ) सर्वेषां प्राणिनामनेनैव ................... भवति।

3. अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत

वित्तानाम्, शिल्पिभिः, गिरौ, एतेषाम्, दातव्यम् रोचते।

4. प्रकृतिप्रत्ययविभागः क्रियताम् ।

उपक्रान्तवान्, विधाय, गत्वा, गृहीत्वा, स्थितः, व्यतिक्रम्य, दातव्यम्।

5. सन्धिविच्छेदं कुरुत ।

तेनैव, यच्चोक्तम्, तस्येप्सितम्, चैव, यच्च, तदपि, सर्वापि, सोऽपि, प्राप्तैव, चेदस्मिन्, तच्छ्रुत्वा, त्वय्येवम्

6. सप्रसङ्गं हिन्दीभाषया व्याख्या कार्या ।

(क) उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।

तटाकोदरसंस्थानां परीवाह इवाम्भसाम्।।

(ख) ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।

भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्।।

7. अधोलिखितानां समस्तपदानां विग्रहं कुरुत ।

विक्रमतुल्यम्, क्रियाविधिज्ञम्, सकलगुणनिवासः, यज्ञसामग्री, समुद्रतीरम्, जलमध्ये, पुष्पाञ्जलिम्, देदीप्यमानशरीरः, ययार्थम्, यज्ञसमाप्तिः, गुणकथनम्, ब्राह्मणसमूहः, प्राणधारणम्, राजसमीपम्।


योग्यताविस्तारः

अधोलिखितानां सूक्तीनामध्ययनं कृत्वा प्रस्तुतपाठेन भावसाम्यम् अवधत्त।

1. मित्रम्-

(i) मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः

पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तद्दुर्लभम्।

ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला-

स्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत्।।

(ii) मातरि न दारेषु न सोदर्ये न चात्मजे।

विश्वासस्तादृशः पुंसां यादृङ्-मित्रे स्वभावजे।। कवितामृतकूप-88

(iii) न तन्मित्रं यस्य कोपाि६भेति यद्वामित्रं शङ्कितेनोपचर्यम्।

यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्र्ां सङ्गतानीतराणि।। नीतिकल्पतरु-9.141

(iv) केनामृतमिदं सृष्टं मित्रमित्यक्षरद्वयम्।

आपदां च परित्राणं शोकसन्तापभेषजम्।। पञ्चतन्त्रम्-2.60

2. औदार्यम्-

अयं निजः परो वेति गणना लघुचेतसाम्।

उदारचरितानां हि वसुधैव कुटुम्बकम्।। पञ्चतन्त्रम्-5.305

3. दानम्-

(i) धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।

सन्निमत्ते वरं त्यागो विनाशे नियते सति।।

(ii) परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।

परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम्।। विक्रर्मोवशीयम्-66

(iii) अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।

परोपकारः पुण्याय पापाय परपीडनम्।।

(iv) श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्नतु कङ्कणेन।

विभाति कायः करुणापराणां परोपकारेण न चन्दनेन।। नीतिशतकम्-1.72

(v) पद्माकरं दिनकरो विकचीकरोति

चन्द्रो विकासयति कैरवचक्रवालम्।

नाभ्यर्थितो जलधरोऽपि जलं ददाति

सन्तः स्वयं परहितेषु कृताभियोगाः।।

नीतिशतकम्-1.74