Table of Contents
द्वादशः पाठः
किन्तोः कुटिलता
यह पाठ देवर्षि श्रीकलानाथ शास्त्री द्वारा सम्पादित पं. श्री भट्ट मथुरानाथ शास्त्री के निबन्धसंग्रह ‘प्रबन्ध-पारिजातः’ से संकलित किया गया है।
पं. भट्ट मथुरानाथ शास्त्री के पिता पं. भट्ट द्वारकानाथ जयपुर निवासी थे। पं. भट्ट मथुरानाथ का जन्म जयपुर में सन् 1889 ई. में हुआ और निधन भी वहीं 4 जून, 1964 ई. को हुआ। आपकी पूर्वज परम्परा अत्यन्त प्रतिभा सम्पन्न रही। इन्होंने महाराजा संस्कृत कॉलेज से साहित्याचार्य की उपाधि प्राप्त की और वहीं व्याख्याता बन गए। आप जयपुर से प्रकाशित ‘संस्कृतरत्नाकर’ पत्रिका के सम्पादक रहे। भट्ट मथुरानाथ शास्त्री प्रणीत संस्कृत की रचनाओं में ‘जयपुरवैभवम्’, ‘गोविन्दवैभवम्’, ‘संस्कृतगाथासप्तशती’ और ‘साहित्यवैभवम्’ विशेष उल्लेखनीय हैं। इनके अतिरिक्त इन्होंने चालीस कथाएँ और सौ से भी अधिक निबन्ध संस्कृत में लिखे। इनकी ‘सुरभारती’, ‘सुजन-दुर्जन-सन्दर्भः’ और ‘युद्धमुद्धतम्’ नामक पद्य रचनाएँ भी उल्लेखनीय हैं।
यहाँ संकलित पाठ में श्री भट्ट जी ने दिखाया है कि जब कभी किसी कथन के साथ ‘किन्तु’ लग जाता है, तब बहुधा वह पहले कथन के अच्छे भाव को समाप्त कर उसे दोषपूर्ण और सम्बोधित व्यक्ति के लिए दुःख पैदा करने वाला, उसके उत्साह का नाशक और शत्रुरूप बना देता है। एेसे अवसर विरल होते हैं जहाँ ‘किन्तु’ सम्बोधित व्यक्ति के लिए सुखदायक सिद्ध होता है।
लेख की भाषा सरल व सुबोध है, अलंकारों और दीर्घ समासों आदि का प्रयोग नहीं किया गया है। भाव सुस्पष्ट और सामान्य जीवन में जनसाधारण द्वारा अनुभूत हैं।
कुटिलेनामुना ‘किन्तु’-ना कियत्कालात् क्लेशितोऽस्मि। यत्र यत्राहं गच्छामि तत्र तत्रैवास्य शत्रुता सम्मुखस्थिता भवति। अस्य ‘किन्तोः’ कारणात् कस्मिन्नपि कार्ये सफलता दुर्घटास्ति। बहून् वारान् दृष्टवानस्मि यत्कार्यं सर्वथा सज्जं सम्पद्यते, सर्वप्रकारैः सिद्धिर्हस्तगता भवति, यथैव सफलताया मूर्तिः सम्मुखमागच्छन्ती विलोक्यते तथैव क्रूरोऽयं किन्तुर्मध्ये प्रविश्य सर्वं विनाशयति।
राज्यतो लब्धाया भूमेरभियोगो बहोः कालान्न्यायालये चलति स्म। अस्मिन्नभियोगे प्राड्विवाकमहोदयो निर्णयं श्रावयन् अवोचत् ...‘वयं पश्यामो यदभियोत्तुηः पक्षादावश्यकानि सर्वाण्येव प्रमाणान्युपस्थितानि सन्ति। राज्यतो लब्धाया भूमेर्दानपत्रमप्युुपस्थापितमस्ति। न्यायालयेन परिज्ञातं यत् इयं भूमिरभियोक्तुरधि- कारभुक्ताऽस्ति.........।’
अहं निε श्चन्तताया एकं शान्तं निः -श्वासममुचम्। मया सर्वथा स्थिरीकृतं यद्भाग्य- लक्ष्मीरनुपदमेव मे कन्धरायां विजयमाल्यं प्रददातीति। परं प्राड्विवाकमहोदयः पुनरग्रे प्रावोचत् ... ‘......... किन्तु राजस्व-विभागस्य प्रधानः किलैकोऽधिकारी एतद्विरोधे एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं मन्यामहे।’ मम सर्वोऽप्युत्साहः पलायाञ्चक्रे। ‘किन्तु’-कुन्तो ममान्तःकरणं समन्तात् कृन्तति स्म। निजहृदयमवष्टभ्य न्यायं प्रशंसन् गृहमागमम्।
दृष्टं मया यदेष ‘किन्तुः’ दयाधर्मादिष्वपि अनधिकारचेष्टातो न विरतो भवति। प्रातः कालस्यैव कथास्ति... धर्मव्यवस्थापकमहोदयस्य समीपे एको दीनः करुणक्रन्दनपुरःसरं न्यवेदयत्... ‘महाराज! नववार्षिकी मे कन्या। जातस्य तस्या विवाहस्य अद्य तृतीयो दिवसः। नाद्यापि चतुर्थीकर्म सम्पन्नं येन विवाहः पूर्णः परिगण्येत। तस्याः पतिः सहसाऽम्रियत। हा हन्त! तस्या अबोधबालिकाया अग्रे किं भावि? अस्तकर्मसङ्ख्यावृद्धौ किं ममोच्चकुलमपि सहायकं भविष्यति? आज्ञापयन्तु श्रीमन्तः किं मया साम्प्रतं कर्त्तव्यम्।’
पण्डितमहोदयो गभीरतममुद्रयाऽवोचत्...‘अवश्यमिदं दयास्थानम्। वर्तमानकाले समाजस्य भीषणपरिस्थितेः पर्यालोचन इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था दीयेत... ‘किन्तु’ वयं मुखेन कथमेतत् कथयितुं शक्नुमः। प्राचीनमर्यादापि तु रक्षितव्या स्यात्।’
कुत्रचित् सोऽयं ‘किन्तुः’ नितान्तमनुतापं जनयति। अनेकवर्षाणां परिश्रमस्य फलस्वरूपं मन्निर्मितमेकं नवीनसंस्कृतपुस्तकमादाय साहित्यमर्मज्ञस्य एकस्य देशनेतुः समीपेऽगच्छम्। ‘नेतृ’- महोदयः पुस्तकस्य गुणान् सम्यक् परीक्ष्य प्रसन्नः सन्नवोचत्... ‘पुस्तकं वास्तव एव अद्भुतं निर्मितमस्ति। बहुकालानन्तरं संस्कृते एवंविधा नवीनता दृष्टिगताऽभवत्। ... ‘किन्तु’ मत्सम्मत्यां तदिदं पुस्तकं भवान् संस्कृते न विलिख्य यदि हिन्दीभाषायामलिखिष्यत् तर्हि सम्यगभविष्यत्।’
गृहं प्रति निवर्तमानोऽहं ‘किन्तु’ कृताया अस्या मर्मवेधकशिक्षाया उपरि समस्तेऽपि गृहमार्गे कर्णं मर्दयन्नगच्छम्। अनेन ‘किन्तु’-ना मह्यं सा शिक्षा दत्तास्ति यद्यहं सत्पुरुषः स्यां तर्हि पुनरस्मिन् मार्गे पदनिक्षेपस्य नामापि न गृह्णीयाम्।
कदाचित् कदाचित्त्वयं क्रूरः ‘किन्तुः’ मुखस्य कवलमप्याच्छिनत्ति। स्वल्प- दिनानामेव वार्तास्ति। आयुर्वेदमार्तण्डस्य श्रीमतः स्वामिमहाभागस्य औषधिं निषेव्य अधुनैवाहं नीरोगोऽभवम्। अस्मिन्नेव समये मित्रगोष्ठ्या निमन्त्रणं प्राप्नवम्। भोजनगोष्ठ्यां समवेतुं ममापीच्छाशक्तौ प्राबल्यस्य प्रवाहः पूर्णमात्रायां प्रवर्द्धमान आसीत्। अहं स्वामिमहोदयमप्राक्षम्...‘किमहं तत्र गन्तुं शक्नोमि।’ उत्तरमलभ्यत... ‘तादृशी हानिस्तु नास्ति। ‘किन्तु’ गरिष्ठवस्तुनो भोजने अवधानमत्यावश्यकम् अधुनापि दौर्बल्यमस्ति।’
उत्साहस्य ज्वाला या पूर्वं प्रचण्डतमा आसीत् अर्द्धमात्रायां तु तत्रैव निर्वाणाभवत्। अस्तु येन केनापि प्रकारेण भोजनगोष्ठ्याविशेषाधिवेशनेऽस्मिन् सम्मिलितस्त्वभवमेव। भोजनपीठे अधिकारं कुर्वन्नेवाहमपश्यं यत् सर्वाङ्गपूर्णा एका भोज्यव्य-ञ्'नानां प्रदर्शनी सम्मुखे वर्तत इति। धीरगम्भीरक्रमेणाहं भोजनकाण्डस्यारम्भमकरवम्। अहं मोदकस्यैकं ग्रासमगृह्णम्। तस्य स्वादसूत्रेण सन्दानितोऽहं यथैव द्वितीयं ग्रासमगृह्णं तथैव ‘स्वामिमहोदयस्य ‘किन्तु’ मम कण्ठनलिकामरुधत्। मुखस्य ग्रासो मुख एवाऽभ्राम्यत् अग्रे गन्तुं नाशक्नोत्। ‘किन्तोः’ भीषण-विभीषिका प्रत्येकवस्तुनि गरिष्ठतां सम्पाद्य भोजनं तत्रैव समाप्तमकरोत्।’
अहं देशसेवां कर्तुं गृहाद् बहिरभवम्। मया निश्चितमासीत् ‘एतावन्ति दिनानि स्वोदरसेवायै क्लिष्टोऽभवम्। इदानीं कियन्तं कालं देशसेवायामपि लक्ष्यं ददामि।’ यथैवाहं मार्गेऽग्रेसरो भवामि, तथैव मम बाल्याध्यापकमहोदयः सम्मुखोऽभवत्। मास्टरमहोदयेन प्रस्थानहेतौ पृष्टे सति सम्पूर्णसमाचारनिवेदनं ममाऽऽवश्यकमभूत्। अध्यापकमहोदयः प्रावोचत्...‘तात, सर्वमिदं सम्यक्। किन्तु स्वगृहाभिमुखमपि किञ्चिद्विलोकनीयं भवेत्। येषां भरणपोषणं भवत्येवायत्तं तान् किं भवान् निराधारमेव निर्मुच्य स्वैरं गन्तुमर्हेत्।’
पुनः किमासीत्। अत्रैव परोपकारविचाराणाम् इतिश्रीरभूत्। ‘किन्तु’- महोदयेन देशसेवायाः सर्वापि विचारपरम्परा परपारे परावर्त्यत। गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव परावर्तिषि।
मयानुभूतमस्ति यदयं कुटिलः ‘किन्तुः’ नानादेशेषु नानारूपाणि सन्धार्य गुप्तं विचरति। यथैव लोकानां कार्यसिद्धेरवसरः समुपतिष्ठते तथैवायं प्रकटीभूय लोकानां कार्याणि यथावस्थितमवरुणद्धि। अहमेतस्य ‘किन्तु’-कुठारस्य कठोरतया नितान्तमेव तान्तोऽस्मि। अहं वाञ्छामि यदेतस्याक्रमणात् सुरक्षितो भवेयम्। परं नायं मां त्यत्तुηमिच्छति। बहवो मार्मिका मामबोधयन् यत् ‘त्वम् एतं सम्मुखमायान्तं दृष्ट्वैव कथं वित्रस्यसि, कुत श्च एनमपसारयितुं प्रयतसे? किमेनं सर्वथा अहितकारिणमेव निε श्चतवानसि? नेदं सम्यक्। पशुघातकस्य छुरिकापि पाशपतितस्य गलबन्धनं छित्त्वा समये प्राणरक्षां कुर्वती दृष्टा।’ अहमपि सत्यस्यैकान्ततोऽपलापं न करिष्यामि। एतस्य कथनस्य सत्यताया मयापि परिचयः कदाचित् कदाचित् प्राप्तोऽस्ति।
‘शब्दैः प्रतीयते यद् गृहे चौरः प्रविष्टोऽस्ति’ इति सभयमनुलपन्ती गृहिणी रात्रौ मामबोधयत्। अहं निजशौर्यं प्रकाशयन् महता वीरदर्पेण लगुडमात्रमादाय अन्धकार एव चौरनिग्रहाय प्रचलितोऽभवम्। गृहिणी कर्णसमीप आगत्य शनैरवदत्... "अन्धकारेऽस्मिन् यासि त्वमवश्यम्, ‘किन्तु’ दृश्यतां स शस्त्रं न प्रहरेत्।"
पुनः किमासीत्। मम वीरदर्पस्य शौर्यस्य च प्रज्ज्वलितं ज्योतिस्तत्रैव निर्वाणमभूत्। चौरनिग्रहः कीदृशः, निजप्राणपरित्राणमेव मे अन्वेषणीयमभवत्। लगुडं प्रक्षिप्य कोष्ठके निलीनोऽभवम्। तत एव च कम्पित-कण्ठेन चीत्कारमकरवम्--‘लोकाः! आगच्छत, चौरः प्रविष्टोऽस्ति।’
एकेन अमुना ‘किन्तु’ - ना चौरस्य चपेटाभ्योऽवमुच्य सौख्यस्य सुरक्षिते प्रकोष्ठकेऽहं प्रवेशितः। अनेन किन्तुना कस्मिन्नपि सङ्कटसमये कदाचित् किञ्चित्कार्यं कामं कृतं स्यात् परं भूयसा तु अस्माद् भयमेव भवति। अस्य हि सार्वदिकः स्वभाव एव यत् वार्ता काममुत्तमास्तु अधमा वा परमयं मध्ये प्रविष्य तस्याः कथाया विच्छेदमवश्यं करिष्यति। अतएव कस्मिन्नपि समये कार्यसाधकत्वेऽपि लोका अस्माद् वित्रस्यन्त्येव। वैरिणां भारावताराय कदाचित् हिताधराऽपि करवालधारा क्रूराकारा प्रखरप्रकारा एव प्रसिद्धा लोकेषु। विगुणः कार्षापणः, कुत्सित-श्च पुत्रः सङ्कटे कदाचिदुपयुक्तो भवेत् परन्तु जनसमाजे द्वयोरुपर्येव नासा- भ्रूसङ्कोचो जातो जनिष्यते च। इदमेव कारणं यत् यस्यां वार्तायां ‘किन्तुः’ उत्पद्यते तां वार्तां लोका विगुणां गणयन्ति।
शब्दार्थाः टिप्पण्यश्च
अभियोगः - मुकदमा, अभि + युज् + घञ्, पुल्लिङ्ग, प्रथम पुरुष एकवचन
अभियोक्तु : - मुद्दई का, मुकदमा चलाने वाले का, अभि + युज् + तृ। ऋकारान्त पुल्लिङ्ग, पञ्चमी एकवचन।
दुर्घटा - असम्भव, दुःखेन घटायितुं शक्या, दुर् + घट् + आ
कुन्तः - भाला
मुद्रा - मुखाकृति
प्राबल्यस्य - प्रबलता का, वेगपूर्वक, प्र + बल + ष्यञ्, नपुंसक लिङ्ग, षष्ठी एकवचन
निर्वाणा - समाप्त हो चुकी, निर् + वा + क्त, स्त्रीलिङ्ग, प्रथमपुरुष, एकवचन
इतिश्रीः - समाप्ति
मार्मिकः - तत्त्वज्ञ, विषयज्ञ, मर्म + ठक्, प्रथमपुरुष एकवचन
प्राड्विवाकः - जज, न्यायाधीश
लक्ष्यदानम् - दृष्टिपात, ध्यानदेना, लक्ष्यस्य दानम्, षष्ठी तत्पुरुष
चतुर्थीकर्म - विवाहोपरान्त चौथे दिन किया जाने वाला कर्म, चतुर्थे अहनि क्रियमाणं कर्म, मध्यमपद, लोपी समास
कवलम् - ग्रास
अवधानम् - सावधानी, परहेज, अव + धा + ल्युट् प्रत्यय
विभीषिका - भय, डर, वि + भी + षिच् + ण्वुल् + टाप्, प्रत्यय षुकागम और इत्व
तान्तः - पीड़ित, परेशान
परिगण्येत - गिना जाए, परि + गण् (संख्याने) + विधिलिङ्
कन्धरायाम् - गले में, गर्दन पर (में)
साम्प्रतम् - अभी, वर्तमान में, सम्प्रति एव साम्प्रतम्
गभीरतमम् - गम्भीरतम, गभीर + तमप्
पर्यालोचने - देखने पर, समग्र दृष्टिपात करने पर, परि + आ + लोच् + ल्युट्, सप्तमी विभक्ति, एकवचन (दर्शन, अंकन)
न्यवेदयत् - निवेदन किया, नि + अवेदयत्, विद् (ज्ञाने) धातु लङ्, लकार णिजन्त, प्रथमपुरुष, एकवचन
पदनिक्षेप - कदमरखना, पदयोः निक्षेपः, षष्ठी तत्पुरुष
अनुतापम् - पश्चात्ताप, पछतावा, अनु + तापम्
विलोक्यते - देखा जाता है, वि + लोक् (दर्शन, अंकन) + यक्, लट् लकार आत्मनेपद, प्रथमपुरुष, एकवचन भावे प्रयोगः
अवष्टभ्य - रोककर, अव + स्तम्भ् (अवरोध) + ल्यप् प्रत्यय
परित्राणम् - रक्षण, बचाव, परि + त्रैङ् (पालने) + ल्युट्, नपुंसकलिङ्ग प्रथमपुरुष एकवचन
अन्वेषणीयम् - ढूँढने योग्य, खोजने योग्य, अनु + इष् + अनीयर् प्रत्यय
लगुडम् - लाठी, दण्ड
निलीनः - छुपा हुआ, नि + ली + क्त प्रत्यय
चपेटाभ्यः - ताडन से, थप्पड़ों से
कुत्सितः - निन्दित, गर्हित
अभ्यासः
1. संस्कृतेन उत्तरं दीयताम् ।
(क) भूमिविषयके अभियोगे ‘किन्तु’-ना का बाधा उपस्थापिता?
(ख) वाक्यमध्ये प्रविश्य सर्वं कार्यं केन विनाश्यते?
(ग) लेखकस्य देशसेवायाः विचारस्य कथम् इतिश्रीरभूत्?
(घ) नेतृमहोदयः पुस्तकप्रशंसां कुर्वन् ‘किन्तु’ प्रयोगेन कं परामर्शम् अददात्?
(ङ) भोजन-गोष्ठीस्थले कीदृशी प्रदर्शनी समायोजिता आसीत्?
(च) भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां कः अरुधत्?
(छ) धर्मव्यवस्थापकः विधवायाः पुनर्विवाहमुचितं मन्यमानोऽपि व्यवस्थां किमर्थं न ददौ?
(ज) गृहिणी पत्युः कर्णसमीपे आगत्य शनैः किम् अवदत्?
(झ) लोकाः किन्तु-युक्तां वार्तां केन कारणेन विगुणां गणयन्ति?
(ञ) किन्तोः सार्वदिकः प्रभावः कः?
2. उपयुक्तशब्दान् चित्वा रिक्तस्थानानां पूर्तिः विधेया ।
(दुर्घटा, अवधानम्, सन्दानितः, स्वामिमहोदयम्, संस्कृते, विवाहस्य, शान्तम्, पलायाञ्चक्रे, कालात्, सङ्कटे)
(क) अहम् ................... अप्राक्षं किमहं तत्र गन्तुं शक्नोमि।
(ख) अस्य ‘किन्तोः’ कारणात् कस्मिन्नपि कार्ये सफलता ................... अस्ति।
(ग) तस्य स्वादसूत्रेण ................... अहं यथैव द्वितीयं ग्रासमगृह्णं तथैव ‘किन्तुः’ मम कण्ठनलिकामरुधत्।
(घ) गरिष्ठवस्तुनो भोजने ................... अत्यावश्यकम्।
(ङ) विगुणः कार्षापणः कुत्सितश्च पुत्रः ................... कदाचिदुपयुक्क्तो भवेत्।
(च) राज्यतो लब्धाया भूमेरभियोगो बहोः ................... न्यायालये चलति स्म।
(छ) मम सर्वोऽप्युत्साहः ................... ।
(ज) अहं निश्चिन्तताया एकं ................... निःश्वासममुचम्।
(झ) जातस्य तस्या ................... अद्य तृतीयो दिवसः।
(ञ) बहुकालानन्तरं ................... एवं विधां नवीनता दृष्टिगताऽभवत्।
3. अधोलिखितैः उचितक्रियापदैः रिक्तस्थानानि पूरयत ।
परिगण्येत, परावर्तिषि, आच्छिनत्ति, मन्यामहे, दीयेत, अलिखिष्यत्
(क) प्रधानः एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं ...................।
(ख) गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव ...................।
(ग) यदि हिन्दीभाषायाम् ................... तर्हि सम्यगभविष्यत्।
(घ) इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था ...................।
(ङ) कदाचित् कदाचित्त्वयं क्रूरः ‘किन्तुः’ मुखस्य कवलमपि ...................।
(च) नाद्यापि चतुर्थीकर्म सम्पन्नं येन विवाहः ...................।
4. सन्धि-विच्छेदं कुरुत ।
(क) तत्रैवास्य ..................
(ख) सर्वाण्येव ..................
(ग) मन्निर्मितमेकम् ..................
(घ) किलैकोऽधिकारी ..................
(ङ) द्वयोरुपर्येव ..................
5. प्रकृति-प्रत्ययविभागः क्रियताम्
(क) निर्मुच्य ..................
(ख) आदाय ..................
(ग) प्रविष्टः ..................
(घ) आगत्य ..................
(ङ) परिज्ञातम् ..................
6. अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत ।
(क) कार्ये ..................
(ख) अभियोक्तु :..................
(ग) बालिकायाः ..................
(घ) न्यायालयेन ..................
(ङ) नेतुः ..................
(च) शक्तौ ..................
(छ) औषधिम् ..................
7. स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरुत ।
किन्तु, गन्तुम्, मह्यम्, विभीषिका, भरणपोषणम्, दृष्ट्वा।
8. विलोमशब्दान् लिखत ।
(क) विगुणः ..................
(ख) शौर्यम् ..................
(ग) सुरक्षितः ..................
(घ) शत्रुता ..................
(ङ) धीर: ..................
(च) भयम् ..................
योग्यताविस्तारः
1. स्वकल्पनया वाक्यपूर्तिं कुरुत ।
(क) अहम् उच्चाध्ययनं कर्त्तुमिच्छामि, किन्तु .................. ।
(ख) छात्राः कक्षायामुपस्थिताः, किन्तु .................. ।(ग) सः गन्तुमिच्छति, किन्तु .................. ।
(घ) वयं तर्त्तुमिच्छामः, किन्तु ..................।
(ङ) ते कार्यं कर्त्तुमिच्छन्ति, किन्तु ..................।
(च) अर्वाचीनाः जना अपि प्राचीनां भाषां पठितुमिच्छन्ति, किन्तु ..................।
(छ) निर्धना अपि धनमिच्छन्ति, किन्तु ..................।
(ज) सर्वे जना आजीविकामिच्छन्ति, किन्तु ..................।
(झ) मूकोऽपि वत्तुηमिच्छति, किन्तु ..................।
(ञ) अध्यापका अध्यापनं कर्त्तुमिच्छन्ति, किन्तु ..................।
2. अधोलिखितानाम् आभाणकानां समानार्थकानि वाक्यानि पाठात् अन्वेष्टव्यानि ।
(क) मुँह का कौर छीनना।
(ख) कुछ दिन पहले की बात है।
(ग) खोटा सिक्का और खोटा बेटा भी समय पर काम आते हैं।
(घ) नाक-भौंह सिकोड़ना।